Advertisement

Responsive Advertisement

Charak Sutarsthan chapter 18 trishothiyam Adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन||||

तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषण प्रहारवधबन्धनवेष्टनव्यधन पीडनादिभिर्वाभल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणांसविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते||||

ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः;बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते||||

निजाः पुनः स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वाछर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वाछर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वासहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदक-पिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसम्पीडनादामगर्भप्रपतनात् प्रजातानां चमिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः||||

अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः [] प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफंजनयति; क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इवभिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यतआयम्यत इवेति वातशोथः (); अयं त्वत्र विशेषः- शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः [] प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफंजनयति; क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इवभिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते सङ्कुच्यतआयम्यत इवेति वातशोथः (); गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति; सकृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेतिश्लेष्मशोथः (); यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं []सप्तविधो भेदः||||प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक एवोत्सेधसामान्यात्||||

भवन्ति चात्र- शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति | पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||||

यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति| स्नेहोष्णमर्दनाभ्यां प्रणश्येत् वातिकः||१०||

यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते| स्विद्यति क्लिद्यते गन्धी पैत्तः स्वयथुः स्मृतः||११||

यः पीतनेत्रवक्त्रत्वक् पूर्वं मध्यात् प्रशूयते| तनुत्वक् चातिसारी पित्तशोथः उच्यते||१२||

शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव | निपीडितो नोन्नमति श्वयथुः कफात्मकः||१३||

यस्य शस्त्रकुशच्छिन्नाच्छोणितं प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति चापि कफसम्भवः||१४||

निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः| सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||

भवन्ति चात्र- शूयन्ते यस्य गात्राणि स्वपन्तीव रुजन्ति | पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्||||

यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति| स्नेहोष्णमर्दनाभ्यां प्रणश्येत् वातिकः||१०||

यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते| स्विद्यति क्लिद्यते गन्धी पैत्तः स्वयथुः स्मृतः||११||

यः पीतनेत्रवक्त्रत्वक् पूर्वं मध्यात् प्रशूयते| तनुत्वक् चातिसारी पित्तशोथः उच्यते||१२||

शीतः सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव | निपीडितो नोन्नमति श्वयथुः कफात्मकः||१३||

यस्य शस्त्रकुशच्छिन्नाच्छोणितं प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति चापि कफसम्भवः||१४||

निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः| सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः||१५||

छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव | सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसङ्ग्रहः||१८||

यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते| आशु सञ्जनयेच्छोथं जायतेऽस्योपजिह्विका||१९||

यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते| आशु सञ्जनयेच्छोफं करोति गलशुण्डिकाम्||२०||

यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते| शनैः सञ्जनयेच्छोफं गलगण्डोऽस्य जायते||२१||

यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः| आशु सञ्जनयेच्छोफं जायतेऽस्य गलग्रहः||२२||

यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति| शोफं सरागं जनयेद्विसर्पस्तस्य जायते||२३||

यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते| शोथं सरागं जनयेत् पिडका तस्य जायते||२४||

यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति| तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते||२५||

यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते| श्वयथुः शङ्खको नाम दारुणस्तस्य जायते||२६||

यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते| ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते||२७||

वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति| शनैः परितुदन् पार्श्वं प्लीहा तस्याभिवर्धते||२८||

यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते| शोफं सशूलं जनयन् गुल्मस्तस्योपजायते||२९||

यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्| वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते||३०||

यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः| शोथं सञ्जनयेत् कुक्षावुदरं तस्य जायते||३१||

यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति| नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते||३२||

रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः| विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसङ्ग्रहे||३३||

वातपित्तकफा यस्य युगपत् कुपितास्त्रयः| जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः||३४||

जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः| तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्||३५||

त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्| कुशलेन त्वनुक्रान्तः क्षिप्रं सम्पद्यते सुखी||३६||

सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः||३७||

साध्याश्चाप्यपरे सन्ति व्याधयो मृदुसम्मताः| यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्||३८||

असाध्याश्चापरे सन्ति व्याधयो याप्यसञ्ज्ञिताः| सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्||३९||

सन्ति चाप्यपरे रोगा येषु कर्म सिध्यति| अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्||४०||

साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः| मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः||४१||

एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः ||४२||

व्यवस्थाकरणं तेषां यथास्थूलेषु सङ्ग्रहः| तथा प्रकृतिसामान्यं विकारेषूपदिश्यते||४३||

विकारनामाकुशलो जिह्रीयात् कदाचन| हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||४४||

एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव जनयत्यामयान् बहून् ||४५||

तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि | समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्||४६||

यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्| ज्ञानपूर्वं यथान्यायं कर्मसु मुह्यति||४७||

नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः| विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः||४८||

उत्साहोच्छ्वासनिः श्वासचेष्टा धातुगतिः समा| समो मोक्षो गतिमतां वायोः कर्माविकारजम्||४९||

दर्शनं पक्तिरूष्मा क्षुत्तृष्णा देहमार्दवम्| प्रभा प्रसादो मेधा पित्तकर्माविकारजम्||५०||

स्नेहो बन्धः स्थिरत्वं गौरवं वृषता बलम्| क्षमा धृतिरलोभश्च कफकर्माविकारजम्||५१||

वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते| कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्||५२||

दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्| दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते||५३||

तत्र श्लोकाः-
सङ्ख्यां निमित्तं रूपाणि शोथानां साध्यतां |
तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्||५४||

विधिभेदं विकाराणां त्रिविधं बोध्यसङ्ग्रहम्|
प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु||५५||

वीतमोहरजोदोषलोभमानमदस्पृहः|
व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः||५६||

Post a Comment

0 Comments