Advertisement

Responsive Advertisement

Charak viman chapter 7 vyadhiroopiyam vimanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो व्याधितरूपीयं विमानं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

इह खलु द्वौ पुरुषौ व्याधितरूपौ भवतः- गुरुव्याधितः, लघुव्याधितश्च| तत्र- गुरुव्याधित एकः सत्त्वबलशरीरसम्पदुपेतत्वाल्लघुव्याधित इव दृश्यते, लघुव्याधितोऽपरः सत्त्वादीनामधमत्वाद्गुरुव्याधित इव दृश्यते| तयोरकुशलाः केवलं चक्षुषैव रूपंदृष्ट्वाऽध्यवस्यन्तो व्याधिगुरुलाघवे विप्रतिपद्यन्ते||||

नहि ज्ञानावयवेन कृत्स्ने ज्ञेये विज्ञानमुत्पद्यते| विप्रतिपन्नास्तु खलु रोगज्ञाने उपक्रमयुक्तिज्ञाने चापि विप्रतिपद्यन्ते | ते यदा गुरुव्याधितं लघुव्याधितरूपमासादयन्ति, तदा तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदु संशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति| यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति, तदा तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिर्हृत्य शरीरमस्य क्षिण्वन्ति| एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञेये ज्ञानमभिमन्यमानाः परिस्खलन्ति| विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते, यथेष्टमर्थमभिनिर्वर्तयन्ति चेति ||||

भवन्ति चात्र- सत्त्वादीनां विकल्पेन व्याधिरूपमथातुरे| दृष्ट्वा विप्रतिपद्यन्ते बाला व्याधिबलाबले||||

ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः | व्याधितानां विनाशाय क्लेशाय महतेऽपिवा||||

प्राज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा | न स्खलन्ति प्रयोगेषु भेषजानां कदाचन |||

इति व्याधितरूपाधिकारे व्याधितरूपसङ्ख्याग्रसम्भवं व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं सम्प्रतिपत्तिकारणं चानपवादं निशम्य, भगवन्तमात्रेयमग्निवेशोऽतः परंसर्वक्रिमीणां पुरीष संश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान्पपच्छोपसङ्गृह्य पादौ ||||

अथास्मै प्रोवाच भगवानात्रेयः- इह खल्वग्निवेश! विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजेभ्यः; ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति; तद्यथा- पुरीषजाः, श्लेष्मजाः, शोणितजा, मलजाश्चेति ||||

तत्र मलो बाह्यश्चाभ्यन्तरश्च | तत्र बाह्यमलजातान्मलजान्सञ्चक्ष्महे | तेषांसमुत्थानं- मृजावर्जनं ; स्थानं- केशश्मश्रुलोमपक्ष्मवासांसि ; संस्थानम्- अणवस्तिलाकृतयो बहुपादाश्च ; वर्णः- कृष्णः, शुक्लश्च; नामानि- यूकाः, पिपीलिकाश्च; प्रभावः- कण्डूजननं, कोठपिडकाभिनिर्वर्तनं च; चिकित्सितं तु खल्वेषामपकर्षणं, मलोपघातः, मलकराणां चभावानामनुपसेवनमिति ||१०||

शोणितजानां तु खलु कुष्ठैः समानं समुत्थानं ; स्थानं- रक्तवाहिन्यो धमन्यः; संस्थानम्- अणवो वृत्ताश्चापादाश्च, सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः; वर्णः- ताम्रः; नामानि- केशादा, लोमादा, लोमद्वीपाः, सौरसा, औडुम्बरा, जन्तुमातरश्चेति; प्रभावः- केशश्मश्रुनखलोमपक्ष्मापध्वंसः, व्रणगतानां च हर्षकण्डूतोदसंसर्पणानि, अतिवृद्धानां च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति; चिकित्सितमप्येषां कुष्ठैः समानं, तदुत्तरकालमुपदेक्ष्यामः ||११||

