Advertisement

Responsive Advertisement

Charak viman chapter 8 rogbhishagjitiyam vimanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

बुद्धिमानात्मनः कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषुः शास्त्रमेवादितः परीक्षेत|

विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके;

तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं

पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं सङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च,

तदभिप्रपद्येत शास्त्रम्|

शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम्||||

ततोऽनन्तरमाचार्यं परीक्षेत; तद्यथा-

पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं

प्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति |

एवङ्गुणो ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः

सम्पादयति||||

तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्तः|

ततस्तत्प्रसादात्कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य

सौष्ठवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयो भूयः प्रयतेत सम्यक्||||

तत्रोपायाननुव्याख्यास्यामः-

अध्ययनम्, अध्यापनं, तद्विद्यसम्भाषा चेत्युपायाः||||

तत्रायमध्ययनविधिः-

कल्यः कृतक्षणः प्रातरुत्थायोपव्यूषं वा कृत्वाऽऽवश्यकमुपस्पृश्योदकं

देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसराभिर्वाग्भिः सूत्रमनुक्रामन्

पुनः पुनरावर्तयेद्बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं

परदोषप्रमाणार्थं च;

एवं मध्यन्दिनेऽपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत्|

इत्यध्ययनविधिः||||

अथाध्यापनविधिः-

अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा-

प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं

तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं

धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं

तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं

निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं

शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने

कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च,

एवङ्गुणसमुदितमध्याप्यमाहुः||||

एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत

उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन

नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान्

माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन्

कुशलाजसर्षपाक्षतांश्च शुक्लानि

सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्वेति||||

स तथा कुर्यात्||१०||

तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं

परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा,

तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीःसम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति||११||

शिष्यश्चैनमन्वालभेत। हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत्| परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्;भिषजश्चाभिपूजयेत्||१२||

अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणा सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं,न च ते मद्वचनात्किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्; मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं, पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्, अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्, अनुज्ञातेन(चाननुज्ञातेन च)प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं,कर्मसिद्धिमर्थसिद्धं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च,सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेवपरस्वं,निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च, श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता च; न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं,तथा सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकाराणां मुमूर्षूणां च,तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा;न च कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण,आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्,अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु,न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः, ह्रसितं चायुषः प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय सम्पद्यते;ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्,आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||

नचैवह्यस्तिसुतरमायुर्वेदस्यपारं, तस्मादप्रमत्तःशश्वदभियोगमस्मिन्गच्छेत्, एतच्चकार्यम्, एवम्भूयश्चवृत्तसौष्ठवमनसूयतापरेभ्योऽप्यागमयितव्यं, कृत्स्नोहिलोकोबुद्धिमतामाचार्यःशत्रुश्चाबुद्धिमताम्, अतश्चाभिसमीक्ष्यबुद्धिमताऽमित्रस्यापिधन्यंयशस्यमायुष्यंपौष्टिकंलौक्यमभ्युपदिशतोवचःश्रोतव्यमनुविधातव्यंचेति| अतःपरमिदंब्रूयात्- देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषुतेनित्यंसम्यग्वर्तितव्यं, तेषुतेसम्यग्वर्तमानस्यायमग्निःसर्वगन्धरसरत्नबीजानियथेरिताश्चदेवताःशिवायस्युः, अतोऽन्यथावर्तमानस्याशिवायेति| एवंब्रुवतिचाचार्येशिष्यःतथाइतिब्रूयात्| यथोपदेशं चकुर्वन्नध्याप्यः, अतोऽन्यथात्वनध्याप्यः| अध्याप्यमध्यापयन्ह्याचार्योयथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः श्रेयस्करैर्गुणैःशिष्यमात्मानंचयुनक्ति| इत्यध्यापनविधिरुक्तः||१४||

सम्भाषाविधिमतऊर्ध्वंव्याख्यास्यामः- भिषक्भिषजासहसम्भाषेत| तद्विद्यसम्भाषाहिज्ञानाभियोगसंहर्षकरीभवति, वैशारद्यमपिचाभिनिर्वर्तयति, वचनशक्तिमपिचाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुतेचसन्देहवतःपुनःश्रवणाच्छ्रुतसंशयमपकर्षति, श्रुतेचासन्देहवतोभूयोऽध्यवसायमभिनिर्वर्तयति, अश्रुतमपिचकञ्चिदर्थंश्रोत्रविषयमापादयति, यच्चाचार्यःशिष्यायशुश्रूषवेप्रसन्नःक्रमेणोपदिशतिगुह्याभिमतमर्थजातंतत्परस्परेणसहजल्पन्पिण्डेनविजिगीषुराहसंहर्षात्, तस्मात्तद्विद्यसम्भाषामभिप्रशंसन्तिकुशलाः||१५||

द्विविधातुखलुतद्विद्यसम्भाषाभवति- सन्धायसम्भाषा, विगृह्यसम्भाषाच||१६||

तत्रज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेनक्लेशक्षमेणप्रियसम्भाषणेनचसहसन्धायसम्भाषाविधीयते| तथाविधेनसहकथयन्विस्रब्धःकथयेत्, पृच्छेदपिचविस्रब्धः, पृच्छतेचास्मैविस्रब्धायविशदमर्थंब्रूयात्, नचनिग्रहभयादुद्विजेत, निगृह्यचैनंनहृष्येत्, नचपरेषुविकत्थेत, नचमोहादेकान्तग्राहीस्यात्, नचाविदितमर्थमनुवर्णयेत्, सम्यक्चानुनयेनानुनयेत्, तत्रचावहितःस्यात्| इत्यनुलोमसम्भाषाविधिः||१७||

अतऊर्ध्वमितरेणसहविगृह्यसम्भाषायांजल्पेच्छ्रेयसायोगमात्मनःपश्यन्| प्रागेवचजल्पाज्जल्पान्तरंपरावरान्तरंपरिषद्विशेषांश्चसम्यक्परीक्षेत| सम्यक्परीक्षाहिबुद्धिमतांकार्यप्रवृत्तिनिवृत्तिकालौशंसति, तस्मात्परीक्षामभिप्रशंसन्तिकुशलाः| परीक्षमाणस्तुखलुपरावरान्तरमिमान्जल्पकगुणाञ्श्रेयस्करान्दोषवतश्चपरीक्षेतसम्यक्; तद्यथा- श्रुतंविज्ञानंधारणंप्रतिभानंवचनशक्तिरिति, एतान्गुणान्श्रेयस्करानाहुः; इमान्पुनर्दोषवतः, तद्यथा- कोपनत्वमवैशारद्यंभीरुत्वमधारणत्वमनवहितत्वमिति| एतान्गुणान्गुरुलाघवतःपरस्यचैवात्मनश्चतुलयेत्||१८||

तत्रत्रिविधःपरःसम्पद्यते- प्रवरः, प्रत्यवरः, समोवा, गुणविनिक्षेपतः; नत्वेवकार्त्स्न्येन||१९||

परिषत्तुखलुद्विविधा- ज्ञानवती, मूढपरिषच्च| सैवद्विविधासतीत्रिविधापुनरनेनकारणविभागेन- सुहृत्परिषत्, उदासीनपरिषत्, प्रतिनिविष्टपरिषच्चेति | तत्रप्रतिनिविष्टायांपरिषदिज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायांमूढायांवानकथंचित्केनचित्सहजल्पोविधीयते; मूढायांतुसुहृत्परिषद्युदासीनायांवाज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्यदीप्तयशसा महाजनविद्विष्टेनापिसहजल्पोविधीयते| तद्विधेनचसहकथयताआविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैःकथयितव्यम्, अतिहृष्टंमुहुर्मुहुरुपहसतापरंनिरूपयताचपर्षदमाकारैर्ब्रुवतश्चास्यवाक्यावकाशोनदेयः; कष्टशब्दंचब्रुवतावक्तव्योनोच्यते, अथवापुनर्हीनातेप्रतिज्ञा, इति| पुनश्चाहू(ह्व)यमानःप्रतिवक्तव्यः- परिसंवत्सरोभवान्शिक्षस्वतावत्; नत्वयागुरुरुपासितोनूनम्, अथवापर्याप्तमेतावत्ते; सकृदपिहिपरिक्षेपिकंनिहतंनिहतमाहुरितिनास्ययोगःकर्तव्यःकथञ्चित्| अप्येवंश्रेयसासहविगृह्यवक्तव्यमित्याहुरेके; नत्वेवंज्यायसासहविग्रहंप्रशंसन्तिकुशलाः||२०||

