Advertisement

Responsive Advertisement

Charak Indriya Chapter 7








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः पन्नरूपीयमिन्द्रियं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

दृष्ट्यां यस्य विजानीयात् पन्नरूपां कुमारिकाम्|
प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम्||||

ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि|
अङ्गेषु विकृता यस्य च्छाया प्रेतस्तथैव सः||||

छिन्ना भिन्नाऽऽकुला च्छाया हीना वाऽप्यधिकाऽपि वा|
नष्टा तन्वी द्विधा च्छिन्ना विकृता विशिरा च या||||

एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः|
सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्यनिमित्तजाः||||

संस्थानेन प्रमाणेन वर्णेन प्रभया तथा|
छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः||||

संस्थानमाकृतिर्ज्ञेया सुषमा विषमा च सा|
मध्यमल्पं महच्चोक्तं प्रमाणं त्रिविधं नृणाम्||||

प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु|
छाया या सा प्रतिच्छाया च्छाया वर्णप्रभाश्रया||||

खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः|
नाभसी निर्मला नीला सस्नेहा सप्रभेव च||१०||

रूक्षा श्यावारुणा या तु वायवी सा हतप्रभा|
विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||११||

शुद्धवैदूर्यविमला सुस्निग्धा चाम्भसी मता|
स्थिरा स्निग्धा घना श्लक्ष्णा श्यामा श्वेता च पार्थिवी||१२||

वायवी गर्हिता त्वासां चतस्रः स्युः सुखोदयाः |
वायवी तु विनाशाय क्लेशाय महतेऽपि वा||१३||

स्यात्तैजसी प्रभा सर्वा सा तु सप्तविधा स्मृता|
रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता||१४||

तासां याः स्युर्विकासिन्यः स्निग्धाश्च विपुलाश्च याः|
ताः शुभा रूक्षमलिनाः सङ्क्षिप्ताश्चाशुभोदयाः ||१५||

वर्णमाक्रामति च्छाया भास्तु वर्णप्रकाशिनी|
आसन्ना लक्ष्यते च्छाया भाः प्रकृष्टा प्रकाशते||१६||

नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु|
नृणां शुभाशुभोत्पत्तिं काले छायाप्रभाश्रयाः||१७||

कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता|
सन्त्रासश्चोष्णगात्रत्वं यस्य तं परिवर्जयेत्||१८||

उत्थाप्यमानः शयनात् प्रमोहं याति यो नरः|
मुहुर्मुहुर्न सप्ताहं स जीवति विकत्थनः ||१९||

संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगाः|
व्यापन्ना ग्रहणी प्रायः सोऽर्धमासं न जीवति||२०||

उपरुद्धस्य रोगेण कर्शितस्याल्पमश्नतः|
बहु मूत्रपुरीषं स्याद्यस्य तं परिवर्जयेत्||२१||

दुर्बलो बहु भुङ्क्ते यः प्राग्भुक्तादन्नमातुरः |
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः||२२||

इष्टं च गुणसम्पन्नमन्नमश्नाति यो नरः|
शश्वच्च बलवर्णाभ्यां हीयते न स जीवति||२३||

प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२४||

ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः|
मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः||२५||

ऊर्ध्वं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते|
हीनवर्णबलाहारो यो नरो न स जीवति||२६||

ऊर्ध्वाग्रे नयने यस्य मन्ये चारतकम्पने|
बलहीनः पिपासार्तः शुष्कास्यो न स जीवति||२७||

यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ|
शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति||२८||

व्यावृत्तमूर्धजिह्वास्यो भ्रुवौ यस्य च विच्युते|
कण्टकैश्चाचिता जिह्वा यथा प्रेतस्तथैव सः||२९||

शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम्|
अतश्चैव विपर्यासो विकृत्या प्रेतलक्षणम्||३०||

निचितं यस्य मांसं स्यात्त्वगस्थिष्वेव दृश्यते|
क्षीणस्यानश्नतस्तस्य मासमायुः परं भवेत्||३१||

तत्र श्लोकः-
इदं लिङ्गमरिष्टाख्यमनेकमभिजज्ञिवान्|
आयुर्वेदविदित्याख्यां लभते कुशलो जनः||३२||

Post a Comment

0 Comments