श्लेष्मजाः क्षीरगुडतिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्णपूतिक्लिन्नसङ्कीर्णवि -रुद्धा सात्म्यभोजनसमुत्थानाः; तेषामामाशयः स्थानं, ते प्रवर्धमानास्तूर्ध्वमधो वा विसर्पन्त्युभयतोवा; संस्थानवर्णविशेषास्तु- श्वेताः पृथुब्रध्नसंस्थानाः केचित्, केचिद्वृत्तपरिणाहा गण्डूपदाकृतयः श्वेतास्ताम्रावभासाश्च, केचिदणवो दीर्घास्तन्त्वाकृतयः श्वेताः; तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानि- अन्त्रादाः, उदरादाः, हृदयचराः , चुरवः, दर्भपुष्पाः, सौगन्धिकाः, महागुदाश्चेति; प्रभावो- हृल्लासः, आस्यसंस्रवणम्, अरोचकाविपाकौ, ज्वरः, मूर्च्छा, जृम्भा, क्षवथुः, आनाहः, अङ्गमर्दः, छर्दिः कार्श्यं, पारुष्यं, चेति ||१२||

पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः; तेषां स्थानं पक्वाशयः, ते प्रवर्धमानास्त्वधो विसर्पन्ति, यस्य पुनरामाशयाभिमुखाः स्युर्यदन्तरं तदन्तरं तस्योद्गारनिःश्वासाः पुरीषगन्धिनः स्युः; संस्थानवर्णविशेषास्तु- सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घा ऊर्णांशुसङ्काशाः केचित्, केचित्पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः; तेषां नामानि ककेरुकाः, मकेरुकाः, लेलिहाः; सशूलकाः, सौसुरादाश्चेति; प्रभावः- पुरीषभेदः, कार्श्यं, पारुष्यं, लोमहर्षाभिनिर्वर्तनं च, त एव चास्य गुदमुखं परितुदन्तः कण्डूं चोपजनयन्तो गुदमुखं पर्यासते, त एव जातहर्षा गुदनिष्क्रमणमतिवेलं कुर्वन्ति; इत्येष श्लेष्मजानां पुरीषजानां च क्रिमीणां समुत्थानादिविशेषः ||१३||

चिकित्सितं तु खल्वेषां समासेनोपदिश्य पश्चाद्विस्तरेणोपदेक्ष्यामः | तत्र सर्वक्रिमीणामपकर्षणमेवादितः कार्यं, ततः प्रकृतिविघातः, अनन्तरं निदानोक्तानां भावानामनुपसेवनमिति ||१४||

तत्रापकर्षणं- हस्तेनाभिगृह्य विमृश्योपकरणवताऽपनयनमनुपकरणेन वा; स्थानगतानां तु क्रिमीणां भेषजेनापकर्षणं न्यायतः, तच्चतुर्विधं; तद्यथा- शिरोविरेचनं, वमनं, विरेचनम्, आस्थापनंच; इत्यपकर्षणविधिः | प्रकृतिविघातस्त्वेषां कटुतिक्तकषायक्षारोष्णानां द्रव्याणामुपयोगः, यच्चान्यदपिकिञ्चिच्छ्लेष्मपुरीषप्रत्यनीकभूतं तत्स्यात्; हतिप्रकृतिविघातः | अनन्तरं निदानोक्तानां भावानामनुपसेवनं- यदुक्तं निदानविधौ तस्य विवर्जनं तथाप्रायाणां चापरेषां द्रव्याणाम् | इति लक्षणतश्चिकित्सितमनुव्याख्यातम् | एतदेव पुनर्विस्तरेणोपदेक्ष्यते ||१५||

अथैनं क्रिमिकोष्ठमातुरमग्रे षड्रात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्य श्वोभूते एनं संशोधनं पाययिताऽस्मीति क्षीरगुडदधितिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहसम्प्रयुक्तैर्भोज्यैः सायं प्रातश्चोपपादयेत्समुदीरणार्थं क्रिमीणां कोष्ठाभिसरणार्थं च भिषक् | अथ व्युष्टायां रात्र्यां सुखोषितं सुप्रजीर्णभक्तं च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेदुपपादनी -यश्चेत्स्यात्सर्वान्परीक्ष्य विशेषान्परीक्ष्य सम्यक् ||१६||

अथाहरेतिब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्सततमवघट्टयन्दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितंस्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत् ||१७||