प्रत्यवरेणतुसहसमानाभिमतेनवाविगृह्यजल्पतासुहृत्परिषदिकथयितव्यम्,अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायांकथयताचावहितेनपरस्यसाद्गुण्यदोष
बलमवेक्षितव्यं, समवेक्ष्यचयत्रैनंश्रेष्ठंमन्येतनास्यतत्रजल्पंयोजयेदनाविष्कृतमयोगंकुर्वन्; यत्रत्वेनमवरंमन्येततत्रैवैनमाशुनिगृह्णीयात्| तत्रखल्विमेप्रत्यवराणामाशुनिग्रहेभवन्त्युपायाः; तद्यथा- श्रुतहीनंमहतासूत्रपाठेनाभिभवेत्, विज्ञानहीनंपुनःकष्टशब्देनवाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः, प्रतिभाहीनंपुनर्वचनेनैकविधेनानेकार्थवाचिना , वचनशक्तिहीनमर्धोक्तस्यवाक्यस्याक्षेपेणअविशारदमपत्रपणेन, कोपनमायासनेन, भीरुंवित्रासनेन, अनवहितंनियमनेनेति| एवमेतैरुपायैःपरमवरमभिभवेच्छीघ्रम्||२१||

तत्रश्लोकौ- विगृह्यकथयेद्युक्त्यायुक्तंचननिवारयेत्| विगृह्यभाषातीव्रंहिकेषाञ्चिद्द्रोहमावहेत्||२२||

नाकार्यमस्तिक्रुद्धस्यनावाच्यमपिविद्यते| कुशलानाभिनन्दन्तिकलहंसमितौसताम्||२३||

एवंप्रवृत्तेवादेकुर्यात्||२४||

प्रागेवतावदिदंकर्तुंयतेत- सन्धायपर्षदाऽयनभूतमात्मनःप्रकरणमादेशयितव्यं, यद्वापरस्यभृशदुर्गंस्यात्, पक्षमथवापरस्यभृशंविमुखमानयेत्; परिषदिचोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषैवतेपरिषद्यथेष्टंयथायोगंयथाभिप्रायंवादंवादमर्यादांचस्थापयिष्यतीत्युक्त्वातूष्णीमासीत||२५||

तत्रेदंवादमर्यादालक्षणंभवति- इदंवाच्यम्, इदमवाच्यम्, एवंपराजितोभवतीति||२६||

इमानितुखलुपदानिभिषग्वादमार्गज्ञानार्थमधिगम्यानिभवन्ति; तद्यथा- वादः, द्रव्यं, गुणाः, कर्म, सामान्यं, विशेषः, समवायः, प्रतिज्ञा,स्थापना, प्रतिष्ठापना, हेतुः, दृष्टान्तः, उपनयः, निगमनम्, उत्तरं, सिद्धान्तः, शब्दः, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यं, संशयः, प्रयोजनं, सव्यभिचारं, जिज्ञासा, व्यवसायः, अर्थप्राप्तिः, सम्भवः, अनुयोज्यम्, अननुयोज्यम्, अनुयोगः, प्रत्यनुयोगः, वाक्यदोषः, वाक्यप्रशंसा, छलम्, अहेतुः, अतीतकालम्, उपालम्भः, परिहारः, प्रतिज्ञाहानिः, अभ्यनुज्ञा, हेत्वन्तरम्, अर्थान्तरं, निग्रहस्थानमिति||२७||

तत्रवादोनामसयत्परेणसहशास्त्रपूर्वकंविगृह्यकथयति| सचद्विविधःसङ्ग्रहेण- जल्पः, वितण्डाच| तत्रपक्षाश्रितयोर्वचनंजल्पः, जल्पविपर्ययोवितण्डा| यथा- एकस्यपक्षःपुनर्भवोऽस्तीति,नास्तीत्यपरस्य; तौचस्वस्वपक्षहेतुभिःस्वस्वपक्षंस्थापयतः, परपक्षमुद्भावयतः, एषजल्पः| जल्पविपर्ययोवितण्डा| वितण्डानामपरपक्षेदोषवचनमात्रमेव||२८||

द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः स्वलक्षणैःश्लोकस्थानेपूर्वमुक्ताः||२९||

अथप्रतिज्ञा- प्रतिज्ञानामसाध्यवचनं; यथा- नित्यःपुरुषइति||३०||

अथस्थापना- स्थापनानामतस्याएवप्रतिज्ञायाहेतुदृष्टान्तोपनयनिगमनैःस्थापना| पूर्वंहिप्रतिज्ञा, पश्चातस्थापना, किंह्यप्रतिज्ञातंस्थापयिष्यति; यथा- नित्यःपुरुषइतिप्रतिज्ञा; हेतुः- अकृतकत्वादिति; दृष्टान्तः- यथाऽऽकाशमिति; उपनयः- यथाचाकृतकमाकाशं, तच्चनित्यं, तथापुरुषइति; निगमनं- तस्मान्नित्यइति||३१||

अथप्रतिष्ठापना- प्रतिष्ठापनानामयातस्याएवपरप्रतिज्ञायाविपरीतार्थस्थापना| यथा- अनित्यःपुरुषइतिप्रतिज्ञा; हेतुः- ऐन्द्रियकत्वादिति; दृष्टान्तः- यथाघटइति, उपनयो- यथाघटऐन्द्रियकःचानित्यः, तथाचायमिति; निगमनं- तस्मादनित्यइति||३२||

अथहेतुः- हेतुर्नामोपलब्धिकारणं; तत्प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यमिति; एभिर्हेतुभिर्यदुपलभ्यतेतत्तत्त्वम्||३३||

अथदृष्टान्तः- दृष्टान्तोनामयत्रमूर्खविदुषांबुद्धिसाम्यं, योवर्ण्यंवर्णयति| यथा- अग्निरुष्णः, द्रवमुदकं, स्थिरापृथिवी, आदित्यःप्रकाशकइति; यथाआदित्यःप्रकाशकस्तथासाङ्ख्यज्ञानंप्रकाशकमिति||३४||

उपनयोनिगमनंचोक्तंस्थापनाप्रतिष्ठापनाव्याख्यायाम्||३५||

अथोत्तरम्- उत्तरंनामसाधर्म्योपदिष्टेहेतौवैधर्म्यवचनं, वैधर्म्योपदिष्टेवाहेतौसाधर्म्यवचनम्| यथा- हेतुसधर्माणोविकाराः, शीतकस्यहिव्याधेर्हेतुभिःसाधर्म्यंहिमशिशिरवातसंस्पर्शाः, इतिब्रुवतःपरोब्रूयात्- हेतुविधर्माणोविकाराः, यथाशरीरावयवानांदाहौष्ण्यकोथप्रपचनेहेतुवैधर्म्यंहिमशिशिरवातसंस्पर्शाइति| एतत्सविपर्ययमुत्तरम्||३६||

