Advertisement

Responsive Advertisement

Charak Nidan Chapter 8 aapasmaar nidanam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातोऽपस्मारनिदानं व्याख्यास्यामः ||||

इति ह स्माह भगवानात्रेयः ||||

इह खलु चत्वारोऽपस्मारा भवन्ति वातपित्तकफसन्निपातनिमित्ताः ||||

त एवंविधानां प्राणभृतां क्षिप्रमभिनिर्वर्तन्ते; तद्यथा- रजस्तमोभ्यामुपहतचेतसामुद्भ्रान्तविषमबहुदोषाणां समलविकृतोपहितान्यशुचीन्यभ्यवहारजातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोगमपि च विषममाचरतामन्याश्च शरीरचेष्टा विषमाः समाचरतामत्युपक्षयाद्वा दोषाः प्रकुपिता: रजस्तमोभ्यामुपहतचेतसामन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसृत्योपरि तिष्ठन्ते, तथेन्द्रियायतनानि च | तत्र चावस्थिताः सन्तो यदा हृदयमिन्द्रियायतनानि चेरिताः कामक्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहसाऽभिपूरयन्ति, तदा जन्तुरपस्मरति ||||

अपस्मारं पुनः स्मृतिबुद्धिसत्त्वसम्प्लवाद्बीभत्सचेष्टमावस्थिकं तमः प्रवेशमाचक्षते ||||

तस्येमानि पूर्वरूपाणि भवन्ति; तद्यथा- भ्रूव्युदासः सततमक्ष्णोर्वैकृतमशब्दश्रवणंलालासिङ्घाणप्रस्रवणमनन्नाभिलषणमरोचकाविपाकौ हृदयग्रहः कुक्षेराटोपो दौर्बल्यमस्थिभेदोऽङ्गमर्दो मोहस्तमसो दर्शनंमूर्च्छा भ्रमश्चाभीक्ष्णं स्वप्ने च मदनर्तनव्यधनव्यथनवेपनपतनादीनीति ||||

ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव ||||

तत्रेदमपस्मारविशेषविज्ञानं भवति; तद्यथा-

अभीक्ष्णमपस्मरन्तं, क्षणेन सञ्ज्ञां प्रतिलभमानम्, उत्पिण्डिताक्षम्, असाम्नाविलपन्तम्, उद्वमन्तं फेनम्, अतीवाध्मातग्रीवम्, आविद्धशिरस्कं, विषमविनताङ्गुलिम्, अनवस्थितपाणिपादम्, अरुणपरुषश्यावनखनयनवदनत्वचम्, अनवस्थितचपलपरुषरूक्षरूपदर्शिनं, वातलानुपशयं, विपरीतोपशयं च वातेनापस्मरन्तं विद्यात् ||||

अभीक्ष्णमपस्मरन्तं क्षणेन सञ्ज्ञां प्रतिलभमानम्, अवकूजन्तम्, आस्फालयन्तं भूमिं, हरितहारिद्रताम्रनखनयनवदनत्वचं,रुधिरोक्षितोग्रभैरवादीप्तरुषितरूपदर्शिनं, पित्तलानुपशयं,विपरीतोपशयं च पित्तेनापस्मरन्तं विद्यात् ||||

चिरादपस्मरन्तं, चिराच्च सञ्ज्ञां प्रतिलभमानं, पतन्तम्, अनतिविकृतचेष्टं, लालामुद्वमन्तं, शुक्लनखनयनवदनत्वचं,शुक्लगुरुस्निग्धरूपदर्शिनं, श्लेष्मलानुपशयं, विपरीतोपशयं च श्लेष्मणाऽपस्मर-न्तं विद्यात् ||||

समवेतसर्वलिङ्गमपस्मारं सान्निपातिकं विद्यात्, तमसाध्यमाचक्षते इति चत्वारोऽपस्मारा व्याख्याताः ||||

तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्यामः |

तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित् ||||

हितान्यपस्मारिभ्यस्तीक्ष्णानि संशोधनान्युपशमनानि च यथास्वं, मन्त्रादीनि चागन्तुसंयोगे ||१०||

तस्मिन् हि दक्षाध्वरध्वंसे देहिनां नानादिक्षु विद्रवतामभिद्रवणतरणधावनप्लवनलङ्घनाद्यैर्देहविक्षोभणैः पुरागुल्मोत्पत्तिरभूत्, हविष्प्राशात् प्रमेहकुष्ठानां, भयत्रासशोकैरुन्मादानां, विविधभूताशुचिसंस्पर्शादपस्माराणां, ज्वरस्तु खलुमहेश्वरललाटप्रभवः , तत्सन्तापाद्रक्तपित्तम्, अतिव्यवायात् पुनर्नक्षत्रराजस्य राजयक्ष्मेति ||११||

