Advertisement

Responsive Advertisement

Charak sutrasthan chapter 19 asthoudariyam Adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अष्टावुदराणीति, अष्टौ मूत्राघाता: अष्टौ क्षीरदोषा:, अष्टौ रेतोदोषा: ,सप्त कुष्ठानीति,सप्त पिडका:, सप्त विसर्पा:,षडतीसारा:, षडुदावर्ता:, पञ्च गुल्मा:, पञ्च प्लीहदोषा:, पञ्च कासा:, पञ्च श्वासा:, पञ्च हिक्का:, पञ्च तृष्णा:, पञ्च छर्दय:, पञ्च भक्तस्यानशनस्थानानि, पञ्च शिरोरोगा:, पञ्च हृद्रोगा:, पञ्च पाण्डुरोगा:, पञ्चोन्मादा:, चत्वारोऽपस्मारा:, चत्वारोऽक्षिरोगा:, चत्वारः कर्णरोगा:, चत्वारः प्रतिश्याया:, चत्वारो मुखरोगा:, चत्वारो ग्रहणीदोषा:, चत्वारो मदा:, चत्वारो मूर्च्छाया:, चत्वारः शोषा:, चत्वारि क्लैब्यानि:, त्रयः शोथा:, त्रीणि किलासानि, त्रिविधं लोहितपित्तम, द्वौ ज्वरO, द्वौ व्रण, द्वावायाम, द्वे गृध्रस्य, द्वे कामले, द्विविधमामम, द्विविधं वातरक्तम, द्विविधान्यर्शांसी, एक ऊरुस्तम्भ:, एकः सन्न्यास:, एको महागद:, विंशतिः क्रिमिजातय:, विंशतिः प्रमेहा:, विंशतिर्योनिव्यापद: इति इति अष्ट्चत्वारिंशद्रोगधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि ||3||

एतानि यथोद्देशमभिनिर्देक्ष्यामः

अष्टावुदराणीति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि, अष्टौ मूत्राघाता इतिवातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजाः, अष्टौ क्षीरदोषा इति वैवर्ण्यं वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौक्ष्यंगौरवमतिस्नेहश्च, अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलमन्यधातूपहितमवसादि ();

सप्त कुष्ठानीति कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणानि, सप्त पिडका इति शराविका कच्छपिका जालिनीसर्षप्यलजी विनता विद्रधी , सप्त विसर्पा इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः ();

षडतीसारा इति वातपित्तकफसन्निपातभयशोकजाः, षडुदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दिक्षवथुजाः ();

पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः, पञ्च प्लीहदोषा इति गुल्मैर्व्याख्याताः, पञ्च कासा इतिवातपित्तकफक्षतक्षयजाः, पञ्च श्वासा इति महोर्ध्वच्छिन्नतमकक्षुद्राः, पञ्च हिक्का इति महती गम्भीरा व्यपेता क्षुद्राऽन्नजाच, पञ्च तृष्णा इति वातपित्तामक्षयोपसर्गात्मिकाः, पञ्च छर्दय इति द्विष्टार्थसंयोगजा वातपित्तकफसन्निपातोद्रेकोत्थाश्च , पञ्च भक्तस्यानशनस्थानानीति वातपित्तकफसन्निपातद्वेषाः, पञ्च शिरोरोगा इति पूर्वोद्देशमभिसमस्यवातपित्तकफसन्निपातक्रिमिजाः, पञ्च हृद्रोगा इति शिरोरोगैर्व्याख्याताः, पञ्च पाण्डुरोगा इतिवातपित्तकफसन्निपातमृद्भक्षणजाः, पञ्चोन्मादा इति वातपित्तकफसन्निपातागन्तुनिमित्ताः ()

चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः, चत्वारोऽक्षिरोगाश्चत्वारः कर्णरोगाश्चत्वारः प्रतिश्यायाश्चत्वारोमुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः, चत्वारः शोषा इतिसाहससन्धारणक्षयविषमाशनजाः, चत्वारि क्लैब्यानीति बीजोपघाताद्ध्वजभङ्गाज्जरायाः शुक्रक्षयाच्च ()

त्रयः शोथा इति वातपित्तश्लेष्मनिमित्ताः, त्रीणि किलासानीति रक्तताम्रशुक्लानि, त्रिविधं लोहितपित्तमितिऊर्ध्वभागमधोभागमुभयभागं ()

द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः, द्वौ व्रणाविति निजश्चागन्तुजश्च, द्वावायामावितिबाह्यश्चाभ्यन्तरश्च, द्वे गृध्रस्याविति वाताद्वातकफाच्च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया , द्विविधमाममितिअलसको विसूचिका , द्विविधं वातरक्तमिति गम्भीरमुत्तानं , द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि ()

एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः, एकः सन्न्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः, एको महागद इतिअतत्त्वाभिनिवेशः ()

विंशतिः क्रिमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बराजन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः,ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्चसान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दशश्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः,वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इतिवातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते,तद्यथा-रक्तयोनिश्चारजस्का चाचरणा चातिचरणा प्राक्चरणा चोपप्लुता परिप्लुता चोदावर्तिनी कर्णिनी पुत्रघ्नीचान्तर्मुखी सूचीमुखी शुष्का वामिनी षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति ()

सर्व एव निजा विकारा नान्यत्र वातपित्तकफेभ्यो निर्वर्तन्ते, यथाहि- शकुनिः सर्वं दिवसमपि परिपतन् स्वां छायां नातिवर्तते,तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते| वातपित्तश्लेष्मणां पुनः स्थानसंस्थानप्रकृतिविशेषानभिसमीक्ष्य तदात्मकानपि सर्वविकारां स्तानेवोपदिशन्तिबुद्धिमन्तः||||

भवतश्चात्र- स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे| ते पृथक् पित्तकफानिलेभ्य आगन्तवस्त्वेव ततो विशिष्टाः||||

आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः| तत्रानुबन्धं प्रकृतिं सम्यग् ज्ञात्वा ततः कर्म समारभेत||||

तत्र श्लोकौ- विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः| द्विकाश्चाष्टौ, चतुष्काश्च दश, द्वादश पञ्चकाः||||

चत्वारश्चाष्टका वर्गाः, षट्कौ द्वौ, सप्तकास्त्रयः| अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः||||

 

Post a Comment

0 Comments