For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः कृतवेधनकल्पं व्याख्यास्यामः||१||
इति ह स्माह à¤à¤—वानात्रेयः||२||
कृतवेधननामानि कल्पं चास्य निबोधत|
क्ष्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च||३||
अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च|
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४||
क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्|
सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम्||५||
कषायैर्मधुकादीनां नवà¤िः फलवत् पिबेत्|
क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत्||६||
कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम् |
पृथक् चारग्वधादीनां त्रयोदशà¤िरासुतम्||à¥||
शाल्मलीमूलचूर्णानां पिच्छाà¤िर्दशà¤िस्तथा
वर्तिक्रियाः षट् फलवत्, फलादीनां घृतं तथा||८||
कोशातकानि पञ्चाशत् कोविदाररसे पचेत्|
तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत्||९||
क्ष्वेडस्य तत्र à¤ागः स्याच्छेषाण्यर्धांशिकानि तु|
कषायैः कोविदाराद्यैरेवं तत् कल्पयेत् पृथक्||१०||
कषायेषु फलादीनामानूपं पिशितं पृथक्|
कोशातक्या समं पक्त्वा रसं सलवणं पिबेत्||११||
फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्|१२|
क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च||१२||
तत्र श्लोकौ-
क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा|
दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुà¤ाः||१३||
लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः|
कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः||१४||
0 Comments