Advertisement

Responsive Advertisement

Charak samhita chapter 20 maharoga adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो महारोगाध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

चत्वारो रोगा भवन्ति- आगन्तुवातपित्तश्लेष्मनिमित्ताः; तेषां चतुर्णामपि रोगाणां रोगत्वमेकविधं भवति, रुक्सामान्यात्;द्विविधा पुनः प्रकृतिरेषाम्, आगन्तुनिजविभागात्; द्विविधं चैषामधिष्ठानं, मनःशरीरविशेषात्; विकाराःपुनरपरिसङ्ख्येयाः, प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषापरिसङ्ख्येयत्वात् ||||

मुखानि तु खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषङ्गाभिघातव्यध-बन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम्||||

द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||||

सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, चान्योन्येन सह सन्देहमापद्यन्ते ||||

आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्तेजघन्यं व्यथामभिनिर्वर्तयन्ति||||

तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग उपदेक्ष्यते; तद्यथा- बस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनिपक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि,तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेणश्लेष्मस्थानम्||||

 सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्ति- प्रकृतिभूताःशुभान्युपचयबलवर्णप्रसादादीनि, अशुभानि पुनर्विकृतिमापन्ना विकारसञ्ज्ञकानि||||

तत्र विकाराः सामान्यजा, नानात्मजाश्च| तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः, नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः| तद्यथा- अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः||१०||

तत्रादौ वातविकाराननुव्याख्यास्यामः| तद्यथा- नखभेदश्च, विपादिका , पादशूलं , पादभ्रंशश्च, पादसुप्तता , वातखुड्डता , गुल्फग्रहश्च, पिण्डिकोद्वेष्टनं ,गृध्रसी , जानुभेदश्च, जानुविश्लेषश्च, ऊरुस्तम्भश्च, ऊरुसादश्च, पाङ्गुल्यं , गुदभ्रंशश्च, गुदार्तिश्च, वृषणाक्षेपश्च ,शेफस्तम्भश्च, वङ्क्षणानाहश्च, श्रोणिभेदश्च, विड्भेदश्च, उदावर्तश्च, खञ्जत्वं , कुब्जत्वं , वामनत्वं , त्रिकग्रहश्च,पृष्ठग्रहश्च, पार्श्वावमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च , हृद्द्रवश्च, वक्षौद्घर्षश्च , वक्षौपरोधश्च, वक्षस्तोदश्च, बाहुशोषश्च,ग्रीवास्तम्भश्च, मन्यास्तम्भश्च, कण्ठोद्ध्वंसश्च, हनुभेदश्च , ओष्ठभेदश्च, अक्षिभेदश्च , दन्तभेदश्च, दन्तशैथिल्यं ,मूकत्वं , वाक्सङ्गश्च, कषायास्यता , मुखशोषश्च, अरसज्ञता , घ्राणनाशश्च, कर्णशूलं , अशब्दश्रवणं ,उच्चैःश्रुतिश्च , बाधिर्यं , वर्त्मस्तम्भश्च, वर्त्मसङ्कोचश्च, तिमिरं , अक्षिशूलं , अक्षिव्युदासश्च, भ्रूव्युदासश्च,शङ्खभेदश्च, ललाटभेदश्च, शिरोरुक् , केशभूमिस्फुटनं , अर्दितं , एकाङ्गरोगश्च, सर्वाङ्गरोगश्च, पक्षवधश्च ,आक्षेपकश्च, दण्डकश्च, तमश्च , भ्रमश्च, वेपथुश्च, जृम्भा , हिक्का , विषादश्च, अतिप्रलापश्च, रौक्ष्यं , पारुष्यं ,श्यावारुणावभासता , अस्वप्नश्च, अनवस्थितचित्तत्वं ; इत्यशीतिर्वातविकारावातविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||११||

सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेतिवायोरात्मरूपाणि; एवंविधत्वाच्च वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः ; तद्यथा-स्रंसभ्रंसव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि , तथाखरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि वायोः कर्माणि; तैरन्वितंवातविकारमेवाध्यवस्येत्||१२||

तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत,स्नेहस्वेदास्थापनानुवासननस्तःकर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं प्रमाणीकृत्य;तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलंवैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्नेस्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्||१३||

पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः- ओषश्च, प्लोषश्च, दाहश्च, दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च,अन्तर्दाहश्च, अंसदाहश्च , ऊष्माधिक्यं , अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, अङ्गावदरणं ,शोणितक्लेदश्च, मांसक्लेदश्च, त्वग्दाहश्च, (मांसदाहश्च ), त्वगवदरणं , चर्मदलनं , रक्तकोठश्च, रक्तविस्फोटश्च,रक्तपित्तं , रक्तमण्डलानि , हरितत्वं , हारिद्रत्वं , नीलिका , कक्षा(क्ष्या), कामला , तिक्तास्यता ,लोहितगन्धास्यता , पूतिमुखता , तृष्णाधिक्यं , अतृप्तिश्च, आस्यविपाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकश्च,मेढ्रपाकश्च, जीवादानं , तमःप्रवेशश्च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं ; इति चत्वारिंशत्पित्तविकाराःपित्तविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याताः||१४||

सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवंवा विमुक्तसन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा- औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जोगन्धश्च विस्रो रसौ कटुकाम्लौ सरत्वं पित्तस्यात्मरूपाणि; एवंविधत्वाच्च पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तंतं शरीरावयवमाविशतः; तद्यथा- दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं गन्धवर्णरसाभिनिर्वर्तनं पित्तस्यकर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्||१५||

तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं प्रमाणीकृत्य; विरेचनं तुसर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति,तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत्||१६||

श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः; तद्यथा- तृप्तिश्च, तन्द्रा , निद्राधिक्यं , स्तैमित्यं , गुरुगात्रता ,आलस्यं , मुखमाधुर्यं , मुखस्रावश्च, श्लेष्मोद्गिरणं , मलस्याधिक्यं , बलासकश्च , अपक्तिश्च, हृदयोपलेपश्च,कण्ठोपलेपश्च, धमनीप्रति(वि)चयश्च, गलगण्डश्च, अतिस्थौल्यं , शीताग्निता , उदर्दश्च, श्वेतावभासता ,श्वेतमूत्रनेत्रवर्चस्त्वं ; इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणामपरिसङ्ख्येयानामाविष्कृततमा व्याख्याता भवन्ति||१७||

सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्यतदवयवं वा विमुक्तसन्देहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा-स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमार्त्स्न्यानि श्लेष्मण आत्मरूपाणि; एवंविधत्वाच्च श्लेष्मणः कर्मणःस्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा-श्वैत्यशैत्यकण्डूस्थैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि; तैरन्वितंश्लेष्मविकारमेवाध्यवस्येत्||१८||

तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं चप्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलंवैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्नेकेदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति|१९||

भवन्ति चात्र- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्| ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्||२०||

यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्| अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया||२१||

यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः| देशकालप्रमाणज्ञस्तस्य सिद्धिरसंशयम्||२२||

तत्र श्लोकाः- सङ्ग्रहः प्रकृतिर्देशो विकारमुखमीरणम् | असन्देहोऽनुबन्धश्च रोगाणां सम्प्रकाशितः||२३||

दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये| रूपं पृथक् दोषाणां कर्म चापरिणामि यत्||२४||

पृथक्त्वेन दोषाणां निर्दिष्टाः समुपक्रमाः| सम्यङ्महति रोगाणामध्याये तत्त्वदर्शिना||२५||

 

Post a Comment

0 Comments