अथसिद्धान्तः- सिद्धान्तोनामसयःपरीक्षकैर्बहुविधंपरीक्ष्यहेतुभिश्चसाधयित्वास्थाप्यतेनिर्णयः| सचतुर्विधः- सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति| तत्रसर्वतन्त्रसिद्धान्तोनामतस्मिंस्तस्मिन्सर्वस्मिंस्तन्त्रेतत्तत्प्रसिद्धं; यथासन्तिनिदानानि, सन्तिव्याधयः, सन्तिसिद्ध्युपायाःसाध्यानामिति| प्रतितन्त्रसिद्धान्तोनामतस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रेतत्तत्प्रसिद्धं; यथा- अन्यत्राष्टौरसाःषडत्र, पञ्चेन्द्रियाण्यत्रषडिन्द्रियाण्यन्यत्रतन्त्रे, वातादिकृताःसर्वेविकारायथाऽन्यत्र, अत्रवातादिकृताभूतकृताश्चप्रसिद्धाः| अधिकरणसिद्धान्तोनामसयस्मिन्नधिकरणेप्रस्तूयमानेसिद्धान्यन्यान्यप्यधिकरणानिभवन्ति, यथा- नमुक्तःकर्मानुबन्धिकंकुरुते, निस्पृहत्वात्इतिप्रस्तुतेसिद्धाःकर्मफल-मोक्ष-पुरुष-प्रेत्यभावाभवन्ति| अभ्युपगमसिद्धान्तोनामसयमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकंवावादकालेऽभ्युपगच्छन्तिभिषजः; तद्यथा- द्रव्यंप्रधानमितिकृत्वावक्ष्यामः, गुणाःप्रधानमितिकृत्वावक्ष्यामः, वीर्यंप्रधानमितिकृत्वावक्ष्यामः, इत्येवमादिः| इतिचतुर्विधःसिद्धान्तः||३७||

अथशब्दः- शब्दोनामवर्णसमाम्नायः; सचतुर्विधः- दृष्टार्थश्च, अदृष्टार्थश्च, सत्यश्च, अनृतश्चेति| तत्रदृष्टार्थोनाम- ्रिभिर्हेतुभिर्दोषाःप्रकुप्यन्ति, षड्भिरुपक्रमैश्चप्रशाम्यन्ति, सतिश्रोत्रादिसद्भावेशब्दादिग्रहणमिति| अदृष्टार्थःपुनः- अस्तिप्रेत्यभावः, अस्तिमोक्षइति| सत्योनाम- यथार्थभूतः; सन्त्यायुर्वेदोपदेशाः, सन्तिसिद्ध्युपायाःसाध्यानांव्याधीनां, सन्त्यारम्भफलानीति| सत्यविपर्ययश्चानृतः||३८||

अथप्रत्यक्षं- प्रत्यक्षंनामतद्यदात्मनाचेन्द्रियैश्चस्वयमुपलभ्यते; तत्रात्मप्रत्यक्षाःसुखदुःखेच्छाद्वेषादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः||३९||

अथानुमानम्- अनुमानंनामतर्कोयुक्त्यपेक्षः; यथा- अग्निंजरणशक्त्या, बलंव्यायामशक्त्या, श्रोत्रादीनिशब्दादिग्रहणेनेत्येवमादि||४०||

अलौकिकाप्तोपदेशऐतिह्यपदेनोच्यतइत्याह- वेदादिरिति||४१||

अथौपम्यम्- औपम्यंनामयदन्येनान्यस्यसादृश्यमधिकृत्यप्रकाशनं; यथा- दण्डेनदण्डकस्य, धनुषाधनुःस्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति||४२||

अथसंशयः- संशयोनामसन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः ; यथा- दृष्टाह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्चतथासक्रियाश्चाक्रियाश्चपुरुषाःशीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात्संशयः- किमस्तिखल्वकालमृत्युरुतनास्तीति||४३||

अथप्रयोजनं- प्रयोजनंनामयदर्थमारभ्यन्तआरम्भाः; यथा- यद्यकालमृत्युरस्तिततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणिचपरिहरिष्यामि, कथंमामकालमृत्युःप्रसहेतेति||४४||

अथसव्यभिचारं- सव्यभिचारंनामयद्व्यभिचरणं; यथा- भवेदिदमौषधमस्मिन्व्याधौयौगिकमथवानेति||४५||

अथजिज्ञासा- जिज्ञासानामपरीक्षा; यथाभेषजपरीक्षोत्तरकालमुपदेक्ष्यते||४६||

अथव्यवसायः- व्यवसायोनामनिश्चयः; यथा- वातिकएवायंव्याधिः, इदमेवास्यभेषजंचेति||४७||

अथार्थप्राप्तिः- अर्थप्राप्तिर्नामयत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापिसिद्धिः; यथा- नायंसन्तर्पणसाध्योव्याधिरित्युक्तेभवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेनदिवाभोक्तव्यमित्युक्तेभवत्यर्थप्राप्तिः- निशिभोक्तव्यमिति||४८||

अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||

अथानुयोज्यम्- अनुयोज्यंनामयद्वाक्यंवाक्यदोषयुक्तंतत्| सामान्यतोव्याहृतेष्वर्थेषुवाविशेषग्रहणार्थंयद्वाक्यंतदप्यनुयोज्यं; यथा- संशोधनसाध्योऽयंव्याधिःइत्युक्तेकिंवमनसाध्योऽयं, किंवाविरेचनसाध्यःइत्यनुयुज्यते||५०||

अथाननुयोज्यम्- अननुयोज्यंनामातोविपर्ययेण; यथा- अयमसाध्यः||५१||

अथानुयोगः- अनुयोगोनामसयत्तद्विद्यानांतद्विद्यैरेवसार्धंतन्त्रेतन्त्रैकदेशेवाप्रश्नःप्रश्नैकदेशोवाज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते| यथा- नित्यःपुरुषःइतिप्रतिज्ञातेयत्परःकोहेतुःइत्याह, सोऽनुयोगः||५२||

अथप्रत्यनुयोगः- प्रत्यनुयोगोनामानुयोगस्यानुयोगः; यथा- अस्यानुयोगस्यपुनःकोहेतुरिति||५३||

अथवाक्यदोषः- वाक्यदोषोनामयथाखल्वस्मिन्नर्थेन्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धंचेति; एतानिह्यन्तरेणनप्रकृतोऽर्थःप्रणशयेत्| तत्रन्यूनं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापिन्यूनंन्यूनंभवति; यद्वाबहूपदिष्टहेतुकमेकेनहेतुनासाध्यतेतच्चन्यूनम्| अथाधिकम्- अधिकंनामयन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदेभाष्यमाणेबार्हस्पत्यमौशनसमन्यद्वायत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते, यद्वासम्बद्धार्थमपिद्विरभिधीयतेतत्पुनरुक्तदोषत्वादधिकं; तच्चपुनरुक्तंद्विविधम्- अर्थपुनरुक्तं, शब्दपुनरुक्तंच; तत्रार्थपुनरुक्तंयथा- भेषजमौषधंसाधनमिति, शब्दपुनरुक्तंपुनर्भेषजंभेषजमिति| अथानर्थकम्- अनर्थकंनामयद्वचनमक्षरग्राममात्रमेवस्यात्पञ्चवर्गवन्नचार्थतोगृह्यते| अथापार्थकम्- अपार्थकंनामयदर्थवच्चपरस्परेणासंयुज्यमानार्थकं; यथा- चक्र-()क्र-वंश-वज्र-निशाकराइति| अथविरुद्धं- विरुद्धंनामयद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्रपूर्वंदृष्टान्तसिद्धान्तावुक्तौःसमयःपुनस्त्रिधाभवति; यथा- आयुर्वैदिकसमयः, याज्ञिकसमयः, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः- चतुष्पादंभेषजमिति, याज्ञिकसमयः- आलभ्यायजमानैःपशवइति, मोक्षशास्त्रिकसमयः- सर्वभूतेष्वहिंसेति; तत्रस्वसमयविपरीतमुच्यमानंविरुद्धंभवति| इतिवाक्यदोषाः||५४||

अथवाक्यप्रशंसा- वाक्यप्रशंसानामयथाखल्वस्मिन्नर्थेत्वन्यूनम्, अनधिकम्, अर्थवत्, अनपार्थकम्, अविरुद्धम्, अधिगतपदार्थंचेतियत्तद्वाक्यमननुयोज्यमितिप्रशस्यते||५५||

