For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः सप्तलाशङ्खिनीकल्पं व्याख्यास्यामः||१||
इति ह स्माह à¤à¤—वानात्रेयः||२||
सप्तला चर्मसाह्वा च बहुफेनरसा च सा|
शङ्खिनी तिक्तला चैव यवतिक्ताऽक्षि(क्ष)पीडकः||३||
ते गुल्मगरहृद्रोगकुष्ठशोफोदरादिषु|
विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु||४||
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
सप्तलायाश्च मूलानि गृहीत्वा à¤ाजने क्षिपेत्||५||
अक्षमात्रं तयोः पिण्डं प्रसन्नालवणायुतम्|
हृद्रोगे कफवातोत्थे गुल्मे चैव प्रयोजयेत्||६||
प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमैः|
द्राक्षापनसखर्जूरबदराम्लपरूषकैः||à¥||
मैरेये दधिमण्डेऽम्ले सौवीरकतुषोदके|
सीधौ चाप्येष कल्पः स्यात् सुखं शीघ्रविरेचनः||
तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्|
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धà¤ागिके||९||
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च|
शङ्खिनीचूर्णà¤ागौ द्वौ तिलचूर्णस्य चापरः||१०||
हरीतकीकषायेण तैलं तत्पीडितं पिबेत्|
अतसीसर्षपैरण्डकरञ्जष्वेष संविधिः||११||
शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम्|
कल्कà¤ागे तयोरेव त्रिवृच्छ्यामार्धसंयुते||१२||
क्षीरेणालोड्य सम्पक्वं पिबेत्तच्च विरेचनम्|
दन्तीद्रवन्त्योः कल्पोऽयमजशृङ्ग्यजगन्धयोः||१३||
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः|
मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च||१४||
द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुनः|
शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम् ||१५||
त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च लोध्रवत् |
सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च||१६||
दन्तीद्रवन्त्योः कल्पेन सौवीरकतुषोदके|
अजगन्धाजशृङ्ग्योश्च तद्वत् स्यातां विरेचने||१à¥||
तत्र श्लोकौ-
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि|
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा||१८||
सप्तलाशङ्खिनीà¤्यां ते त्रिंशदुक्ता नवाधिकाः|
योगाः सिद्धाः समस्ताà¤्यामेकशोऽपि च ते हिताः||१९||
0 Comments