Advertisement

Responsive Advertisement

Charak kalp chapter 5 vatsak kalpam adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो वत्सककल्पं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा|
कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम्||||

वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका|
बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः||||

बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्|
श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभिः ||||

रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः|
हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते||||

काले फलानि सङ्गृह्या तयोः शुष्काणि निक्षिपेत् |
तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत् ||||

मधुकस्य कषायेण कोविदारादिभिस्तथा|
निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम्||||

पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्||

अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत्||||

जीवकस्य कषायेण ततः पाणितलं पिबेत्|
फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा||१०||

सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना
कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक्||११||

तत्र श्लोकः-

कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः|
एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः ||१२||

 

Post a Comment

0 Comments