अथच्छलं- छलंनामपरिशठमर्थाभासमनर्थकंवाग्वस्तुमात्रमेव| तद्द्विविधं- वाक्छलं, सामान्यच्छलंच| तत्रवाक्छलंनामयथा- कश्चिद्ब्रूयात्- नवतन्त्रोऽयंभिषगिति, अथभिषग्ब्रूयात्- नाहंनवतन्त्रएकतन्त्रोऽहमिति; परोब्रूयात्- नाहंब्रवीमिनवतन्त्राणितवेति, अपितुनवाभ्यस्तंतेतन्त्रमिति; भिषक्ब्रूयात्- नमयानवाभ्यस्तंतन्त्रम्, अनेकधाऽभ्यस्तंमयातन्त्रमिति; एतद्वाक्छलम्| सामान्यच्छलंनामयथा- व्याधिप्रशमनायौषधमित्युक्ते, परोब्रूयात्- सत्सत्प्रशमनायेतिकिंनुभवानाह; सन्हिरोगः, सदौषधं; यदिचसत्सत्प्रशमनायभवति, तत्रसत्कासः, सत्क्षयः, सत्सामान्यात्कासस्तेक्षयप्रशमनायभविष्यतीति| एतत्सामान्यच्छलम्||५६||

अथाहेतुः- अहेतुर्नामप्रकरणसमः, संशयसमः, वर्ण्यसमश्चेति| तत्रप्रकरणसमोनामाहेतुर्यथा- अन्यःशरीरादात्मानित्यइति; परोब्रूयात्- यस्मादन्यःशरीरादात्मा, तस्मान्नित्यः; शरीरंह्यनित्यमतोविधर्मिणाचात्मनाभवितव्यमित्येषचाहेतुः; नहियएवपक्षःसएवहेतुरिति| संशयसमोनामाहेतुर्यएवसंशयहेतुःसएवसंशयच्छेदहेतुः; यथा- अयमायुर्वेदैकदेशमाह, किन्न्वयंचिकित्सकःस्यान्नवेतिसंशयेपरोब्रूयात्- यस्मादयमायुर्वेदैकदेशमाहतस्माच्चिकित्सकोऽयमिति, नचसंशयच्छेदहेतुंविशेषयति, एषचाहेतुः; नहियएवसंशयहेतुः, सएवसंशयच्छेदहेतुर्भवति| वर्ण्यसमोनामाहेतुः- योहेतुर्वर्ण्याविशिष्टः; यथा- कश्चिद्बूयात्- अस्पर्शत्वाद्बुद्धिरनित्याशब्दवदिति; अत्रवर्ण्यःशब्दोबुद्धिरपिवर्ण्या, तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः||५७||

अथातीतकालम्- अतीतकालंनामयत्पूर्वंवाच्यंतत्पश्चादुच्यते, तत्कालातीतत्वादग्राह्यंभवतीति; पूर्वंवानिग्रहप्राप्तमनिगृह्यपरिगृह्यपक्षान्तरितंपश्चान्निगृहीते, तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थंभवतीति||५८||

अथोपालम्भः- उपालम्भोनामहेतोर्दोषवचनं; यथा- पूर्वमहेतवोहेत्वाभासाव्याख्याताः||५९||

अथपरिहारः- परिहारोनामतस्यैवदोषवचनस्यपरिहरण; यथा- नित्यमात्मनिशरीरस्थेजीवलिङ्गान्युपलभ्यन्ते, तस्यचापगमान्नोपलभ्यन्ते, तस्मादन्यःशरीरादात्मानित्यश्चेति||६०||

अथप्रतिज्ञाहानिः- प्रतिज्ञाहानिर्नामसापूर्वपरिगृहीतांप्रतिज्ञांपर्यनुयुक्तोयत्परित्यजति, यथाप्राक्प्रतिज्ञांकृत्वानित्यःपुरुषइति, पर्यनुयुक्तस्त्वाह- अनित्यइति||६१||

अथाभ्यनुज्ञा- अभ्यनुज्ञानामसायइष्टानिष्टाभ्युपगमः||६२||

अथहेत्वन्तरं- हेत्वन्तरंनामप्रकृतहेतौवाच्येयद्विकृतहेतुमाह||६३||

अथार्थान्तरम्- अर्थान्तरंनामैकस्मिन्वक्तव्येऽपरंयदाह| यथा- ज्वरलक्षणेवाच्येप्रमेहलक्षणमाह||६४||

अथनिग्रहस्थानं- निग्रहस्थानंनामपराजयप्राप्तिः; तच्चत्रिरभिहितस्यवाक्यस्यापरिज्ञानंपरिषदिविज्ञानवत्यां, यद्वाअननुयोज्यस्यानुयोगोऽनुयोज्यस्यचाननुयोगः| प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरंचनिग्रहस्थानम्||६५||

इतिवादमार्गपदानियथोद्देशमभिनिर्दिष्टानिभवन्ति||६६||

वादस्तुखलुभिषजांप्रवर्तमानोप्रवर्तेतायुर्वेदएव, नान्यत्र| अत्रहिवाक्यप्रतिवाक्यविस्तराःकेवलाश्चोपपत्तयःसर्वाधिकरणेषु| ताःसर्वाःसमवेक्ष्यावेक्ष्यसर्वंवाक्यंब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकंवा| सर्वंचहेतुमद्ब्रूयात्| हेतुमन्तोह्यकलुषाःसर्वएववादविग्रहाश्चिकित्सितेकारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धिंह्यावहत्यनुपहताबुद्धिः||६७||

इमानिखलुतावदिहकानिचित्प्रकरणानिभिषजांज्ञानार्थमुपदेक्ष्यामः| ज्ञानपूर्वकंहिकर्मणांसमारम्भंप्रशंसन्तिकुशलाः| ज्ञात्वाहिकारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान्सम्यगभिनिर्वर्तमानःकार्याभिनिर्वृत्ताविष्टफलानुबन्धंकार्यमभिनिर्वर्तयत्यनतिमहतायत्नेनकर्ता||६८||

तत्रकारणंनामतद्यत्करोति, सएवहेतुः, सकर्ता||६९||

करणंपुनस्तद्यदुपकरणायोपकल्पतेकर्तुःकार्याभिनिर्वृत्तौप्रयतमानस्य||७०||

कार्ययोनिस्तुसायाविक्रियमाणाकार्यत्वमापद्यते||७१||

कार्यंतुतद्यस्याभिनिर्वृत्तिमभिसन्धायकर्ताप्रवर्तते||७२||

कार्यफलंपुनस्तद्यत्प्रयोजनाकार्याभिनिर्वृत्तिरिष्यते||७३||

अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||

देशस्त्वधिष्ठानम्||७५||

कालःपुनःपरिणामः||७६||

प्रवृत्तिस्तुखलुचेष्टाकार्यार्था; सैवक्रिया, कर्म, यत्नः, कार्यसमारम्भश्च||७७||

उपायःपुनस्त्रयाणांकारणादीनांसौष्ठवमभिविधानंचसम्यक्कार्यकार्यफलानुबन्धवर्ज्यानां, कार्याणामभिनिर्वर्तकइत्यतस्तूपायः ; कृतेनोपायार्थोऽस्ति, नचविद्यतेतदात्वे, कृताच्चोत्तरकालंफलं, फलाच्चानुबन्धइति||७८||

एतद्दशविधमग्रेपरीक्ष्यं, ततोऽनन्तरंकार्यार्थाप्रवृत्तिरिष्टा| तस्माद्भिषक्कार्यंचिकीर्षुःप्राक्कार्यसमारम्भात्परीक्षयाकेवलंपरीक्ष्यंपरीक्ष्यकर्मसमारभेतकर्तुम्||७९||

तत्रचेद्भिषगभिषग्वाभिषजंकश्चिदेवंखलुपृच्छेद्- वमनविरेचनास्थापनानुवासनशिरोविरेचनानिप्रयोक्तुकामेनभिषजाकतिविधयापरीक्षयाकतिविधमेवपरीक्ष्यं, कश्चात्रपरीक्ष्यविशेषः, कथंचपरीक्षितव्यः, किम्प्रयोजनाचपरीक्षा, क्वचवमनादीनांप्रवृत्तिः, क्वचनिवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगेचकिंनैष्ठिकं, कानिचवमनादीनांभेषजद्रव्याण्युपयोगंगच्छन्तीति||८०||

