For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः सुधाकल्पं व्याख्यास्यामः||१||
इति ह स्माह à¤à¤—वानात्रेयः||२||
विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता|
सङ्घातं हि à¤िनत्त्याशु दोषाणां कष्टविà¤्रमा||३||
तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन|
न दोषनिचये चाल्पे सति मार्गपरिक्रमे ||४||
पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते|
श्वयथौ मधुमेहे च दोषविà¤्रान्तचेतसि||५||
रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम्|
प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः||६||
सद्यो हरति दोषाणां महान्तमपि सञ्चयम्|à¥|
द्विविधः स मतोऽल्पैश्च बहुà¤िश्चैव कण्टकैः||à¥||
सुतीक्ष्णैः कण्टकैरल्पैः प्रवरो बहुकण्टकः|
स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रकः||८||
तौ विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् à¤िषक्|
द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः||९||
बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकशः|
कषायेण समांशं तं कृत्वाऽङ्गारेषु शोषयेत्||१०||
ततः कोलसमां मात्रां पिबेत् सौवीरकेण वा|
तुषोदकेन कोलानां रसेनामलकस्य वा||११||
सुरया दधिमण्डेन मातुलुङ्गरसेन वा|१२|
सातलां काञ्चनक्षीरीं श्यामादीनि कटुत्रिकम् ||१२||
यथोपपत्ति सप्ताहं सुधाक्षीरेण à¤ावयेत्|
कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा||१३||
त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा|
स्नुक्क्षीरà¤ावितं सम्यग्विदध्याद्गुडपानकम्||१४||
त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम्|
गोमूत्रे रजनीं कृत्वा शोषयेदातपे ततः||१५||
सप्ताहं à¤ावयित्वैवं स्नुक्क्षीरेणापरं पुनः|
सप्ताहं à¤ावयेच्छुष्कं ततस्तेनापि à¤ावितम्||१६||
गन्धमाल्यं तदाघ्राय प्रावृत्य पटमेव च|
सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः||१à¥||
श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः|
लेहं पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम्||१८||
पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतैः|
à¤ाविताञ्छुष्कमत्स्यान् वा मांसं वा à¤à¤•्षयेन्नरः||१९||
क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत्|
सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत्||२०||
तत्र श्लोकौ-
सौवीरकादिà¤िः सप्त सर्पिषा च रसेन च|
पानकं घ्रेयलेहौ च योगा यूषादिà¤िस्त्रयः||२१||
द्वौ शुष्कमत्स्यमांसाà¤्यां सुरैका द्वे च सर्पिषी|
महावृक्षस्य योगास्ते विंशतिः समुदाहृताः||२२||
0 Comments