Advertisement

Responsive Advertisement

Charak Vimaan Sthan Chapter 2 trividhkukshiyam Vimanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातस्त्रिविधकुक्षीयं विमानं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

त्रिविधं कुक्षौ स्थापयेदवकाशांशमाहारस्याहारमुपयुञ्जानः;

तद्यथा- एकमवकाशांशं मूर्तानामाहारविकाराणाम्,

एकं द्रवाणाम्,

एकं पुनर्वातपित्तश्लेष्मणाम्;

एतावतीं ह्याहारमात्रामुपयुञ्जानो नामात्राहारजं किञ्चिदशुभं प्राप्नोति||||

न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां प्रविभक्तफलत्वात्||||

तत्रायं तावदाहारराशिमधिकृत्य मात्रामात्राफलविनिश्चयार्थः प्रकृतः| एतावानेव ह्याहारराशिविधिविकल्पो यावन्मात्रावत्त्वममात्रावत्त्वं च||||

तत्र मात्रावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, तद्भूयो विस्तरेणानुव्याख्यास्यामः|

तद्यथा- कुक्षेरप्रणीडनमाहारेण, हृदयस्यानवरोधः, पार्श्वयोरविपाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणां, क्षुत्पिपासोपरमः,

स्थानासनशयनगमनोच्छ्वासप्रश्वासहास्यसङ्कथासु सुखानुवृत्तिः, सायं प्रातश्च सुखेन परिणमनं, बलवर्णोपचयकरत्वं च;

इति मात्रावतो लक्षणमाहारस्य भवति||||

अमात्रावत्त्वं पुनर्द्विविधमाचक्षते- हीनम्, अधिकं च|

तत्र हीनमात्रमाहारराशिं बलवर्णोपचयक्षयकरमतृप्तिकरमुदावर्तकरमनायुष्यवृष्यमनौजस्यं शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमलक्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते,

अतिमात्रं पुनः सर्वदोषप्रकोपणमिच्छन्ति कुशलाः|

यो हि मूर्तानामाहारजातानां सौहित्यं गत्वा द्रवैस्तृप्तिमापद्यते भूयस्तस्यामाशयगता वातपित्तश्लेष्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्यमानाः सर्वे युगपत् प्रकोपमापद्यन्ते,

ते प्रकुपितास्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्येकदेशमन्नाश्रिता विष्टम्भयन्तः सहसा वाऽप्युत्तराधराभ्यां मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथगिमान् विकारानभिनिर्वर्तयन्त्यतिमात्रभोक्तुः|

तत्र वातः शूलानाहाङ्गमर्दमुखशोषमूर्च्छाभ्रमाग्निवैषम्यपार्श्वपृष्ठकटिग्रहसिराकुञ्चनस्तम्भनानि करोति,

पित्तं पुनर्ज्वरातीसारान्तर्दाहतृष्णामदभ्रमप्रलपनानि,

श्लेष्मा तु छर्द्यरोचकाविपाकशीतज्वरालस्यगात्रगौरवाणि||||

न च खलु केवलमतिमात्रमेवाहारराशिमामप्रदोषकरमिच्छन्ति अपि

तु खलु गुरुरूक्षशीतशुष्कद्विष्टविष्टम्भिविदाह्यशुचिविरुद्धानामकाले

चान्नपानानामुपसेवनं,कामक्रोधलोभमोहेर्ष्याह्रीशोकमानोद्वेगभयोपतप्तमनसा वा यदन्नपानमुपयुज्यते,

तदप्याममेव प्रदूषयति||||

भवति चात्र-

मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति|

चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः||||

तं द्विविधमामप्रदोषमाचक्षते भिषजः- विसूचिकाम्, अलसकं च||१०||

तत्र विसूचिकामूर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्||११||

अलसकमुपदेक्ष्यामः-

दुर्बलस्याल्पाग्नेर्बहुश्लेष्मणो वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्षशीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्लेष्मणा

च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न बहिर्मुखीभवति,

ततश्छर्द्यतीसारवर्ज्यान्यामप्रदोषलिङ्गान्यभिदर्शयत्यतिमात्राणि अतिमात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्यग्गच्छन्तः कदाचिदेव केवलमस्य शरीरं दण्डवत् स्तम्भयन्ति,

ततस्तं दण्डालसकमसाध्यं ब्रुवते|

विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमित्याचक्षते भिषजः,

विषसदृशलिङ्गत्वात्; तत् परमसाध्यम्, आशुकारित्वाद्विरुद्धोपक्रमत्वाच्चेति||१२||

तत्र साध्यमामं प्रदुष्टमलसीभूतमुल्लेखयेदादौ पाययित्वा सलवणमुष्णं वारि, विसूचिकायां स्वेदनवर्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम्| ततः लङ्घनमेवाग्रे विरिक्तवच्चानुपूर्वी|

आमप्रदोषेषु त्वन्नकाले जीर्णाहारं पुनर्दोषावलिप्तामाशयं स्तिमितगुरुकोष्ठमनन्नाभिलाषिणमभिसमीक्ष्य आमप्रदोषदुर्बलो च, नत्वेवाजीर्णाशनम्;

पाययेद्दोषशेषपाचनार्थमौषधमग्निसन्धुक्षणार्थं ह्यग्निर्नयुगपद्दोषमौषधमाहारजातं च पक्तुम्|

शक्तः अपि पुनर्विकाराणामपतर्पणेनैवोपरमो सहसैवातुरमबलमतिपातयेत्|

आमप्रदोषजानां चामप्रदोषाहारौषधविभ्रमोऽतिबलत्वादुपरतकायाग्निं भवति, सति त्वनुबन्धे कृतापतर्पणानां व्याधीनां निग्रहे निमित्तविपरीतमपास्यौषधमातङ्कविपरीतमेवावचारयेद्यथास्वम्|सर्वविकाराणामपि च निग्रहे वा|

कुशलाः, तदर्थकारि हेतुव्याधिविपरीतमौषधमिच्छन्ति विमुक्तामप्रदोषस्य पुनः परिपक्वदोषस्य दीप्ते चाग्नावभ्यङ्गास्थापनानुवासनं विधिवत् स्नेहपानं च युक्त्या प्रयोज्यं प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहार सात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराण विकारांश्च सम्यगिति||१३||

भवति चात्र-

आहारविध्यायतनानि चाष्टौ सम्यक् परीक्ष्यात्महितं विदध्यात्|

अन्यश्च यः कश्चिदिहास्ति मार्गो हितोपयोगेषु भजेत तं च||१४||

अशितं खादितं पीतं लीढं च क्व विपच्यते|

एतत्त्वां धीर! पृच्छामस्तन्न आचक्ष्व बुद्धिमन्||१५||

इत्यग्निवेशप्रमुखैः शिष्यैः पृष्टः पुनर्वसुः|

आचचक्षे ततस्तेभ्यो यत्राहारो विपच्यते||१६||

नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|

अशितं खादितं पीतं लीढं चात्र विपच्यते||१७||

आमाशयगतः पाकमाहारः प्राप्य केवलम्|

पक्वः सर्वाशयं पश्चाद्धमनीभिः प्रपद्यते||१८||

तत्र श्लोकः-

तस्य मात्रावतो लिङ्गं फलं चोक्तं यथायथम्|

अमात्रस्य तथा लिङ्गं फलं चोक्तं विभागशः||१९||

 

Post a Comment

0 Comments