प्रत्यागते च पश्चिमे बस्तौ प्रत्याश्वस्तं तदहरेवोभयतोभागहरं संशोधनं पाययेद्युक्त्या; तस्य विधिरुपदेक्ष्यते- मदनफलपिप्पलीकषायस्यार्धाञ्जलिमात्रेण त्रिवृत्कल्काक्षमात्रमालोड्य पातुमस्मै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु; एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंसृज्य पाययेदेनं बुद्ध्या सर्वविशेषानवेक्षमाणो भिषक् ||१८||

अथैनं सम्यग्विरिक्तं विज्ञायापराह्णे शैखरिककषायेण सुखोष्णेन परिषेचयेत् | तेनैव च कषायेण बाह्याभ्यन्तरान्सर्वोदकार्थान्कारयेच्छश्वत्; तदभावे कटुतिक्तकषायाणामौषधानां क्वाथैर्मूत्रक्षारैर्वा परिषेचयेत् | परिषिक्तं चैनं निवातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसिद्धेन यवाग्वादिना क्रमेणोपाचरेत्, विलेपीक्रमागतं चैनमनुवासयेद्विडङ्गतैलेनैकान्तरं द्विस्त्रिर्वा ||१९||

यदिपुनरस्यातिप्रवृद्धाञ्छीर्षादान्क्रिमीन्मन्येत शिरस्यैवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यामस्य शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन ||२०||

यस्त्वभ्यवहार्यविधिः प्रकृतिविघातायोक्तः क्रिमीणामथ तमनुव्याख्यास्यामः- मूलकपर्णीं [] समूलाग्रप्रतानामाहृत्य खण्डशश्छेदयित्वोलू(दू)खले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसंगृह्णीयात्, तेन रसेन लोहितशालितण्डुलपिष्टं समालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषूपकुड्य [] विडङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्, अनन्तरं चाम्लकाञ्जिकमुदश्विद्वा पिप्पल्यादिपञ्चवर्ग संसृष्टं सलवणमनुपाययेत् | अनेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झक- बकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमस्मिन्कारयेत्पूपलिकाः; तथा किणिहीकिराततिक्तकसुवहामलकहरीतकीबिभीतकस्वरसेषुकारयेत्पूपलिकाः; स्वरसांश्चैतेषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान्प्रातरनन्नाय पातुं प्रयच्छेत् ||२१|| अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृषदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाऽष्टकृत्वो दशकृत्वो वाऽऽतपे सुपरिभावितानि भावयित्वा दृषदि पुनः सूक्ष्माणि चूर्णानि कारयित्वा नवे कलशे समावाप्यानुगुप्तं निधापयेत् | तेषां तु खलु चूर्णानां पाणितलं यावद्वा साधु मन्येत तत्क्षौद्रेण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत् ||२२||

तथा भल्लातकास्थीन्याहृत्य कलशप्रमाणेन चापोथ्य स्नेहभाविते दृढे कलशे सूक्ष्मानेकच्छिद्रब्रध्ने शरीरमुपवेष्ट्य मृदावलिप्ते समावाप्योडुपेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढस्य कुम्भस्योपरिसमारोप्य समन्ताद्गोमयैरुपचित्यदाहयेत्, स यदा जानीयात्साधुदग्धानि गोमयानि विगतस्नेहानि च भल्लातकास्थीनीति ततस्तं कुम्भमुद्धरेत् | अथ तस्माद्द्वितीयात्कुम्भात्स्नेहमादाय विडङ्गतण्डुलचूर्णैः स्नेहार्धमात्रैः प्रतिसंसृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत्पानाय; तेन साधु विरिच्यते, विरिक्तस्य चानुपूर्वीयथोक्ता | एवमेव भद्रदारुसरलकाष्ठस्नेहानुपकल्प्य पातुं प्रयच्छेत् ||२३||

