For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः|
द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया||३||
(तथा मूषिकपर्णी चाप्युपचित्रा च शम्बरीप्रत्यक्श्रेणी सुतश्रेणी दन्ती र(च)ण्डा च कीर्तिता )
तयोर्मूलानि सङ्गृह्य स्थिराणि बहलानि च|
हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान्||४||
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे|
शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकाशिताम्||५||
तीक्ष्णोष्णान्याशुकारीणि विकाशीनि गुरूणि च|
विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च||६||
दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः|
प्रियालकोलबदरपीलुशीधुभिरेव च||७||
पिबेद्गुल्मोदरी दोषैरभिखिन्नश्च यो नरः|
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी||८||
तयोः कल्के कषाये च दशमूलरसायुते|
कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम्||९||
तैलं मेहे च गुल्मे च सोदावर्ते कफानिले|
चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु||१०||
रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः|
लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत् ||११||
वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया|
दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे||१२||
त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च|
तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत्||१३||
कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः|
तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते||१४||
रसे च दशमूलस्य तथा बैभीतके रसे|
हरीतकीरसे चैव लेहानेवं पचेत् पृथक् ||१५||
तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्|
असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम्||१६||
पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा|
स्वेदयित्वा ततः खादेत् सुखं तेन विरिच्यते||१७||
मूलं दन्तीद्रवन्त्योश्च सह मुद्गैर्विपाचयेत्|
लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने||१८||
तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्|
माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते||१९||
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च|
एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा||२०||
मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्|
तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत्||२१||
दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितान्|
गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः||२२||
दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्|
नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम्||२३||
सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः|
पिबेत्घृतेन जीर्णे तु विरिक्तश्चापि तर्पणम्||२४||
सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्|
चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम्||२५||
दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च|
गण्डमालासु वाते च पाण्डुरोगे च शस्यते||२६||
पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः|
त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत्||२७||
विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः|
उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च||२८||
एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः|
ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः||२९||
दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधितः |
विरेचनं पित्तकासे पाण्डुरोगे च शस्यते||३०||
दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्|
विरेचनं मुख्यतमं कामलाहरमुत्तमम्||३१||
श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः|
लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापहः||३२||
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः|
गौडः कार्योऽऽजशृङ्ग्या वा स वै सुखविरेचनः||३३||
तच्चूर्णक्वाथमाषाम्बुकिण्वतोयसमुद्भवा|
मदिरा कफगुल्माल्पवह्निपार्श्वकटिग्रहे||३४||
अजगन्धाकषायेण सौवीरकतुषोदके|
सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ||३५||
तत्र श्लोकाः-
(दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे|
स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च||३६||
इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः|
यवाग्वादौ त्रयश्चैव उक्त उत्कारिकाविधौ||३७||
एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके|
चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे||३८||
एकः सौवीरकेऽथैको योगः स्यात्तु तुषोदके|
एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः )||३९||
दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः|
नानाविधानां योगानां भक्तिदोषामयान्प्रति||४०||
त्रिशतं पञ्चपञ्चाशद्योगानां वमने स्मृतम्|
द्वे शते नवकाः पञ्च योगानां तु विरेचने||४१||
ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्|
प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च||४२||
भवन्ति चात्र-
यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते|
तत्सञ्ज्ञकः स योगो वै भवतीति विनिश्चयः ||४३||
फलादीनां प्रधानानां गुणभूताः सुरादयः|
ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे||४४||
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्|
अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ||४५||
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्|
अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम्||४६||
भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः|
सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत्||४७||
स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्|४८|
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्||४८||
कुर्यात् संयोगविश्लेषकालसंस्कारयुक्तिभिः|४९|
प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्||४९||
स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्|
बहुद्रव्यविकल्पत्वाद्योगसङ्ख्या न विद्यते||५०||
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्|
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते||५१||
नातिग्लानिकरं पायौ हृदये न च रुक्करम्|
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरस्यति||५२||
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्|
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम्||५३||
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्|
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम्||५४||
किञ्चिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा|
स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम्||५५||
मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्|
अतुल्यवीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत्||५६||
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्|
मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता||५७||
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः|
तीक्ष्णादीनि बलावेक्षी भेषजान्येषु योजयेत्||५८||
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः|
भेषजं वमनार्थीयं प्राय आपित्तदर्शनात्||५९||
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च|
पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत्||६०||
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुधः|
भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम्||६१||
अपक्वं वमनं दोषं पच्यमानं विरेचनम्|
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्||६२||
पीते प्रस्रंसने दोषान्न निर्हत्य जरां गते|
वमिते चौषधे धीरः पाययेदौषधं पुनः||६३||
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्|
दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः||६४||
दुर्बलो बहुदोषश्च दोषपाकेन यो नरः|
विरिच्यते शनैर्भोज्यैर्भूयस्तमनुसारयेत् ||६५||
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः |
भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत्||६६||
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्|
अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु||६७||
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्|
न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम्||६८||
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः|
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः||६९||
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्|
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्||७०||
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्|
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति||७१||
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते|
सोद्गारं साङ्गशूलं च स्वेदं तत्रावचारयेत्||७२||
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्|
अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक्||७३||
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्|
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते||७४||
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा|
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्||७५||
तृण्मोहभ्रममूर्च्छायाः स्युश्चेज्जीर्यति भेषजे|
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते||७६||
लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते|
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्||७७||
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्|
तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति||७८||
रूक्ष-बह्वनिल-क्रूरकोष्ठ-व्यायामशालिनाम् |
दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति||७९||
तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम्|
बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम्||८०||
रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः|
तेषां दोषाः क्षयं यान्ति कर्मवातातपाग्निभिः ||८१||
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते|
स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत् ||८२||
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्|
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||८३||
एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्|
विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति||८४||
विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम्|
कालेष्ववश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत्||८५||
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु|
तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्योऽभ्यधिकोनभावः||८६||
षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः|
अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम्||८७||
धान्यमाषो भवेदेको धान्यमाषद्वयं यवः|
अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः||८८||
हेमश्च धान्यकश्चोक्तो भवेच्छाणस्तु ते त्रयः|
शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च||८९||
विद्याद्द्वौ द्रङ्क्षणौ कर्षं सुवर्णं चाक्षमेव च|
बिडालपदकं चैव पिचुं पाणितलं तथा||९०||
तिन्दुकं च विजानीयात् कवलग्रहमेव च|
द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा||९१||
द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका|
बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः||९२||
अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका|
पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा||९३||
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्|
पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा||९४||
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्|
स एव कलशः ख्यातो घटमुन्मानमेव च||९५||
द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च|
गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च||९६||
द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्|
तुलां शतपलं विद्यात् परिमाणविशारदः||९७||
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्|
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च||९८||
यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्|
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्||९९||
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्|
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः||१००||
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम् |
तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम्||१०१||
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा|
तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः||१०२||
संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति|
शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा||१०३||
खरोऽभ्यङ्गे स्मृतः पाको, मृदुर्नस्तःक्रियासु च|
मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत्||१०४||
मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा|
कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः||१०५||
तत्र श्लोकौ-
कल्पार्थः शोधनं सञ्ज्ञा पृथग्घेतुः प्रवर्तने|
देशादीनां फलादीनां गुणा योगशतानि षट्||१०६||
विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्|
विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः||१०७||
0 Comments