For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः स्रोतसां विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां
प्रकारविशेषाः|
सर्वे
हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां
धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||
अपि चैके स्रोतसामेव समुदयंपुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च
दोषप्रकोपणप्रशमनानाम्| न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति,यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४||
अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च
प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६||
तद्यथा
प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति
वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं
चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च| तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्||७||
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा
सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां
चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति;तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च
दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः|
शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च|
मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च|
मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च|
अस्थिवहानां स्रोतसां मेदो मूलं जघनं च|
मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च|
शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च|
प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां
विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं
प्रदुष्टानां धातुस्रोतसाम्|
मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा
बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु
चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा-अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य
परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
स्रोतांसि, सिराः, धमन्यः,रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः,मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव
मार्गगाश्च शरीरधातवःप्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति
प्रदुष्टाः| तेषां सर्वेषामेव
वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||
भवन्ति चात्र- क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात्
क्षुधितस्य च| प्राणवाहीनि
दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०||
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्| अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११||
अतिमात्रस्य चाकाले चाहितस्य च भोजनात्| अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च||१२||
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्| रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३||
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च| रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४||
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च| मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५||
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्| मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६||
व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्| अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७||
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्| मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८||
अकालयोनिगमनान्निग्रहादतिमैथुनात्| शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९||
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्| मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०||
सन्धारणादत्यशनादजीर्णाध्यशनात्तथा| वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१||
व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् | स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणश्चापि स्रोतसां स
प्रदूषकः||२३||
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा| विमार्गगमनं चापि स्रोतसां
दुष्टिलक्षणम्||२४||
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या
प्रतानसदृशानि च||२५||
प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया| कार्या तृष्णोपशमनी तथैवामप्रदोषिकी||२६||
विविधाशितपीतीये रसादीनां यदौषधम्| रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्||२७||
मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी| तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी||२८||
तत्र श्लोकाः-
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्| सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९||
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च| स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०||
केवलं विदितं यस्य शरीरं सर्वभावतः| शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||
0 Comments