For joining Test series Click Here
Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.
सूत्रस्थानम् - १. दीर्घञ्जीवितीयोऽध्यायः
अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्|
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||
ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः|
जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४||
अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्|
ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५||
विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्|
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ||६||
तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः|
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे||७||
अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः|
आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८||
अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ|
पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९||
विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्|
गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ||१०||
साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः|
बडिशः शरलोमा च काप्यकात्यायनावुभौ||११||
काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ|
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च||१२||
शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः|
वैखानसा वालखिल्यास्तथा चान्ये महर्षयः||१३||
ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च|
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः||१४||
सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्|
धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्||१५||
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च|
प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६||
कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः|
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा||१७||
स वक्ष्यति शमोपायं यथावदमरप्रभुः|
कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्||१८||
अहमर्थे नियुज्येयमत्रेति प्रथमं वचः|
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः||१९||
स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् |
ददर्श बलहन्तारं दीप्यमानमिवानलम्||२०||
सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्|
प्रोवाच विनयाद्धीमानृषीणां वाक्यमुत्तमम्||२१||
व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः|
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो||२२||
तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः|
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये||२३||
हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्|
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||
सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः|
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः||२५||
तेनायुरमितं लेभे भरद्वाजः सुखान्वितम्|
ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन्||२६||
ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्|
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः||२७||
महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा|
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च||२८||
समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः|
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ||२९||
अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः|
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया||३०||
अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः|
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||
बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः|
तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्||३२||
अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च|
श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः||३३||
श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्|
यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे||३४||
सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः|
साधु [१] भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५||
तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः|
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६||
अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्|
नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७||
शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः|
निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८||
अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः|
बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९||
तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः|
भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||
हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्|
मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||४१||
शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्|
नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते||४२||
तस्यायुषः पुण्यतमो वेदो वेदविदां मतः|
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम् ||४३||
सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम्|
ह्रासहेतुर्विशेषश्च,
प्रवृत्तिरुभयस्य तु||४४||
सामान्यमेकत्वकरं,
विशेषस्तु पृथक्त्वकृत्|
तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः||४५||
सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्|
लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||४६||
स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्|
वेदस्यास्य,
तदर्थं हि वेदोऽयं सम्प्रकाशितः||४७||
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः|
सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्||४८||
सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः|
गुणाः प्रोक्ताः . प्रयत्नादि कर्म चेष्टितमुच्यते||४९||
समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः|
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः||५०||
यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्|
तद्द्रव्यं
समवायी तु निश्चेष्टः कारणं गुणः||५१||
संयोगे च विभागे च कारणं द्रव्यमाश्रितम्|
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते||५२||
इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते|
धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्||५३||
कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च|
द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः||५४||
शरीरं सत्त्वसञ्ज्ञं च व्याधीनामाश्रयो मतः|
तथा सुखानां, योगस्तु सुखानां कारणं समः||५५||
निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः|
चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः||५६||
वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः|
मानसः पुनरुद्दिष्टो रजश्च तम एव च||५७||
प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः|
मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||५८||
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः|
विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९||
सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु|
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०||
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः|
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||
विपरीतगुणैर्देशमात्राकालोपपादितैः|
भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२||
साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|
भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||
रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|
निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||६४||
स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च|
कषायश्चेति षट्कोऽयं रसानां सङ्ग्रहः स्मृतः||६५||
स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः|
जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः||६६||
(कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्|
कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ||१||)
किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्|
स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते||६७||
तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम् |६८|
मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्||६८||
विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः|
जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः||६९||
सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा|
मनःशिलाले मणयो लवणं गैरिकाञ्जने||७०||
भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम्|
वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः||७१||
फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि|
ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः||७२||
मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः|
क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः||७३||
पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः|७४|
मूलिन्यः षोडशैकोना फलिन्यो विंशतिः स्मृताः||७४||
महास्नेहाश्च चत्वारः पञ्चैव लवणानि च|
अष्टौ मूत्राणि सङ्ख्यातान्यष्टावेव पयांसि च||७५||
शोधनार्थाश्च षड् वृक्षाः पुनर्वसुनिदर्शिताः|
य एतान् वेत्ति संयोक्तुं विकारेषु स वेदवित्||७६||
हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा|
सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि||७७||
ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका|
अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी||७८||
शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि|
श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने||७९||
एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने|
इत्युक्ता नामकर्मभ्यां मूलिन्यः...|८०|
...फलिनीः शृणु||८०||
शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च|
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्|
आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्||८१||
प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया|
अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च शारदम्||८२||
कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च|
धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्||८३||
मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी|
एतानि वमने चैव योज्यान्यास्थापनेषु च||८४||
नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते|
दश यान्यवशिष्टानि तान्युक्तानि विरेचने||८५||
नामकर्मभिरुक्तानि फलान्येकोनविंशतिः|८६|
सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः ||८६||
पानाभ्यञ्जनबस्त्यर्थं नस्यार्थं चैव योगतः|
स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः||८७||
स्नेहा ह्येते च विहिता वातपित्तकफापहाः|८८|
सौवर्चलं सैन्धवं च विडमौद्भिदमेव च||८८||
सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च|
स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च||८९||
आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा|
अधोभागोर्ध्वभागेषु निरूहेष्वनुवासने||९०||
अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने|
शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च||९१||
अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे|
उक्तानि लवणा(नि)...|९२|
... न्यू(ऊ)र्ध्वं मूत्राण्यष्टौ निबोध मे||९२||
मुख्यानि यानि दिष्टानि सर्वाण्यात्रेयशासने|
अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत् ||९३||
हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च|
उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम्||९४||
मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च|
युक्तमास्थापने मूत्रं युक्तं चापि विरेचने||९५||
स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च|
उदरेष्वथ चार्शःसु गुल्मिकुष्ठिकिलासिषु [४] ||९६||
तद्युक्तमुपनाहेषु परिषेके तथैव च|
दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते||९७||
पाण्डुरोगोपसृष्टानामुत्तमं शर्म चोच्यते|
दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते||९७||
पाण्डुरोगोपसृष्टानामुत्तमं शर्म चोच्यते|
अविमूत्रं सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च|
आजं कषायमधुरं पथ्यं दोषान्निहन्ति च||१००||
गव्यं समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत्|
कण्डूं च शमयेत् पीतं सम्यग्दोषोदरे हितम्||१०१||
अर्शःशोफोदरघ्नं तु सक्षारं माहिषं सरम्|
हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्||१०२||
प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्|
सतिक्तं श्वासकासघ्नमर्शोघ्नं चौष्ट्रमुच्यते||१०३||
वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्|
खरमूत्रमपस्मारोन्मादग्रहविनाशनम्||१०४||
इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः|१०५|
अतः क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये||१०५||
अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत्|
उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा||१०६||
प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्|
प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्||१०७||
जीवनीयं श्रमहरं श्वासकासनिबर्हणम्|
हन्ति शोणितपित्तं च सन्धानं विहतस्य च||१०८||
सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा|
तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च||१०९||
पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे|
अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः ||११०||
योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु च|
पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्||१११||
नस्यालेपावगाहेषु वमनास्थापनेषु च|
विरेचने स्नेहने च पयः सर्वत्र युज्यते||११२||
यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक्|
अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः||११३||
अथापरे त्रयो वृक्षाः पृथग्ये फलमूलिभिः|
स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक् पृथक्||११४||
वमनेऽश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने|
क्षीरमर्कस्य विज्ञेयं वमने सविरेचने||११५||
इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः|
पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः||११६||
विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा|
कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते||११७||
दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च|
षड्वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः||११८||
इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च|
मूत्रं क्षीराणि वृक्षाश्च षड् ये दिष्टपयस्त्वचः||११९||
ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने|
अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः||१२०||
न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः|
ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति||१२१||
योगवित्त्वप्यरूपज्ञस्तासां तत्त्वविदुच्यते|
किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्||१२२||
योगमासां तु यो विद्याद्देशकालोपपादितम्|
पुरुषं पुरुषं वीक्ष्य स ज्ञेयो भिषगुत्तमः||१२३||
यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा|
तथौषधमविज्ञातं विज्ञातममृतं यथा||१२४||
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः|
विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते||१२५||
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्|
भेषजं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम्||१२६||
तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्|
धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा||१२७||
कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः|
सशेषमातुरं कुर्यान्नत्वज्ञमतमौषधम्||१२८||
दुःखिताय शयानाय श्रद्दधानाय रोगिणे|
यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति||१२९||
त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः|
नरो नरकपाती स्यात्तस्य सम्भाषणादपि||१३०||
वरमाशीविषविषं क्वथितं ताम्रमेव वा|
पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः||१३१||
नतु श्रुतवतां वेशं बिभ्रता शरणागतात्|
गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात्||१३२||
भिषग्बुभूषुर्मतिमानतः स्वगुणसम्पदि|
परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम्||१३३||
तदेव युक्तं भैषज्यं यदारोग्याय कल्पते|
स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्||१३४||
सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्|
सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम्||१३५||
तत्र श्लोकाः-
आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्|
सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः||१३६||
सम्पूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्|
हेतवश्चैव दोषाश्च भेषजं सङ्ग्रहेण च||१३७||
रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसङ्ग्रहः|
मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च||१३८||
मूत्रं क्षीराणि वृक्षाश्च षड् ये क्षीरत्वगाश्रयाः|
कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः||१३९||
वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः|
सर्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा||१४०||
0 Comments