For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो रोगानीकं विमानं व्याख्यास्यामः||१||
इति ह स्माह
भगवानात्रेयः||२||
द्वे रोगानीके भवतः प्रभावभेदेन- साध्यम्, असाध्यं च; द्वे
रोगानीके बलभेदेन- मृदु, दारुणं च; द्वे
रोगानीके अधिष्ठानभेदेन- मनोऽधिष्ठानं, शरीराधिष्ठानं च; द्वे
रोगानीके निमित्तभेदेन- स्वधातुवैषम्यनिमित्तम्, आगन्तुनिमित्तं
च; द्वे
रोगानीके आशयभेदेन- आमाशयसमुत्थं, पक्वाशयसमुत्थं चेति| एवमेतत्
प्रभावबलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि
सन्धीयमानं स्यादेकत्वं बहुत्वं वा| एकत्वं तावदेकमेव रोगानीकं, दुःखसामान्यात्; बहुत्वं तु
दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि सङ्ख्येयं
स्यादसङ्ख्येयं वा| तत्र सङ्ख्येयं तावद्यथोक्तमष्टोदरीये, अपरिसङ्ख्येयं
पुनर्यथा- महारोगाध्याये
रुग्वर्णसमुत्थानादीनामसङ्ख्येयत्वात्||३||
न च सङ्ख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु
विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यतः स्याददोषवती| भेत्ता हि
भेद्यमन्यथाभिनत्ति, अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण
भिन्दन् भेदसङ्ख्याविशेषमापादयत्यनेकधा, न च पूर्वं भेदाग्रमुपहन्ति| समानायामपि
खलु भेदप्रकृतौ प्रकृतानुप्रयोगान्तरमपेक्ष्यम्[१] |सन्ति ह्यर्थान्तराणि
समानशब्दाभिहितानि, सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि| समानो हि
रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं
विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं
दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते| तत्र दोषेषु चैव व्याधिषु च
रोगशब्दः समानः,
शेषेषु तु
विशेषवान्||४||
तत्र व्याधयोऽपरिसङ्ख्येया भवन्ति, अतिबहुत्वात्| दोषास्तु खलु
परिसङ्ख्येया भवन्ति, अनतिबहुत्वात्| तस्माद्यथाचित्रं
विकारानुदाहरणार्थम्, अनवशेषेण च दोषान् व्याख्यास्यामः| रजस्तमश्च
मानसौ दोषौ| तयोर्विकाराः
कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|
वातपित्तश्लेष्माणस्तु
खलु शारीरा दोषाः| तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः| इति दोषाः
केवला व्याख्याता विकारैकदेशश्च||५||
तत्र
खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः
परिणामश्चेति||६||
प्रकुपितास्तु खलु ते
प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसङ्ख्येयान्||७||
ते च विकाराः परस्परमनुवर्तमानाः
कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च||८||
नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं
तमः प्रवर्तते ||९||
(प्रायः) शारीरदोषाणामेकाधिष्ठानीयानां
सन्निपातः संसर्गो वा समानगुणत्वात्; दोषा हि दूषणैः समानाः||१०||
तत्रानुबन्ध्यानुबन्धकृतो विशेषः- स्वतन्त्रो
व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः| अनुबन्ध्यलक्षणसमन्वितास्तत्र
यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम्| अनुबन्ध्यानुबन्धविशेषकृतस्तु
बहुविधो दोषभेदः| एवमेष सञ्ज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च
नानाप्रकृतिविशेषव्यूहः ||११||
अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन
भवति| तद्यथा- तीक्ष्णो, मन्दः, समो, विषमश्चेति| तत्र
तीक्ष्णोऽग्निः सर्वापचारसहः, तद्विपरीतलक्षणस्तु मन्दः, समस्तु
खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु
विषम इति| एते
चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम्| तत्र समवातपित्तश्लेष्मणां
प्रकृतिस्थानां समा भवन्त्यग्नयः, वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा
भवन्त्यग्नयः,
पित्तलानां
तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः, श्लेष्मलानां
तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः||१२||
तत्र केचिदाहुः- न
समवातपित्तश्लेष्माणो जन्तवः सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च
वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः
श्लेष्मप्रकृतयो भवन्तीति| तच्चानुपपन्नं, कस्मात् कारणात्? समवातपित्तश्लेष्माणं
ह्यरोगमिच्छन्ति भिषजः, यतः प्रकृतिश्चारोग्यम्, आरोग्यार्था
च भेषजप्रवृत्तिः, सा चेष्टरूपा, तस्मात् सन्ति
समवातपित्तश्लेष्माणः; न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः
श्लेष्मप्रकृतयो वा| तस्य तस्य किल दोषस्याधिक्यात् सा सा
दोषप्रकृतिरुच्यते मनुष्याणां, न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैताः
प्रकृतयः सन्ति;
सन्ति तु खलु
वातलाः पित्तलाः श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेयाः||१३||
तेषां तु खलु चतुर्विधानां पुरुषाणां
चत्वार्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति| तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां
तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु(न्न)प्रणिधानानि
श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा
भेषजप्रयोगाश्चापरे| तान् विस्तरेणानुव्याख्यास्यामः||१४||
त्रयस्तु पुरुषा भवन्त्यातुराः, ते
त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम्| तद्यथा- वातलः,पित्तलः, श्लेष्मलश्चेति| तेषामिदं
विशेषविज्ञानं- वातलस्य वातनिमित्ताः, पित्तलस्य
पित्तनिमित्ताः,
श्लेष्मलस्य
श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति||१५||
तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य
क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो
यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- स्नेहस्वेदौ
विधियुक्तौ, मृदूनि च
संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापनविस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो
दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः, बस्तयः, बस्तिनियमः
सुखशीलता चेति||१६||
पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य
क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं
यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- सर्पिष्पानं, सर्पिषा च
स्नेहनम्, अधश्च
दोषहरणं, मधुरतिक्तकषायशीतानां
चौषधाभ्यवहार्याणामुपयोगः, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां
च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे
क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च
वारिभिरभिप्रोक्षणं, श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां
श्रवणं, श्रवणं
चाभ्युदयानां,
सुहृद्भिः
संयोगः, संयोगश्चेष्टाभिः
स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां
चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं
चपद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां , सौम्यानां च
सर्वभावानामिति||१७||
श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य [१] क्षिप्रं
श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नोयथोक्तैर्विकारैः
शरीरमुपतपति बलवर्णसुखायुषामुपघाताय| तस्यावजयनं- विधियुक्तानि
तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि
कटुकतिक्तकषायोपहितानि, तथैवधावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां
दीर्घकालस्थितानां चमद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च
सुखार्थमेवेति||१८||
भवति चात्र- सर्वरोगविशेषज्ञः
सर्वकार्यविशेषवित्| सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति||१९||
तत्र श्लोकाः-
प्रकृत्यन्तरभेदेन
रोगानीकविकल्पनम्| परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०||
दोषसङ्ख्या
विकाराणामेकदेशः प्रकोपणम्| जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च||२१||
नराणां
वातलादीनां प्रकृतिस्थापनानि च| रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा||२२||
0 Comments