Advertisement

Responsive Advertisement

Charak kalp adhyay chapter 9 tilvak kalp adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातस्तिल्वककल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः|

तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम्||||

चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्ततः|
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्||||

भागं तं दशमूलस्य पुनः क्वाथेन भावयेत्|
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्ध्वं प्रयोजयेत्||||

दधितक्रसुरामण्डमूत्रैर्बदरसीधुना |
रसेनामलकानां वा ततः पाणितलं पिबेत्||||

मेषशृङ्ग्यभयाकृष्णाचित्रकैः सलिले शृते|
मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा||||

भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् सदा||

सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्||||

दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक्|
समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम्||||

आवपेत्तत् परं पक्षान्मद्यपानां विरेचनम्|१०|

कम्पिल्लककषायेण दशकृत्वः सुभाविताम्||१०||

मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत्|११|

चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य एव ||११||

त्रिफलायाः कषायेण ससर्पिर्मधुफाणितः|
लोध्रचूर्णयुतः सिद्धो लेहः श्रेष्ठो विरेचने||१२||

तिल्वकस्य कषायेण कल्केन सशर्करः|
सघृतः साधितो लेहः श्रेष्ठो विरेचने||१३||

अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक्|
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत्||१४||

पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ|
ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम्||१५||

लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम्|
चतुरङ्गुलकल्पेन सर्पिषी द्वे साधयेत्||१६||

तत्र श्लोकौ-

पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण |
एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन ||१७||

लेहास्त्रयो घृतेनापि चत्वारः सम्प्रकीर्तिताः|
योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिताः||१८||

 

Post a Comment

0 Comments