Advertisement

Responsive Advertisement

Charak Sutrasthan chapter 17 kiyantahshirsiyam ashyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः कियन्तःशिरसीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

कियन्तः शिरसि प्रोक्ता रोगा हृदि देहिनाम्| कति चाप्यनिलादीनां रोगा मानविकल्पजाः||||

क्षयाः कति समाख्याताः पिडकाः कति चानघ!| गतिः कतिविधा चोक्ता दोषाणां दोषसूदन!||||

हुताशवेशस्य वचस्तच्छ्रुत्वा गुरुरब्रवीत्| पृष्टवानसि यत् सौम्य! तन्मे शृणु सविस्तरम्||||

दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः| व्याधीनां ह्यधिका षष्टिर्दोषमानविकल्पजा||||

दशाष्टौ क्षयाः सप्त पिडका माधुमेहिकाः| दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः शृणु||||

सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्| उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||||

गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्| गुर्वम्लहरितादानादति शीताम्बुसेवनात्||||

शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् | मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||

वातादयः प्रकुप्यन्ति शिरस्यस्रं दुष्यति| ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११||

प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि | यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२||

अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः| प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः||१३||

अर्दितं शिरसः कम्पो गलमन्याहनुग्रहः| विविधाश्चापरे रोगा वातादिक्रिमिसम्भवाः||१४||

पृथग्दिष्टास्तु ये पञ्च सङ्ग्रहे परमर्षिभिः| शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः||१५||

उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात् प्रजागरात्| शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्||१६||

उपवासादभीघाताद्विरेकाद्वमनादति| बाष्पशोकभयत्रासाद्भारमार्गातिकर्शनात्||१७||

शिरोगताः सिरा वृद्धो वायुराविश्य कुप्यति| ततः शूलं महत्तस्य वातात् समुपजायते||१८||

निस्तुद्येते भृशं शङ्कौ घाटा सम्भिद्यते तथा| सभ्रूमध्यं ललाटं तपतीवातिवेदनम्||१९||

वध्येते स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी| घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते||२०||

स्फुरत्यति सिराजालं स्तभ्यते शिरोधरा| स्निग्धोष्णमुपशेते शिरोरोगेऽनिलात्मके||२१||

कट्वम्ललवणक्षारमद्यक्रोधातपानलैः| पित्तं शिरसि सन्दुष्टं शिरोरोगाय कल्पते||२२||

दह्यते रुज्यते तेन शिरः शीतं सुषूयते | दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते||२३||

आस्यासुखैः स्वप्नसुखैर्गुरुस्निग्धातिभोजनैः| श्लेष्मा शिरसि सन्दुष्टः शिरोरोगाय कल्पते||२४||

शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्| भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः||२५||

वाताच्छूलं भ्रमः कम्पः पिताद्दाहो मदस्तृषा| कफाद्गुरुत्वं तन्द्रा शिरोरोगे त्रिदोषजे||२६||

तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्| क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते||२७||

ततः शिरसि सङ्क्लेदात् क्रिमयः पापकर्मणः| जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्||२८||

व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम् | क्रिमिरोगातुरं विद्यात् क्रिमीणां दर्शनेन ||२९||

शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः | वायुराविश्य हृदयं जनयत्युत्तमां रुजम्||३०||

वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः | हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१||

वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः | हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना||३१||

हृद्दाहस्तिक्तता वक्रे तिक्ताम्लोद्गिरणं क्लमः| तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्||३३||

अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्| निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्||३४||

हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्| तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा||३५||

हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः| (हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः)

त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते||३६||

तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते| मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति||३७||

सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः| मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति ||३८||

तुद्यमानं हृदयं सूचीभिरिव मन्यते| छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्||३९||

हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्| त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्||४०||

द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्| समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||४१||

संसर्गे नव षट् तेभ्य एकवृद्ध्या समैस्त्रयः| पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः||४२||

