For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो रसविमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसङ्ख्याप्राधान्यविधिविकल्प बलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकालबलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा, दोषादिमानज्ञानायत्तत्वात् क्रियायाः|
न ह्यमानज्ञो दोषादीनां भिषग् व्याधिनिग्रहसमर्थो भवति|
तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश! ||३||
तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः|
रसास्तावत् षट्- मधुराम्ललवणकटुतिक्तकषायाः|
ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति, मिथ्योपयुज्यमानास्तु खलु
दोषप्रकोपायोपकल्पन्ते||४||
दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः|
ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति||५||
तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति|
तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति;
कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति;
मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति||६||
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति
ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति|
एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्||७||
संसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयो भवति, विकल्पभेदापरिसङ्ख्येयत्वात्||८||
तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयोः प्रभावतत्त्वं व्यवस्येत्||९||
न त्वेवं खलु सर्वत्र|
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्||१०||
तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्||११||
तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः||१२||
तत्रैष रसप्रभाव उपदिष्टो भवति| द्रव्यप्रभावं पुनरुपदेक्ष्यामः| तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति||१३||
तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं; वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्| सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च| मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च;
श्लेष्मा हि स्निग्धो मन्दो मधुरश्च | यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम्||१४||
अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्यः; तद्यथा- पिप्पली, क्षारः, लवणमिति||१५||
पिप्पल्यो हि कटुकाः सत्यो मधुरविपाका गुर्व्योनात्यर्थं स्निग्धोष्णाः प्रक्लेदिन्यो भेषजाभिमताश्चताः सद्यः; शुभाशुभकारिण्यो भवन्ति; आपातभद्राः, प्रयोगसमसाद्गुण्यात्; दोषसञ्चयानुबन्धाः;-
सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात् पित्तं,
न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्;
योगवाहिन्यस्तु खलु भवन्ति;तस्मात् पिप्पलीर्नात्युपयुञ्जीत||१६|
क्षारः पुनरौष्ण्यतैक्ष्णयलाघवोपपन्नः क्लेदयत्यादौ पश्चाद्विशोषयति, स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमानः केशाक्षिहृदयपुंस्त्वोपघातकरः सम्पद्यते|
ये ह्येनं ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति,
तद्यथा- प्राच्याश्चीनाश्च; तस्मात् क्षारं नात्युपयुञ्जीत||१७||
लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्, अनतिगुरु,
अनतिस्निग्धम्, उपक्लेदि, विस्रंसनसमर्थम्, अन्नद्रव्यरुचिकरम्, आपातभद्रं प्रयोगसमसाद्गुण्यात्,
दोषसञ्चयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते| तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्या-भिनिर्वृत्तिकरं शरीरस्य भवति|
ये ह्येनद्ग्रामनगरनिगमजनपदाः सततमुपयुञ्जते,
ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति|
तद्यथा- बाह्लीकसौराष्ट्रिकसैन्धवसौवीरकाः; ते हि पयसाऽपि सह लवणमश्नन्ति| येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति,
लवणोपहतत्वात्| तस्माल्लवणं नात्युपयुञ्जीत| ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति||१८||
तस्मात्तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः| सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति||१९||
सात्म्यं नाम तद् यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थः| तत्त्रिविधं प्रवरावरमध्यविभागेन; सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च|
तत्र सर्वरसं प्रवरम्,
अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्| तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम्|
सर्वरसमपि च सात्म्यमुपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत||२०||
तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा- प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि (भवन्ति)||२१||
तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः; तद्यथा माषमुद्गयोः, शूकरैणयोश्च (१) |२२|
करणं पुनः स्वाभाविकानां द्रव्याणामभिसंस्कारः| संस्कारो हि गुणान्तराधानमुच्यते|
ते गुणास्तोयाग्निसन्निकर्षशौचमन्थनदेशकालवासनभावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते (२) |२२|
संयोगः पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभावः, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते; तद्यथा- मधुसर्पिषोः, मधुमत्स्यपयसां च संयोगः (३) |२२|
राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थः| तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रहः,
परिग्रहः पुनः प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्|
सर्वस्य हि ग्रहः सर्वग्रहः,
सर्वतश्च ग्रहः परिग्रह उच्यते (४) |२२|
देशः पुनः स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे (५) |२२|
कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिको विकारमपेक्षते,
नित्यगस्तु ऋतुसात्म्यापेक्षः (६) |२२|
उपयोगसंस्था तूपयोगनियमः; स जीर्णलक्षणापेक्षः (७) |२२|
उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते, यदायत्तमोकसात्म्यम्|
इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति||२२||
एषां विशेषाः शुभाशुभफलाः परस्परोपकारका भवन्ति; तान् बुभुत्सेत, बुद्ध्वा च हितेप्सुरेव स्यात्; नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किञ्चित्||२३||
तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषाञ्चित् काले प्रकृत्यैव हिततमं भुञ्जानानां भवति- उष्णं, स्निग्धं, मात्रावत्, जीर्णे वीर्याविरुद्धम्, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्,
अजल्पन्, अहसन्, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्||२४||
तस्य साद्गुण्यमुपदेक्ष्यामः- उष्णमश्नीयात्; उष्णं हि भुज्यमानं स्वदते, भुक्तं चाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति,
वातमनुलोमयति, श्लेष्माणं च परिह्राससयति; तस्मादुष्णमश्नीयात् (१) |२५|
स्निग्धमश्नीयात्; स्निग्धं हि भुज्यमानं स्वदते, भुक्तं चानुदीर्णमग्निमुदीरयति, क्षिप्रं जरां गच्छति,
वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि, बलाभिवृद्धिमुपजनयति,
वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात् स्निग्धमश्नीयात् (२) |२५|
मात्रावदश्नीयात्; मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखं गुदमनुपर्येति, न चोष्माणमुपहन्ति, अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात् (३) |२५|
जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् (४) |२५|
वीर्याविरुद्धमश्नीयात्; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते;
तस्माद्वीर्याविरुद्धमश्नीयात् (५) |२५|
इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्; इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति,
तथैवेष्टैः सर्वोपकरणैः; तस्मादिष्टे देशे तथेष्टसर्वोपकरणं चाश्नीयात् (६) |२५|
नातिद्रुतमश्नीयात्; अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न नियता; तस्मान्नातिद्रुतमश्नीयात् (७) |२५|
नातिविलम्बितमश्नीयात्; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति,
बहु भुङ्क्ते,
शीतीभवत्याहारजातं, विषमं च पच्यते; तस्मान्नातिविलम्बितमश्नीयात् (८) |२५|
अजल्पन्नहसन् तन्मना भुञ्जीत; जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमश्नतः; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत (९) |२५|
आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्; इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्मसात्म्यं भवति; तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति||२५||
भवति चात्र-
रसान् द्रव्याणि दोषांश्च विकारांश्च प्रभावतः| वेद यो देशकालौ च शरीरं च स[१] नो भिषक्||२६||
विमानार्थो रसद्रव्यदोषरोगाः प्रभावतः|
द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च||२७||
आहारायतनान्यष्टौ भोज्यसाद्गुण्यमेव च|
विमाने रससङ्ख्याते सर्वमेतत् प्रकाशितम्||२८||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः||१||
0 Comments