सएवंपृष्टोयदिमोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधाहिपरीक्षातथापरीक्ष्यविधिभेदः, कतमेनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाकेनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्यभेदाग्रंभवान्पृच्छत्याख्यायमानं ;नेदानींभवतोऽन्येनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाऽन्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्याभिलषितमर्थंश्रोतुमहमन्येनपरीक्षाविधिभेदेनान्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यंभित्त्वाऽ
न्यथाऽऽचक्षाणइच्छांपूरयेयमिति||८१||

सयदुत्तरंब्रूयात्तत्समीक्ष्योत्तरंवाच्यंस्याद्यथोक्तंचप्रतिवचनविधिमवेक्ष्य; सम्यक्यदितुब्रूयान्नचैनंमोहयितुमिच्छेत्, प्राप्तंतुवचनकालंमन्येत, काममस्मैब्रूयादाप्तमेवनिखिलेन||८२||

द्विविधातुखलुपरीक्षाज्ञानवतां- प्रत्यक्षम्, अनुमानंच| एतद्धिद्वयमुपदेशश्चपरीक्षास्यात्| एवमेषाद्विविधापरीक्षा, त्रिविधावासहोपदेशेन||८३||

दशविधंतुपरीक्ष्यंकारणादियदुक्तमग्रे, तदिहभिषगादिषुसंसार्यसन्दर्शयिष्यामः- इहकार्यप्राप्तौकारणंभिषक्, करणंपुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यंधातुसाम्यं, कार्यफलंसुखावाप्तिः, अनुबन्धःखल्वायुः, देशोभूमिरातुरश्च, कालःपुनःसंवत्सरश्चातुरावस्थाच, प्रवृत्तिःप्रतिकर्मसमारम्भः, उपायस्तुभिषगादीनांसौष्ठवमभिविधानंचसम्यक्| इहाप्यस्योपायस्यविषयःपूर्वेणैवोपायविशेषेणव्याख्यातः| इतिकारणादीनिदशदशसुभिषगादिषुसंसार्यसन्दर्शितानि, तथैवानुपूर्व्यैतद्दशविधंपरीक्ष्यमुक्तंच||८४||

तस्ययोयोविशेषोयथायथाचपरीक्षितव्यः, सतथातथाव्याख्यास्यते||८५||

कारणंभिषगित्युक्तमग्रे, तस्यपरीक्षा- भिषङ्नामयोभिषज्यति, यःसूत्रार्थप्रयोगकुशलः, यस्यचायुःसर्वथाविदितंयथावत्| सचसर्वधातुसाम्यंचिकीर्षन्नात्मानमेवादितःपरीक्षेतगुणिषुगुणतःकार्याभिनिर्वृत्तिंपश्यन्, कच्चिदहमस्यकार्यस्याभिनिर्वर्तनेसमर्थोनवेति; तत्रेमेभिषग्गुणायैरुपपन्नोभिषग्धातुसाम्याभिनिर्वर्तनेसमर्थोभवति; तद्यथा- पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञाताचेति||८६||

करणंपुनर्भेषजम्| भेषजंनामतद्यदुपकरणायोपकल्पतेभिषजोधातुसाम्याभिनिर्वृत्तौप्रयतमानस्यविशेषतश्चोपायान्तेभ्यः| तद्द्विविधंव्यपाश्रयभेदात्- दैवव्यपाश्रयं, युक्तिव्यपाश्रयंचेति|तत्रदैवव्यपाश्रयंमन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं- संशोधनोपशमनेचेष्टाश्चदृष्टफलाः| एतच्चैवभेषजमङ्गभेदादपिद्विविधं- द्रव्यभूतमः, अद्रव्यभूतंच| तत्रयदद्रव्यभूतंतदुपायाभिप्लुतम्| उपायोनामभयदर्शनविस्मापनविस्मारणक्षोभणहर्षणभर्त्सनवधबन्धस्वप्नसंवाहनादिरमूर्तोभावविशेषोयथोक्ताःसिद्ध्युपायाश्चोपायाभिप्लुताइति| यत्तुद्रव्यभूतंतद्वमनादिषुयोगमुपैति| तस्यापीयंपरीक्षा- इदमेवम्प्रकृत्यैवङ्गुणमेवम्प्रभावमस्मिन्देशेजातमस्मिन्नृतावेवंगृहीतमेवंनिहितमेवमुपस्कृतमनयाचमात्रयायुक्तमस्मिन्व्याधावेवंविधस्यपुरुषस्यैवतावन्तंदोषमपकर्षत्युपशमयतिवा, यदन्यदपिचैवंविधंभेषजंभवेत्तच्चानेनविशेषेणयुक्तमिति||८७||

कार्ययोनिर्धातुवैषम्यं, तस्यलक्षणंविकारागमः| परीक्षात्वस्यविकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणंविकारस्यचसाध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति||८८||

कार्यंधातुसाम्यं, तस्यलक्षणंविकारोपशमः| परीक्षात्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्यचाहारस्यकालेसम्यग्जरणं, निद्रालाभोयथाकालं, वैकारिणांचस्वप्नानामदर्शनं, सुखेनचप्रतिबोधनं, वातमूत्रपुरीषरेतसांमुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणांचाव्यापत्तिरिति||८९||

कार्यफलंसुखावाप्तिः, तस्यलक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||

अनुबन्धस्तुखल्वायुः, तस्यलक्षणं- प्राणैःसहसंयोगः||९१||

देशस्तुभूमिरातुरश्च||९२||

तत्रभूमिपरीक्षाआतुरपरिज्ञानहेतोर्वास्यादौषधपरिज्ञानहेतोर्वा| तत्रतावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयंकस्मिन्भूमिदेशेजातःसंवृद्धोव्याधितोवा; तस्मिंश्चभूमिदेशेमनुष्याणामिदमाहारजातम्, इदंविहारजातम्, इदमाचारजातम्, एतावच्चबलम्, एवंविधंसत्त्वम्, एवंविधंसात्म्यम्, एवंविधोदोषः, भक्तिरियम्, इमेव्याधयः, हितमिदम्, अहितमिदमितिप्रायोग्रहणेन| औषधपरिज्ञानहेतोस्तुकल्पेषुभूमिपरीक्षावक्ष्यते||९३||

आतुरस्तुखलुकार्यदेशः|

तस्यपरीक्षाआयुषःप्रमाणज्ञानहेतोर्वास्याद्, बलदोषप्रमाणज्ञानहेतोर्वा|

तत्रतावदियंबलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपोहिभेषजप्रमाणविकल्पोबलप्रमाणविशेषापेक्षोभवति|

सहसाह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; नह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणिवाशक्यन्तेऽल्पबलैःसोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानिसद्यःप्राणहराणिस्युः|

एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्चनारीः, ताह्यनवस्थितमृदुविवृतविक्लवहृदयाःप्रायःसुकुमार्योऽबलाःपरसंस्तभ्याश्च|

तथाबलवतिबलवद्व्याधिपरिगतेस्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेवभवति|

तस्मादातुरंपरीक्षेतप्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||

तत्रप्रकृत्यादीन्भावाननुव्याख्यास्यामः| तद्यथा- शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिंचगर्भशरीरमपेक्षते| एतानियेनयेनदोषेणाधिकेनैकेनानेकेनवासमनुबध्यन्ते, तेनतेनदोषेणगर्भोऽनुबध्यते; ततःसासादोषप्रकृतिरुच्यतेमनुष्याणांगर्भादिप्रवृत्ता| तस्माच्छ्लेष्मलाःप्रकृत्याकेचित्, पित्तलाःकेचित्, वातलाःकेचित्, संसृष्टाःकेचित्, समधातवःकेचिद्भवन्ति| तेषांहिलक्षणानिव्याख्यास्यामः||९५||

श्लेष्माहिस्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः| तस्यस्नेहाच्छ्लेष्मलाःस्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, माधुर्यात्प्रभूतशुक्रव्यवायापत्याः, सारत्वात्सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात्साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात्सुश्लिष्टसारसन्धिबन्धनाः, तथाऽच्छत्वात्प्रसन्नदर्शनाननाःप्रसन्नस्निग्धवर्णस्वराश्चभवन्ति| तएवङ्गुणयोगाच्छ्लेष्मलाबलवन्तोवसुमन्तोविद्यावन्तओजस्विनःशान्ताआयुष्मन्तश्चभवन्ति||९६||

