For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातोऽवाक्शिरसीयमिन्द्रियं
व्याख्यास्यामः||१||
इति ह स्माह à¤à¤—वानात्रेयः||२||
अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा à¤à¤µेत्|
जन्तो
रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम्||३||
जटीà¤ूतानि
पक्ष्माणि दृष्टिश्चापि निगृह्यते |
यस्य
जन्तोर्न तं धीरो à¤ेषजेनोपपादयेत्||४||
यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः|
चक्षुषी
चोपदिह्येते यथा प्रेतस्तथैव सः||५||
à¤्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान्
बहून्|
अपूर्वानकृतान्
व्यक्तान् दृष्ट्वा मरणमादिशेत्||६||
त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः|
अरोगाणां
पुनस्त्वेतत् षड्रात्रं परमुच्यते ||à¥||
आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते|
अनातुरो वा
रोगी वा षड्रात्रं नातिवर्तते||८||
यस्य केशा निरà¤्यङ्गा दृश्यन्तेऽà¤्यक्तसन्निà¤ाः|
उपरुद्धायुषं
ज्ञात्वा तं धीरः परिवर्जयेत्||९||
ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति|
अशूनः
शूनसङ्काशः प्रत्याख्येयः स जानता||१०||
अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता|
जिह्मा वा
परिशुष्का वा नासिका न स जीवति||११||
मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ|
विकृत्या
यस्य वा नीलौ न स रोगाद्विमुच्यते||१२||
अस्थिश्वेता
द्विजा यस्य पुष्पिताः पङ्कसंवृताः|
विकृत्या न स
रोगं तं विहायारोग्यमश्नुते||१३||
स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता à¤ृशम्|
श्यावा
शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी||१४||
दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति|
उपरुद्धायुषं
ज्ञात्वा तं धीरः परिवर्जयेत्||१५||
हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम्|
à¤à¤µà¤¤्यायुःक्षये
क्रूरमथवाऽपि à¤à¤µेन्मृदु||१६||
घट्टयञ्जानुना जानु पादावुद्यम्य पातयन्|
योऽपास्यति
मुहुर्वक्रमातुरो न स जीवति||१à¥||
दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान्|
काष्ठेन
à¤ूमिं विलिखन्न रोगात् परिमुच्यते||१८||
दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन्|
विजानाति न
चेद्दुःखं न स रोगाद्विमुच्यते||१९||
मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति
यः|
उच्चैश्छिद्राणि
विमृशन्नातुरो न स जीवति||२०||
यैर्विन्दति पुरा à¤ावैः समेतैः परमां रतिम्|
तैरेवारममाणस्य
ग्लास्नोर्मरणमादिशेत्||२१||
न बिà¤à¤°्ति शिरो ग्रीवा न पृष्ठं à¤ारमात्मनः|
न हनू
पिण्डमास्यस्थमातुरस्य मुमूर्षतः||२२||
सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः|
विश्लेषणं च
सन्धीनां मुमूर्षोरुपजायते||२३||
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते à¤ृशम्|
लेपज्वरोपतप्तस्य
दुर्लà¤ं तस्य जीवितम्||२४||
नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च|
आयुष्यन्तं
गते जन्तोर्बलं च परिहीयते||२५||
शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा
प्रपाणिकौ|
ललाटस्रुप्रतस्वेदो
मुमूर्षुश्च्युतबन्धनः ||२६||
तत्र श्लोकः-
इमानि
लिङ्गानि नरेषु बुद्धिमान् विà¤ावयेतावहितो मुमूर्षुषु|
क्षणेन
à¤ूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन||२à¥||
0 Comments