For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो जनपदोद्ध्वंसनीयं
विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते
काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे
गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३||
दृश्यन्ते हि खलु सौम्य! नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां
दिशां चाप्रकृतिभूतानामृतुवैकारिका भावाः, अचिरादितो भूरपि च न
यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता| तस्मात्
प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य! भैषज्यानि
यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति| वयं
षांरसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च
वयमनुकाङ्क्षामः| न हि सम्यगुद्धृतेषु सौम्य! भैषज्येषु
सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किञ्चित्
प्रतीकारगौरवं भवति||४||
एवं वादिनं भगवन्तमात्रेयमग्निवेश उवाच-उद्धृतानि
खलु भगवन्! भैषज्यानि, सम्यग्विहितानि, सम्यगवचारितानि
च; अपि तु खलु
जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां
मनुष्याणां कस्माद्भवतीति||५||
तमुवाच भगवानात्रेयः- एवमसामान्यावतामप्येभिरग्निवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां
येऽन्ये वाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च
व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति| ते तु खल्विमे भावाः सामान्या
जनपदेषु भवन्ति;
तद्यथा- वायुः, उदकं, देशः,काल इति||६||
तत्र वातमेवंविधमनारोग्यकरं विद्यात्; तद्यथा
यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरूक्षमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत- परस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहतमिति
(१);
उदकं तु
खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शंक्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमपगतगुणं
विद्यात् (२);
देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं
क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिजम्बूकादिभिस्तृणोलूपोपवनवन्तं
प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यंधूम्रपवनं
प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगणमुद्भ्रान्तव्यथितविविधमृगपक्षिसङ्घमुत्सृष्टनष्टधर्मसत्यलज्जाचाशीलगुणजनपदं
शश्वत्क्षुभितोदीर्णसलिलाशयं प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं
ससम्भ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं
चाहितं विद्यात् (३);
कालं तु खलु
यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् (४); इमानेवन्दोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान्
वदन्ति कुशलाः;
अतोऽन्यथाभूतांस्तु
हितानाचक्षते||७||
विगुणेष्वपि खल्वेतेषु
जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति||८||
वैगुण्यमुपपन्नानां
देशकालानिलाम्भसाम्।गरीयस्त्वं विशेषेण हेतुमत् संप्रवक्ष्यते ॥९॥
वाताज्जलं जलाद्देशं देशात्
कालं स्वभावतः| विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित्
"||१०||
वाय्वादिषु यथोक्तानां
दोषाणां तु विशेषवित्| प्रतीकारस्य सौकर्ये
विद्याल्लाघवलक्षणम्||११||
कालान्तेषु यदा नराः| भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा||१२||
येषां न मृत्युसामान्यं
सामान्यं न च कर्मणाम्| कर्म पञ्चविधं तेषां भेषजं
परमुच्यते||१३||
रसायनानां विधिवच्चोपयोगः
शस्यते| शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः||१४||
सत्यं भूते दया दानं बलयो
देवतार्चनम्| सद्धृत्तस्यानुवृत्तिश्च
प्रशमो गुप्तिरात्मनः||१५||
हितं जनपदानां च
शिवानामुपसेवनम्| सेवनं ब्रह्मचर्यस्य तथैव
ब्रह्मचारिणाम्||१६||
सङ्कथा धर्मशास्त्राणां
महर्षीणां जितात्मनाम्| धार्मिकैः
सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतैः||१७||
त्येतद्भेषजं प्रोक्तमायुषः
परिपालनम्| येषामनियतो मृत्युस्तस्मिन्
काले सुदारुणे||१८||
इति श्रुत्वा
जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच- अथ खलु भगवन्!