पित्तमुष्णंतीक्ष्णंद्रवंविस्रमम्लंकटुकञ्च| तस्यौष्ण्यात्पित्तलाभवन्त्युष्णासहा, उष्णमुखाः, सुकुमारावदातगात्राः , प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात्प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; तएवङ्गुणयोगात्पित्तलामध्यबलामध्यायुषोमध्यज्ञानविज्ञानवित्तोपकरणवन्तश्चभवन्ति||९७||

वातस्तुरूक्षलघुचलबहुशीघ्रशीतपरुषविशदः| तस्यरौक्ष्याद्वातलारूक्षापचिताल्पशरीराःप्रततरूक्षक्षामसन्नसक्तजर्जरस्वराजागरूकाश्चभवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराःशीघ्रत्रासरागविरागाःश्रुतग्राहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवःप्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात्परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात्स्फुटिताङ्गावयवाःसततसन्धिशब्दगामिनश्चभवन्ति; तएवङ्गुणयोगाद्वातलाःप्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्चभवन्ति||९८||

संसर्गात्संसृष्टलक्षणाः||९९||

सर्वगुणसमुदितास्तुसमधातवः| इत्येवंप्रकृतितःपरीक्षेत||१००||

विकृतितश्चेतिविकृतिरुच्यतेविकारः| तत्रविकारंहेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्चपरीक्षेत, नह्यन्तरेणहेत्वादीनांबलविशेषंव्याधिबलविशेषोपलब्धिः| यस्यहिव्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यंभवति, महच्चहेतुलिङ्गबलं, सव्याधिर्बलवान्भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तुदोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते||१०१||

सारतश्चेतिसाराण्यष्टौपुरुषाणांबलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा- त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति||१०२||

तत्रस्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमासप्रभेवचत्वक्त्वक्साराणाम्| सासारतासुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वंचाचष्टे||१०३||

कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनंस्निग्धरक्तवर्णंश्रीमद्भ्राजिष्णुरक्तसाराणाम्| सासारतासुखमुद्धतांमेधांमनस्वित्वंसौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वंचाचष्टे||१०४||

शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयःस्थिरगुरुशुभमांसोपचितामांससाराणाम्| सासारताक्षमांधृतिमलौल्यंवित्तंविद्यांसुखमार्जवमारोग्यंबलमायुश्चदीर्घमाचष्टे||१०५||

वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषुविशेषतःस्नेहोमेदःसाराणाम्| सासारतावित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवंसुकुमारोपचारतांचाचष्टे||१०६||

पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाःस्थूलास्थिनखदन्ताश्चास्थिसाराः| तेमहोत्साहाःक्रियावन्तःक्लेशसहाःसारस्थिरशरीराभवन्त्यायुष्मन्तश्च||१०७||

मृद्वङ्गाबलवन्तःस्निग्धवर्णस्वराःस्थूलदीर्घवृत्तसन्धयश्चमज्जसाराः| तेदीर्घायुषोबलवन्तःश्रुतवित्तविज्ञानापत्यसम्मानभाजश्चभवन्ति||१०८||

सौम्याःसौम्यप्रेक्षिणःक्षीरपूर्णलोचनाइवप्रहर्षबहुलाःस्निग्धवृत्तसारसमसंहतशिखरदशनाःप्रसन्नस्निग्धवर्णस्वराभ्राजिष्णवोमहास्फिचश्चशुक्रसाराः| तेस्त्रीप्रियोपभोगा बलवन्तःसुखैश्वर्यारोग्यवित्तसम्मानापत्यभाजश्चभवन्ति||१०९||

स्मृतिमन्तोभक्तिमन्तःकृतज्ञाःप्राज्ञाःशुचयोमहोत्साहादक्षाधीराःसमरविक्रान्तयोधिनस्त्यक्तविषादाःसुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाःकल्याणाभिनिवेशिनश्चसत्त्वसाराः| तेषांस्वलक्षणैरेवगुणाव्याख्याताः||११०||

तत्रसर्वैःसारैरुपेताःपुरुषाभवन्त्यतिबलाःपरमसुखयुक्ताः] क्लेशसहाःसर्वारम्भेष्वात्मनिजातप्रत्ययाःकल्याणाभिनिवेशिनःस्थिरसमाहितशरीराःसुसमाहितगतयःसानुनादस्निग्धगम्भीरमहास्वराःसुखैश्वर्यवित्तोपभोगसम्मानभाजोमन्दजरसोमन्दविकाराः
प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च||१११||

अतोविपरीतास्त्वसाराः||११२||

मध्यानांमध्यैःसारविशेषैर्गुणविशेषाव्याख्याताभवन्ति||११३||

इतिसाराण्यष्टौपुरुषाणांबलप्रमाणविशेषज्ञानार्थमुपदिष्टानिभवन्ति||११४||

कथंनुशरीरमात्रदर्शनादेवभिषङ्मुह्येदयमुपचितत्वाद्बलवान्, अयमल्पबलःकृशत्वात्, महाबलोऽयंमहाशरीरत्वात्, अयमल्पशरीरत्वादल्पबलइति; दृश्यन्तेह्यल्पशरीराःकृशाश्चैकेबलवन्तः; तत्रपिपीलिकाभारहरणवत्सिद्धिः| अतश्चसारतःपरीक्षेतेत्युक्तम्] ||११५||

संहननतश्चेतिसंहननं, संहतिः], संयोजनमित्येकोऽर्थः| तत्रसमसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतंशरीरमित्युच्यते| तत्रसुसंहतशरीराःपुरुषाबलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात्संहननस्यमध्यबलाभवन्ति||११६||

प्रमाणतश्चेतिशरीरप्रमाणंपुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यतेउत्सेधविस्तारायामैर्यथाक्रमम्| तत्रपादौ] चत्वारिषट्चतुर्दशाङ्गुलानि, जङ्घेत्वष्टादशाङ्गुलेषोडशाङ्गुलपरिक्षेपेच, जानुनीचतुरङ्गुलेषोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुलपरिक्षेपावष्टादशाङ्गुलावूरु, षडङ्गुलदीर्घौवृषणावष्टाङ्गुलपरिणाहौ, शेफःषडङ्गुलदीर्घंपञ्चाङ्गुलपरिणाहं, द्वादशाङ्गुलिपरिणाहोभगः, षोडशाङ्गुलविस्ताराकटी, दशाङ्गुलंबस्तिशिरः, दशाङ्गुलविस्तारंद्वादशाङ्गुलमुदरं, दशाङ्गुलविस्तीर्णेद्वादशाङ्गुलायामेपार्श्वे, द्वादशाङ्गुलंस्तनान्तरं, द्व्यङ्गुलंस्तनपर्यन्तं, चतुर्विशत्यङ्गुलविशालंद्वादशाङ्गुलोत्सेधमुरः, द्व्यङ्गुलं] हृदयम्, अष्टाङ्गुलौस्कन्धौ, षडङ्गुलावंसौ, षोडशाङ्गुलौप्रबाहू, पञ्चदशाङ्गुलौप्रपाणी, हस्तौद्वादशाङ्गुलौ] , कक्षावष्टाङ्गुलौ, त्रिकंद्वादशाङ्गुलोत्सेधम्, अष्टादशाङ्गुलोत्सेधंपृष्ठं, चतुरङ्गुलोत्सेधाद्वाविंशत्यङ्गुलपरिणाहाशिरोधरा, द्वादशाङ्गुलोत्सेधंचतुर्विंशत्यङ्गुलपरिणाहमाननं, पञ्चाङ्गुलमास्यं, चिबुकौष्ठकर्णाक्षिमध्यनासिकाललाटंचतुरङ्गुलं, षोडशाङ्गुलोत्सेधंद्वात्रिंशदङ्गुलपरिणाहंशिरः; इतिपृथक्त्वेनाङ्गावयवानांमानमुक्तम्| केवलंपुनःशरीरमङ्गुलिपर्वाणिचतुरशीतिः| तदायामविस्तारसमंसमुच्यते| तत्रायुर्बलमोजःसुखमैश्वर्यंवित्तमिष्टाश्चापरेभावाभवन्त्यायत्ताःप्रमाणवतिशरीरे; विपर्ययस्त्वतोहीनेऽधिकेवा||११७||

