Advertisement

Responsive Advertisement

Charak kalp chapter 8 chaturangul kalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः|
प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः||३||

ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु|
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः||४||

बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे|
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः||५||

फलकाले फलं तस्य ग्राह्यं परिणतं च यत्|
तेषं गुणवतां भारं सिकतासु निधापयेत्||६||

सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्|
ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत्||७||

द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते|
चतुर्वर्षमुखे बाले यावद्द्वादशवार्षिके||८||

चतुरङ्गुलमज्ज्ञस्तु प्रसृतं वाऽथवाऽञ्जलिम्|९|

सुरामण्डेन संयुक्तमथवा कोलसीधुना||९||

दधिमण्डेन वा युक्तं रसेनामलकस्य वा|
कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा||१०||

त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्|
तथा बिल्वकषायेण लवणक्षौद्रसंयुतम्||११||

कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्|
साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम्||१२||

चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्|
मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत्||१३||

तदेव दशमूलस्य कुलत्थानां यवस्य च|
कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत्||१४||

दन्तीक्वाथेऽञ्जलिं मज्ज्ञाः शम्पाकस्य गुडस्य च|
दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च||१५||

यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु|
लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम्||१६||

तत्र श्लोकाः

द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे|
सौवीरके कषाये च त्रिवृतो बिल्वकस्य च||१७||

लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः|
चतुरङ्गुलकल्पेऽस्मिन् सुकुमाराः सुखोदयाः||१८||

 

Post a Comment

0 Comments