कुतोमूलमेषां वाय्वादीनांवैगुण्यमुत्पद्यते? येनोपपन्ना
जनपदमुद्ध्वंसयन्तीति||१९||
तमुवाच भगवानात्रेयः-
सर्वेषामप्यग्निवेश! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म पूर्वकृतं; तयोर्योनिः प्रज्ञापराध एव| तद्यथा- यदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रम्याधर्मेण प्रजां
वर्तयन्ति, तदाश्रितोपाश्रिताः रजनपदा
व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, ततः सोऽधर्मः प्रसभं
धर्ममन्तर्धत्ते, तस्तेऽन्तर्हितधर्माणो
देवताभिरपि त्यज्यन्ते; तेषां
थाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्यापद्यन्ते; तेन नापो यथाकालं देवो र्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, तिर्व्यापद्यते, लिलान्युपशुष्यन्ति,
ओषधयः स्वभावं
परिहायापद्यन्ते विकृतिं; तत उद्ध्वंसन्ते जनपदाः
श्याभ्यवहार्यदोषात् ||२०||
तथा शस्त्रप्रभवस्यापि
जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति| येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते
दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वाऽभिक्रामन्ति, परैर्वाऽभिक्राम्यन्ते||२१||
रक्षोगणादिभिर्वा विधै
र्भूतसङ्घै स्तमधर्ममन्यद्वाऽप्य पचारान्तरम उपलभ्याभिहन्यन्ते||२२||
तथाऽभिशापप्रभवस्याप्यधर्म
एव हेतुर्भवति| ये लुप्तधर्माणो
र्मादपेतास्ते रुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चापरे ||२३||
प्रागपि चाधर्मादृते
नाशुभोत्पत्तिरन्यतोऽभूत्| आदिकाले
ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः
शैलसारसंहतस्थिरशरीराः प्रसन्नवर्णेन्द्रियाः पवनसमबल जवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तःसत्यार्जवानृशंस्यदानदमनियमतपोपवासब्रह्मचर्यव्रतपरा
व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च
पुरुषा बभूवुरमितायुषः| तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि
प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ| भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां सत्त्वानां
शरीरगौरवमासीत्, शरीरगौरवाच्छ्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः,
परिग्रहाल्लोभः
प्रादुरासीत् कृते| ततस्त्रेतायां
लोभादभिद्रोहः, अभिद्रोहानृतवचनम्, अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः
प्रवृत्ताः| ततस्त्रेतायां
धर्मपादोऽन्तर्धानमगमत्| तस्यान्तर्धानात्
युगवर्षप्रमाणस्य पादह्रासः, पृथिव्यादेश्च
गुणपादप्रणाशोऽभूत्| तत्प्रणाशकृतश्च शस्यानां
स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रांशः| ततस्तानि प्रजाशरीराणि
हीयमानगुणपादै राहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि
प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि| अतः प्राणिनो
ह्रासमवापुरायुषः क्रमश इति||२४||
भवतश्चात्र- युगे युगे धर्मपादः
क्रमेणानेन हीयते| गुणपादश्च भूतानामेवं लोकः
प्रलीयते||२५||
संवत्सरशते पूर्णे याति
संवत्सरः क्षयम्| देहिनामायुषः काले यत्र
यन्मानमिष्यते||२६||
इति विकाराणां
प्रागुत्पत्तिहेतुरुक्तो भवति||२७||
एवंवादिनं भगवन्तमग्निवेश
उवाच- किन्नु खलु भगवन्! नियतकालप्रमाणमायुः सर्वं न ति||२८||
तं भगवानुवाच- इहाग्निवेश!
भूतानामायुर्युक्तिमपेक्षते| दैवे पुरुषकारे च स्थितं
ह्यस्य बलाबलम्||२९||
दैवमात्मकृतं विद्यात् कर्म
यत् पौर्वदैहिकम्| स्मृतः पुरुषकारस्तु
क्रियते यदिहापरम्||३०||
बलाबलविशेषोऽस्ति तयोरपि च
कर्मणोः| दृष्टं हि त्रिविधं कर्म
हीनं मध्यममुत्तमम्||३१||
तयोरुदारयोर्युक्तिर्दीर्घस्य
च सुखस्य च| नियतस्यायुषो
हेतुर्विपरीतस्य चेतरा||३२||
मध्यमा मध्यमस्येष्टा कारणं
शृणु चापरम्|३३| दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते||३३||
दैवेन चेतरत् कर्म
विशिष्टेनोपहन्यते| दृष्ट्वा यदेके मन्यन्ते
नियतं मानमायुषः||३४||
कर्म किञ्चित् क्वचित् काले
विपाके नियतं महत्| किञ्चित्त्वकालनियतं
प्रत्ययैः प्रतिबोध्यते||३५||
तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु| निदर्शनमपि
चात्रोदाहरिष्यमः- यदि हि नियतकालप्रमाणमायुः सर्वं
स्यात्,
तदाऽऽयुष्कामाणां
न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनाद्याः
या इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोजोष्ट्रखरतुरगमहिषादयः
पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः, तथा न
प्रमत्तोन्मत्तोद्भान्तचण्डचपलमोहलोभाकुलमतयः, नारयः, न
प्रवृद्धोऽग्निः, च विविधविषाश्रयाः रीसृपोरगादयः, न साहसं, नादेशकालचर्या, न
नरेन्द्रप्रकोप ति; एवमादयो हि भावा नाभावकराः स्युः, आयुषः
सर्वस्य नियतकालप्रमाणत्वात्|न
चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्रणिनां, व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः
स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं
भेषजेनोपपादयेतां , न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः, न च
विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा| अपि च
सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षुः , इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा- पुरुषसहस्राणामुत्थायोत्थायाहवं
कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात्
प्रतीकाराच्च,
अविषविषप्राशिनां
चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां
चोत्सीदतां; तस्माद्धितोपचारमूलं
जीवितम्, अतो
विपर्ययान्मृत्युः| अपि च देशकालात्मगुणविपरीतानां
कर्मणामाहारविकाराणां च क्रमोपयोगः सम्यक्, त्यागः सर्वस्य
चातियोगायोगमिथ्यायोगानां, सर्वातियोगसन्धारणम् , असन्धारणमुदीर्णानां
च गतिमतां, साहसानां च
वर्जनम्, आरोग्यानुवृत्तौ
हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति||३६||
परमग्निवेश उवाच- एवं
सत्यनियतकालप्रमाणायुषां भगवन्! कथं कालमृत्युरकालमृत्युर्वाभवतीति||३७||
तमुवाच भगवानात्रेयः-
श्रूयतामग्निवेश! यथा
यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं
स्वप्रमाणक्षयादेवावसानं गच्छेत्,
तथाऽऽयुः शरीरोपगतं
बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले| यथा च स
एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाहकदोषादणिमोक्षादनुपाङ्गात्
पर्यसनाच्चान्तराऽवसानमापद्यते,
तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यावहरणाद्विषमशरीरन्यासादतिमैथुनासत्संश्रयादुदीर्ण-
वेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽसानमापद्यते, स मृत्युरकाले; तथा
ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति||३८||
अथाग्निवेशः पप्रच्छ-
किन्नु खलु भगवन्! ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा
शीतम्, अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति||३९||
तमुवाच भगवानात्रेयः-
ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः| ज्वरो ह्यामाशयसमुत्थः, प्रायो भेषजानि
चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्यः
प्रयच्छन्ति भिषजो भूयिष्ठम्| तद्धि तेषां पीतं वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं
तृष्णाप्रशमनायोपकल्पते; तथायुक्तमपि
चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीतेन चोपशाम्यन्तीति||४०||
भवति चात्र-
शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः| ये तु शीतकृता
रोगास्तेषामुष्णं भिषग्जितम्||४१||
एवमितरेषामपि व्याधीनां
निदानविपरीतं भेषजं भवति; यथा- अपतर्पणनिमित्तानां
व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां
नान्तरेणापतर्पणम्||४२||
अपतर्पणमपि च त्रिविधं-
लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति||४३||
तत्र लङ्घनमल्पबलदोषाणां , लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः
प्रशोषमापद्यते; लङ्घनपाचने तु
मध्यबलदोषाणां, लङ्घनपाचनाभ्यां हि
सूर्यसन्तापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः
प्रशोषमापद्यते; बहुदोषाणां
पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ
पल्वलाप्रसेकोऽस्ति, तद्वद्दोषावसेचनम्||४४||
दोषावसेचनमन्यद्वा भेषजं
प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्| तद्यथा- अनपवादप्रतीकारस्याधनस्यापरिचारकस्य
वैद्यमानिनश्चण्डस्यासूयकस्य
तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य
चेति| एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा
योगमृच्छतीति||४५||
भवति चात्र- तदात्वे
चानुबन्धे वा यस्य स्यादशुभं फलम्| कर्मणस्तन्न
कर्तव्यमेतद्बुद्धिमतां मतम्||४६||
(अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः| ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च||४७||
प्रचुरोदकवृक्षो यो निवातो
दुर्लभातपः| अनूपो बहुदोषश्च, समः साधारणो मतः)||४८||
तत्र श्लोकाः- पूर्वरूपाणि
सामान्या हेतवः सस्वलक्षणाः| देशोद्ध्वंसस्य भैषज्यं
हेतूनां मूलमेव च||४९||
प्राग्विकारसमुत्पत्तिरायुषश्च
क्षयक्रमः| मरणं प्रति भूतानां
कालाकालविनिश्चयः||५०||
यथा चाकालमरणं यथायुक्तं च
भेषजम्| सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना||५१||
तदात्रेयोऽग्निवेशाय निखिलं
सर्वमुक्तवान्| देशोद्ध्वंसनिमित्तीये
विमाने मुनिसत्तमः||५२||
इत्यग्निवेशकृते तन्त्रे
चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||
0 Comments