भवन्ति चात्र-

अपस्मारो हि वातेन पित्तेन च कफेन च |

चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ||१२||

साध्यांस्तु भिषजः प्राज्ञाः साधयन्ति समाहिताः |

तीक्ष्णैः संशोधनैश्चैव यथास्वं शमनैरपि ||१३||

यदा दोषनिमित्तस्य भवत्यागन्तुरन्वयः |

तदा साधारणं कर्म प्रवदन्ति भिषग्विदः ||१४||

सर्वरोगविशेषज्ञः सर्वौषधविशारदः|

भिषक् सर्वामयान् हन्ति न च मोहं निगच्छति ||१५||

इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् |१६|

निदानार्थकरो रोगो रोगस्याप्युपलभ्यते ||१६||

तद्यथा-

ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |

रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ||१७||

प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |

अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||

प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः |

क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ||१९||

ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |

उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||

कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति |

न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ||२१||

एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः |

प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||

प्रयोगः शमयेद्व्याधिं योऽन्यमन्यमुदीरयेत् |

नासौ विशुद्धः, शुद्धस्तु शमयेद्यो न कोपयेत् ||२३||

एको हेतुरनेकस्य तथैकस्यैक एव हि |

व्याधेरेकस्य चानेको बहूनां बहवोऽपि च ||२४||

ज्वरभ्रमप्रलापाद्या दृश्यन्ते रूक्षहेतुजाः |

रूक्षेणैकेन चाप्येको ज्वर एवोपजायते ||२५||

हेतुभिर्बहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत् |

रूक्षादिभिर्ज्वराद्याश्च व्याधयः सम्भवन्ति हि ||२६||

लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते |

बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च ||२७||

विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः |

ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ||२८||

विषमारम्भमूलैश्च ज्वर एको निरुच्यते |

लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः ||२९||

एका शान्तिरनेकस्य तथैवैकस्य लक्ष्यते |

व्याधेरेकस्य चानेका बहूनां बह्व्य एव च ||३०||

शान्तिरामाशयोत्थानां व्याधीनां लङ्घनक्रिया |

ज्वरस्यैकस्य चाप्येका शान्तिर्लङ्घनमुच्यते ||३१||

तथा लघ्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः |

एताश्चैव ज्वरश्वासहिक्कादीनां प्रशान्तयः ||३२||

सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते |

साध्यते कृच्छ्रसाध्यस्तु यत्नेन महता चिरात् ||३३||

याति नाशेषतां व्याधिरसाध्यो याप्यसञ्ज्ञितः |

परोऽसाध्यः क्रियाः सर्वाः प्रत्याख्येयोऽतिवर्तते ||३४||

नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम् |

पादापचाराद्दैवाद्वा यान्ति भावान्तरं गदाः ||३५||

वृद्धिस्थानक्षयावस्थां रोगाणामुपलक्षयेत् |

सुसूक्ष्मामपि च प्राज्ञो देहाग्निबलचेतसाम् ||३६||

व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः |

तस्यां तस्यामवस्थायां चतुःश्रेयः प्रपद्यते ||३७||

प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम् |

तेषु न त्वरया कुर्याद्देहाग्निबलवित् क्रियाम् ||३८||

प्रयोगैः क्षपयेद्वा तान् सुखं वा कोष्ठमानयेत् |

ज्ञात्वा कोष्ठप्रपन्नांस्तान् यथासन्नं हरेद्बुधः ||३९||

ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि सङ्ग्रहे |

व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः ||४०||

विकारः प्रकृतिश्चैव द्वयं सर्वं समासतः |

तद्धेतुवशगं हेतोरभावान्नानुवर्तते ||४१||

तत्र श्लोकाः-

हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा |

सम्प्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितात् ||४२||

ज्वरादीनां विकाराणामष्टानां साध्यता न च |

पृथगेकैकशश्चोक्ता हेतुलिङ्गोपशान्तयः ||४३||

हेतुपर्यायनामानि व्याधीनां लक्षणस्य च |

निदानस्थानमेतावत् सङ्ग्रहेणोपदिश्यते ||४४||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने अपस्मारनिदानं नामाष्टमोऽध्यायः |

निदानस्थानं समाप्तम् ||||

 

Post a Comment

0 Comments