सात्म्यतश्चेतिसात्म्यंनामतद्यत्सातत्येनोपसेव्यमानमुपशेते| तत्रयेघृतक्षीरतैलमांसरससात्म्याःसर्वरससात्म्याश्चतेबलवन्तःक्लेशसहाश्चिरजीविनश्चभवन्ति, रूक्षसात्म्याःपुनरेकरससात्म्याश्चयेतेप्रायेणाल्पबलाअल्पक्लेशसहाअल्पायुषोऽल्पसाधनाश्चभवन्ति, व्यामिश्रसात्म्यास्तुयेतेमध्यबलाःसात्म्यनिमित्ततोभवन्ति||११८||

सत्त्वतश्चेतिसत्त्वमुच्यतेमनः| तच्छरीरस्यतन्त्रकमात्मसंयोगात्| तत्त्रिविधंबलभेदेन- प्रवरं, मध्यम्, अवरंचेति; अतश्चप्रवरमध्यावरसत्त्वाःपुरुषाभवन्ति| तत्रप्रवरसत्त्वाःसत्त्वसारास्तेसारेषूपदिष्टाः, स्वल्पशरीराह्यपितेनिजागन्तुनिमित्तासुमहतीष्वपिपीडास्वव्यथा] दृश्यन्तेसत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय] संस्तम्भयन्त्यात्मनाऽऽत्मानंपरैर्वाऽपिसंस्तभ्यन्ते; हीनसत्त्वास्तुनात्मनानापिपरैःसत्त्वबलंप्रतिशक्यन्तेउपस्तम्भयितुं, महाशरीराह्यपितेस्वल्पानामपिवेदनानामसहादृश्यन्ते, सन्निहितभयशोकलोभमोहमानारौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपिचपशुपुरुषमांसशोणितानिचावेक्ष्यविषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवामरणमिति||११९||

आहारशक्तितश्चेतिआहारशक्तिरभ्यवहरणशक्त्याजरणशक्तयाचपरीक्ष्या; बलायुषीह्याहारायत्ते||१२०||

व्यायामशक्तितश्चेतिव्यायामशक्तिरपिकर्मशक्त्यापरीक्ष्या| कर्मशक्त्याह्यनुमीयतेबलत्रैविध्यम् ||१२१||

वयस्तश्चेतिकालप्रमाणविशेषापेक्षिणीहिशरीरावस्थावयोऽभिधीयते| तद्वयोयथास्थूलभेदेनत्रिविधं- बालं, मध्यं, जीर्णमिति| तत्रबालमपरिपक्वधातुमजातव्यञ्जनंसुकुमारमक्लेशसहमसम्पूर्णबलंश्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणंपुनःप्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यंपुनःसमत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणंबलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणंपित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतःपरं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानंभ्रश्यमानधातुगुणंवायुधातुप्रायंक्रमेणजीर्णमुच्यतेआवर्षशतम्| वर्षशतंखल्वायुषःप्रमाणमस्मिन्काले; सन्तिचपुनरधिकोनवर्षशतजीविनोऽपिमनुष्याः; तेषांविकृतिवर्ज्यैःप्रकृत्यादिबलविशेषैरायुषोलक्षणतश्चप्रमाणमुपलभ्यवयसस्त्रित्वंविभजेत्||१२२||

एवंप्रकृत्यादीनांविकृतिवर्ज्यानांभावानांप्रवरमध्यावरविभागेनबलविशेषंविभजेत्| विकृतिबलत्रैविध्येनतुदोषबलंत्रिविधमनुमीयते| ततोभैषज्यस्यतीक्ष्णमृदुमध्यविभागेनत्रैविध्यंविभज्ययथादोषंभैषज्यमवचारयेदिति||१२३||

आयुषःप्रमाणज्ञानहेतोःपुनरिन्द्रियेषु] जातिसूत्रीयेचलक्षणान्युपदेक्ष्यन्ते||१२४||

कालःपुनःसंवत्सरश्चातुरावस्थाच| तत्रसंवत्सरोद्विधात्रिधाषोढाद्वादशधाभूयश्चाप्यतःप्रविभज्यतेतत्तत्कार्यमभिसमीक्ष्य| अत्रखलुतावत्षोढाप्रविभज्यकार्यमुपदेक्ष्यते- हेमन्तोग्रीष्मोवर्षाश्चेतिशीतोष्णवर्षलक्षणास्त्रयऋतवोभवन्ति, तेषामन्तरेष्वितरेसाधारणलक्षणास्त्रयऋतवः- प्रावृट्शरद्वसन्ताइति| प्रावृडितिप्रथमःप्रवृष्टःकालः, तस्यानुबन्धोहिवर्षाः| एवमेतेसंशोधनमधिकृत्यषट्विभज्यन्तेऋतवः||१२५||

तत्रसाधारणलक्षणेष्वृतुषुवमनादीनांप्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणाहिमन्दशीतोष्णवर्षत्वात्सुखतमाश्चभवन्त्यविकल्पकाश्चशरीरौषधानाम्, इतरेपुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवन्तिविकल्पकाश्चशरीरौषधानाम्||१२६||

तत्रहेमन्तेह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नंभवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषंच, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमयोगायोपपद्यतेशरीरमपिचवातोपद्रवाय| ग्रीष्मेपुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नंभवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमतियोगायोपपद्यतेशरीरमपिपिपासोपद्रवाय| वर्षासुतुमेघजलावततेगूढार्कचन्द्रतारेधाराकुलेवियतिभूमौपङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषुभूतेषुविहतस्वभावेषुचकेवलेष्वौषधग्रामेषुतोयतोयदानुगतमारुतसंसर्गाद्गुरुप्रवृत्तीनिवमनादीनिभवन्ति, गुरुसमुत्थानानिचशरीराणि| तस्माद्वमनादीनांनिवृत्तिर्विधीयतेवर्षान्तेष्वृतुषु , नचेदात्ययिकंकर्म| आत्ययिकेपुनःकर्मणिकाममृतुंविकल्प्यकृत्रिमगुणोपधानेनयथर्तुगुणविपरीतेनभेषजंसंयोगसंस्कारप्रमाणविकल्पेनोपपाद्यप्रमाणवीर्यसमंकृत्वाततःप्रयोजयेदुत्तमेनयत्नेनावहितः||१२७||

आतुरावस्थास्वपितुकार्याकार्यंप्रतिकालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्यभेषजस्याकालः, कालःपुनरन्यस्येति; एतदपिहिभवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपिहिकालाकालसञ्ज्ञा| तस्यपरीक्षा- मुहुर्मुहुरातुरस्यसर्वावस्थाविशेषावेक्षणंयथावद्भेषजप्रयोगार्थम्| नह्यतिपतितकालमप्राप्तकालंवाभेषजमुपयुज्यमानंयौगिकंभवति; कालोहिभैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||

प्रवृत्तिस्तुप्रतिकर्मसमारम्भः| तस्यलक्षणंभिषगौषधातुरपरिचारकाणांक्रियासमायोगः||१२९||

उपायःपुनर्भिषगादीनांसौष्ठवमभिविधानंचसम्यक्| तस्यलक्षणं- भिषगादीनांयथोक्तगुणसम्पत्देशकालप्रमाणसात्म्यक्रियादिभिश्चसिद्धिकारणैःसम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||

एवमेतेदशपरीक्ष्यविशेषाःपृथक्पृथक्परीक्षितव्याभवन्ति||१३१||

परीक्षायास्तुखलुप्रयोजनंप्रतिपत्तिज्ञानम्प्रतिपत्तिर्नामयोविकारोयथाप्रतिपत्तव्यस्तस्यतथाऽनुष्ठानज्ञानम्||१३२||