अनुवासयेच्चैनमनुवासनकाले ||२४||

अथाहरेति ब्रूयात्- शारदान्नवांस्तिलान्सम्पदुपेतान्; तानाहृत्यसुनिष्पूतान्निष्पूय, सुशुद्धान्शोधयित्वा , विडङ्गकषाये सुखोष्णे प्रक्षिप्य निर्वापयेदादोषगमनात्, गतदोषानभिसमीक्ष्य, सुप्रलूनान् प्रलुञ्च्य, पुनरेवसुनिष्पूतान् निष्पूय, सुशुद्धान्शोधयित्वा, विडङ्गकषायेण त्रिःसप्तकृत्वः सुपरिभावितान् भावयित्वा, आतपे शोषयित्वा, उलू(दू)खले सङ्क्षुद्य, दृषदि पुनः श्लक्ष्णपिष्टान्कारयित्वा, द्रोण्यामभ्यवधाय, विडङ्गकषायेण मुहुर्मुहुरवसिञ्चन्पाणिमर्दमेवमर्दयेत्; तस्मिंस्तु खलु प्रपीड्यमाने यत्तैलमुदियात्तत्पाणिभ्यांपर्यादाय, शुचौ दृढे कलशे न्यस्यानुगुप्तं निधापयेत् ||२५||

अथाहरेतिब्रूयात्- तिल्वकोद्दालकयोर्द्वौ बिल्वमात्रौ पिण्डौ श्लक्ष्णपिष्टौ विडङ्गकषायेण, तदर्धमात्रौ श्यामात्रिवृतयोः, अतोऽर्धमात्रौ दन्तीद्रवन्त्योः, अतोऽर्धमात्रौ च चव्यचित्रकयोरिति | एतं सम्भारं विडङ्गकषायस्यार्धाढकमात्रेण प्रतिसंसृज्य, तत्तैलप्रस्थं समावाप्य, सर्वमालोड्य, महति पर्योगे समासिच्याग्नावधिश्रित्यासने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्रं मृद्वग्निना साधयेद्दर्व्या सततमवघट्टयन् | स यदा जानीयाद्विरमतिशब्दः, प्रशाम्यति च फेनः, प्रसादमापद्यते स्नेहः, यथास्वं च गन्धवर्णरसोत्पत्तिः, संवर्तते च भैषज्यमङ्गुलिभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति, स कालस्तस्यावतारणाय | ततस्तमवतार्य शीतीभूतमहतेन वाससा परिपूय, शुचौ दृढे कलशे समासिच्य, पिधानेन पिधाय, शुक्लेन वस्त्रपट्टेनावच्छाद्य, सूत्रेण सुबद्धं सुनिगुप्तं निधापयेत् | ततोऽस्मै मात्रां प्रयच्छेत्पानाय, तेन साधु विरिच्यते; सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता | ततश्चैनमनुवासयेदनुवासनकाले |एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहानुपकल्प्य पाययेत्सर्वविशेषानवेक्षमाणः | तेनागदोभवति ||२६||

 एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषाव्याख्याताः सामान्यतः | विशेषतस्तु स्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वेवौषधेषु पुरीषजानां क्रिमीणां चिकित्सितं कर्तव्यं, मात्राधिकं पुनः शिरोविरेचनवमनोपशमनभूयिष्ठं तेष्वेवौषधेषु श्लेष्मजानां क्रिमीणां चिकित्सितं कार्यम्; इत्येष क्रिमिघ्नो भेषजविधिरनुव्याख्यातो भवति | तमनुतिष्ठता यथास्वं हेतुवर्जने प्रयतितव्यम् | यथोद्देशमेवमिदं क्रिमिकोष्ठचिकित्सितं यथावदनुव्याख्यातं भवति ||२७||

भवन्तिचात्र- अपकर्षणमेवादौ क्रिमीणां भेषजं स्मृतम् | ततो विघातः प्रकृतेर्निदानस्य च वर्जनम् ||२८||

अयमेव विकाराणां सर्वेषामपिनिग्रहे | विधिर्दृष्टस्त्रिधा योऽयं क्रिमीनुद्दिश्य कीर्तितः ||२९||

संशोधनं संशमनं निदानस्य च वर्जनम् | एतावद्भिषजाकार्यं रोगे रोगे यथाविधि ||३०||

तत्रश्लोकौ- व्याधितौ पुरुषौ ज्ञाज्ञौ भिषजौ सप्रयोजनौ | विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तकोगणः||३१||

उक्तो व्याधितरूपीये विमाने परमर्षिणा | शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ||३२||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ||||

Post a Comment

0 Comments