For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः ||२||
विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः |
तस्याः सञ्ज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते ||३||
त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा |
सर्वानुभूतिः सुवहा शब्दैः पर्यायवाचकैः ||४||
कषाया मधुरा रूक्षा विपाके कटुका च सा |
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ||५||
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः |
कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत् ||६||
मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च |
तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् ||७||
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम् |
मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ||८||
तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि |
शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः ||९||
गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत् |
उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः ||१०||
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत् |
तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत् ||११||
स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम् |१२|
अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत् ||१२||
गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः |
प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत् ||१३||
एकैकं सैन्धवादीनां द्वादशानां सनागरम् |
त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत् ||१४||
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली |
सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा ||१५||
मुस्तं हैमवती पथ्या चित्रको रजनी वचा |
स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक् ||१६||
एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम् |१७|
मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत् ||१७||
जीवकर्षभकौ मेदां श्रावणीं कर्काटाह्वयाम् |
मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा ||१८||
काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा |
क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत् ||१९||
वातपित्तहितान्येतान्यन्यानि तु कफानिले |२०|
क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक् ||२०||
सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत् |२१|
लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम् ||२१||
अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत् |
चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ||२२||
सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः |
श्यामात्रिवृत्कषायेण कल्केन च सशर्करम् ||२३||
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः |
सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे ||२४||
क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह |
मात्रया लेहयेदेतदीश्वराणां विरेचनम् ||२५||
कुडवांशान् रसानिक्षुद्राक्षापीलुपरुषकात् |
सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत् ||२६||
तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित् |
एतदुत्सन्नपित्तानामीश्वराणां विरेचनम् ||२७||
शर्करामोदकान् वर्तीर्गुलिकामांसपूपकान् |
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् ||२८||
पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह |
लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम् ||२९||
मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात् |
सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत् ||३०||
सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम् |
पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत् ||३१||
त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया |
लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ||३२||
पानकानि रसान् यूषान्मोदकान् रागषाडवान् |
अनेन विधिना कुर्याद्विरेकार्थं कफाधिके ||३३||
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा |
चूर्णं फलरसक्षौद्रशक्तुभिस्तर्पणं पिबेत् ||३४||
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च |
नरेषु सुकुमारेषु निरपायं विरेचनम् ||३५||
शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकैः |
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः ||३६||
त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः |
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ||३७||
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु |
भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ||३८||
गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम् |
कफवातकृतांश्चान्यान् व्याधीनेतह्यपोहति ||३९||
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् |
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ||४०||
लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक् |
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ||४१||
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा |
पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान् ||४२||
गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा |
मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ||४३||
अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम् |
कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान् ||४४||
ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते |
कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ||४५||
इति कल्याणकगुडः |४६|
व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः |
समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम् ||४६||
त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम् |
चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसम्मिताः ||४७||
भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम् |
मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये ||४८||
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः |
योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने ||४९||
मूत्रजानां च रोगाणां विधिज्ञेनावचारितः |५०|
पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम् ||५०||
दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम् |५१|
त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली ||५१||
समूला पिप्पली मुस्तमजमोदा दुरालभा |
कार्षिकं नागरपलं गुडस्य पलविंशतिम् ||५२||
चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान् |
हिङ्गुसौवर्चलव्योषयवानीबिडजीरकैः ||५३||
वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः |
मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः ||५४||
त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम् |
हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः ||५५||
त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम् |
क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम् ||५६||
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् |
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ||५७||
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम् |
स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत् ||५८||
शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम् |
त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम् ||५९||
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम् |
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत् ||६०||
त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली |
नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम् ||६१||
सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः |
पिबेत् सुखतमं ह्येतद्रूक्षाणामपि शस्यते ||६२||
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् |
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात् ||६३||
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत् |
गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम् ||६४||
त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम् |
कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे ||६५||
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु |६६|
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम् ||६६||
श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह |
जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ||६७||
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा |
साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ||६८||
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत् |
पादशेषं कषायं तं पूतं गुडतुलायुतम् ||६९||
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः |
प्रलिप्ते मधुना मासं जातं तन्मात्रया पिबेत् ||७०||
ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम् |
सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम् ||७१||
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा |
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत् ||७२||
भृष्टान् वा सतुषाञ्छुद्धान् यवांस्तच्चूर्णसंयुतान् |
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ||७३||
तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश |
त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत् ||७४||
भवतश्चात्र-
त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः |
मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि ||७५||
शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः |
हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम् ||७६||
तत्र श्लोकाः-
एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः |
मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश ||७७||
क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च |
पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः ||७८||
चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा |
द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु ||७९||
श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम् |
शतं दशोत्तरं सिद्धं योगानां परमर्षिणा ||८०||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते कल्पस्थाने श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः ||७||
0 Comments