यत्रतुखलुवमनादीनांप्रवृत्तिः, यत्रचनिवृत्तिः, तद्व्यासतःसिद्धिषूत्तरमुपदेक्ष्यामः||१३३||

प्रवृत्तिनिवृत्तिलक्षणसंयोगेतुगुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदन्यतरनिष्ठायाम्सन्तिहिव्याधयःशास्त्रेषूत्सर्गापवादैरुपक्रमंप्रतिनिर्दिष्टाः| तस्माद्गुरुलाघवंसम्प्रधार्यसम्यगध्यवस्येदित्युक्तम्||१३४||

यानितुखलुवमनादिषुभेषजद्रव्याण्युपयोगंगच्छन्तितान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणिआरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||

विरेचनद्रव्याणितुश्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनांक्षीरमूलत्वक्पत्रपुष्पफलानियथायोगंतैस्तैःक्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः , अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च,सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनांचक्षीरमूत्रैर्यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्र(वि)कारान्विविधांश्चयोगाननुविधाययथार्हंविरेच
नार्हायदद्याद्विरेचनम्| इतिकल्पसङ्ग्रहोविरेचनद्रव्याणाम्| कल्पमेषांविस्तरेणयथावदुत्तरकालमुपदेक्ष्यामः||१३६||

आस्थापनेषुतुभूयिष्ठकल्पानिद्रव्याणियानियोगमुपयान्तितेषुतेष्ववस्थान्तरेष्वातुराणां, तानिद्रव्याणिनामतोविस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानिस्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टंचकेवलंज्ञानं, तस्माद्रसतएवतान्यत्रव्याख्यास्यामः| ससंसर्गविकल्पविस्तरोह्येषामपरिसङ्ख्येयः, समवेतानांरसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणांचैकदेशमुदाहरणार्थंरसेष्वनुविभज्यरसैकैकश्येनचनामलक्षणार्थंषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्यास्तन्ते||१३७||

यत्तुषड्विधमास्थापनमेकरसमित्याचक्षतेभिषजः, तद्दुर्लभतमंसंसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्| तस्मान्मधुराणिमधुरप्रायाणिमधुरविपाकानिमधुरप्रभावाणिचमधुरस्कन्धेमधुराण्येवकृत्वोपदेक्ष्यन्ते, तथेतराणिद्रव्याण्यपि||१३८||

तद्यथा-

जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदे
वाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जू
रंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजी
वनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासत
तमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||

आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतक- तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानांफलानि, पत्राणिचाम्रातकाश्मन्तकचाङ्गेरीणांचतुर्विधानांचाम्लिकानांद्वयोश्चकोलयोश्चामशुष्कयोर्द्वयोश्चैवशुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणिचसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनिच, एषामेवंविधानामन्येषांचाम्लवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाद्रवैःस्थाल्यामभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावत्तैलवसामज्जलवणफाणितोपहितंसु
खोष्णंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्| इत्यम्लस्कन्धः||१४०||

सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवम्प्रकाराणिचान्यानिलवणवर्गपरिसङ्ख्यातानि, एतान्यम्लोपहितान्युष्णोदकोपहितानिवास्नेहवन्तिसुखोष्णंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्| इतिलवणस्कन्धः||१४१||

पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्प
भूस्तृणसुमखसुरसकुठेरकार्जक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानांचान्येषांकटुकवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वागोमूत्रेणसहसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारि
णेविधिज्ञोविधिवद्दद्यात्| इतिकटुकस्कन्धः||१४२||

चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाको
दुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिं
श्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||

प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवटकपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिरसप्तप
र्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंशपद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककम्भीपु
ष्करबीज- बिसमृणालतालखर्जूरतरुणानीति , एषामेवंविधानांचान्येषांकषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंब
स्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेदद्यात्| इतिकषायस्कन्धः||१४४||

तत्रश्लोकाः-

षड्वर्गाःपरिसङ्ख्यातायएतेरसभेदतः| आस्थापनमभिप्रेत्यतान्विद्यात्सार्वयौगिकान्||१४५||

सर्वशोहिप्रणिहिताःसर्वरोगेषुजानता| सर्वान्रोगान्नियच्छन्तियेभ्यआस्थापनंहितम्||१४६||

येषांयेषांप्रशान्त्यर्थंयेयेनपरिकीर्तिताः| द्रव्यवर्गाविकाराणांतेषांतेपरिकोपकाः||१४७||

इत्येतेषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्याताः||१४८||

तेभ्योभिषग्बुद्धिमान्परिसङ्ख्यातमपियद्यद्द्रव्यमयौगिकंमन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपियौगिकंमन्येत, तत्तद्विदध्यात्; वर्गमपिवर्गेणोपसंसृजेदेकमेकेनानेकेनवायुक्तिंप्रमाणीकृत्य| प्रचरणमिवभिक्षुकस्यबीजमिवकर्षकस्यसूत्रंबुद्धिमतामल्पमप्यनल्पज्ञानायभवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तुयथोक्तानुगमनमेवश्रेयः| यथोक्तंहिमार्गमनुगच्छन्भिषक्संसाधयतिकार्यमनतिमहत्त्वाद्वाविनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति||१४९||

अतःपरमनुवासनद्रव्याण्यनुव्याख्यास्यामः| अनुवासनंतुस्नेहएव| स्नेहस्तुद्विविधः- स्थावरात्मकः, जङ्गमात्मकश्च| तत्रस्थावरात्मकःस्नेहस्तैलमतैलंच| तद्द्वयंतैलमेवकृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्| जङ्गमात्मकस्तुवसा, मज्जा, सर्पिरिति| तेषांतैलवसामज्जसर्पिषांयथापूर्वंश्रेष्ठंवातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरंतुपित्तविकारेषु, सर्वएववासर्वविकारेष्वपियोगमुपयान्तिसंस्कारविधिविशेषादिति||१५०||

शिरोविरेचनद्रव्याणिपुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपिल्वजाज्यमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च,सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकलशुनतर्कारीसर्षपपत्राणिच,अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्प्यवाक्पुष्पीवृश्चिकाली
वयस्थातिविषामूलानिच, हरिद्राशृङ्गवेरमूलकलशुनकन्दाश्च, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणिच, देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च, तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति| शिरोविरेचनंसप्तविधं, फल-पत्र-मूल-कन्द-पुष्प-निर्यास-त्वगाश्रयभेदात्| लवणकटुतिक्तकषायाणिचेन्द्रियोपशयानितथाऽपराण्यनुक्तान्यपिद्रव्याणियथायोगविहितानिशिरोविरेचनार्थमुपदिश्यन्तइति||१५१||

तत्रश्लोकाः

लक्षणाचार्यशिष्याणांपरीक्षाकारणंचयत्| अध्येयाध्यापनविधीसम्भाषाविधिरेवच||१५२||

षड्भिरूनानिपञ्चाशद्वादमार्गपदानिच| पदानिदशचान्यानिकारणादीनितत्त्वतः||१५३||

सम्प्रश्नश्चपरीक्षादेर्नवकोवमनादिषु| भिषग्जितीयेरोगाणांविमानेसम्प्रकाशितः||१५४||

बहुविधमिदमुक्तमर्थजातंबहुविधवाक्यविचित्रमर्थकान्तम्| बहुविधशुभशब्दसन्धियुक्तंबहुविधवादनिसूदनंपरेषाम्||१५५||

इमांमतिंबहुविधहेतुसंश्रयांविजज्ञिवान्परमतवादसूदनीम्| नसज्जतेपरवचनावमर्दनैर्नशक्यतेपरवचनैश्चमर्दितुम्||१५६||

दोषादीनांतुभावानांसर्वेषामेवहेतुमत्| मानात्सम्यग्विमानानिनिरुक्तानिविभागशः||१५७||

इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेविमानस्थाने रोगभिषग्जितीयविमानंनामाष्टमोऽध्यायः||||

(अग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृते| अनेनावधिनास्थानंविमानानांसमर्थितम्|)|

 

 

Post a Comment

0 Comments