Advertisement

Responsive Advertisement

Charak Indriya Chapter 9








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

यस्यश्यावनिमित्तेन्द्रियोपक्रमः
अथातो यस्यश्यावनिमित्तीयमिन्द्रियं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

यस्य श्यावे परिध्वस्ते हरिते चापि दर्शने|
आपन्नो व्याधिरन्ताय ज्ञेयस्तस्य विजानता||३||

निःसञ्ज्ञः परिशुष्कास्यः समृद्धो व्याधिभिश्च यः|
उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||४||

हरिताश्च सिरा यस्य लोमकूपाश्च संवृताः|
सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते||५||

शरीरान्ताश्च शोभन्ते शरीरं चोपशुष्यति|
बलं च हीयते यस्य राजयक्ष्मा हिनस्ति तम्||६||

अंसाभितापो हिक्का च छर्दनं शोणितस्य च|
आनाहः पार्श्वशूलं च भवत्यन्ताय शोषिणः||७||

वातव्याधिरपस्मारी कुष्ठी शोफी तथोदरी|
गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः||८||

अचिकित्स्या भवन्त्येते बलमांसक्षये सति|
अन्येष्वपि विकारेषु तान् भिषक् परिवर्जयेत्||९||

विरेचनहृतानाहो यस्तृष्णानुगतो नरः|
विरिक्तः पुनराध्माति यथा प्रेतस्तथैव सः||१०||

 à¤ªेयं पातुं न शक्नोति कण्ठस्य च मुखस्य च|
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ||११||

स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः|
रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्||१२||

ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्|
शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्||१३||

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः|
श्रोतारं चाप्यशब्दस्य दूरतः परिवर्जयेत्||१४||

यं नरं सहसा रोगो दुर्बलं परिमुञ्चति|
संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते||१५||

अथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः|
रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम्||१६||

मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः|
रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम्||१७||

निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति|
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः||१८||

निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक्|
तच्च सीदत्यपः प्राप्य न स जीवितुमर्हति ||१९||

पित्तमूष्मानुगं यस्य शङ्खौ प्राप्य विमूर्च्छति |
स रोगः शङ्खको नाम्ना त्रिरात्राद्धन्ति जीवितम्||२०||

सफेनं रुधिरं यस्य मुहुरास्यात् प्रसिच्यते|
शूलैश्च तुद्यते कुक्षिः प्रत्याख्येयस्तथाविधः||२१||

बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः|
यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान्न स जीवति||२२||

तत्र श्लोकौ-
विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते|
भवन्त्येतानि सम्पश्येदन्यान्येवंविधानि च||२३||

तानि सर्वाणि लक्ष्यन्ते न तु सर्वाणि मानवम्|
विशन्ति विनशिष्यन्तं तस्माद्बोध्यानि सर्वतः||२४||

 

Post a Comment

0 Comments