यथा वृद्धैस्तथा क्षीणैर्दोषेः स्युः पञ्चविंशतिः|

वृद्धिक्षयकृतश्चान्यो विकल्प उपदेक्ष्यते||४३||

वृद्धिरेकस्य समता चैकस्यैकस्य सङ्क्षयः| द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः ||४४||

प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति||४५||

तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः| गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव ||४६||

प्रकृतिस्थं कफं वायुः क्षीणे पित्ते यदा बली| कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्||४७||

यदाऽनिलं प्रकृतिगं पित्तं कफपरिक्षये| संरुणद्धि तदा दाहः शूलं चास्योपजायते||४८||

श्लेष्माणं हि समं पित्तं यदा वातपरिक्षये| सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्||४९||

प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्| रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम् ||५०||

समीरणे परिक्षीणे कफः पित्तं समत्वगम्| कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम् ||५१||

निद्रां तन्द्रां प्रलापं हृद्रोगं गात्रगौरवम्| नखादीनां पीतत्वं ष्ठीवनं कफपित्तयोः||५२||

हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्| करोत्यरोचकापाकौ सदनं गौरवं तथा||५३||

हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्| विरेकस्य वैषम्यं वैषम्यमनलस्य ||५४||

हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः| स्तम्भं शैत्यं तोदं जनयत्यनवस्थितम्||५५||

गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्| नखादीनां शुक्लत्वं गात्रपारुष्यमेव ||५६||

मारुतस्तु कफे हीने पित्तं कुपितं द्वयम्| करोति यानि लिङ्गानि शृणु तानि समासतः||५७||

भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने| अङ्गमर्दं परीशोषं दूयनं धूपनं तथा||५८||

वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्| चेष्टाप्रणाशं मूर्च्छां वाक्सङ्गं करोति हि||५९||

वातश्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्| ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्||६०||

पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्| प्रणाशयति सञ्ज्ञां वेपयत्यथवा नरम्||६१||

दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुवेते||६२||

वातादीनां रसादीनां मलानामोजसस्तथा| क्षयास्तत्रानिलादीनामुक्तं सङ्क्षीणलक्षणम् ||६३||

घट्टते सहते शब्दं नोच्चैर्द्रवति शूल्यते| हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये||६४||

परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसङ्क्षये|

मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता||६५||

सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव | लक्षणं मेदसि क्षीणे तनुत्वं चोदरस्य ||६६||

केशलोमनखश्मश्रुद्विजप्रपतनं श्रमः| ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव ||६७||

शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि | प्रततं वातरोगीणि क्षीणे मज्जनि देहिनाम्||६८||

दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः| क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्||६९||

क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः| रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं गच्छति||७०||

मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव | पिपासा बाधते चास्य मुखं परिशुष्यति||७१||

मलायनानि चान्यानि शून्यानि लघूनि | विशुष्काणि लक्ष्यन्ते यथास्वं मलसङ्क्षये||७२||

बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये||७३||

हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्| ओजः शरीरे सङ्ख्यातं तन्नाशान्ना विनश्यति||७४||

प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्| सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते||७५||

(भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु| तद्वदोजः स्वकर्मभ्यो गुणैः सम्भ्रियते नृणाम्||||)

व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्| वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६||

कफशोणितशुक्राणां मलानां चातिवर्तनम्| कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||

व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्| वातातपौ भयं शोको रूक्षपानं प्रजागरः||७६||

कफशोणितशुक्राणां मलानां चातिवर्तनम्| कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः||७७||

गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्| नवमन्नं पानं निद्रामास्यासुखानि ||७८||

त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्| श्लेष्मा पित्तं मेदश्च मांसं चातिप्रवर्धते||७९||

तैरावृतगतिर्वायुरोज आदाय गच्छति| यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||८०||

मारुतस्य पित्तस्य कफस्य मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः||८१||

उपेक्षयाऽस्य जायन्ते पिडकाः सप्त दारुणाः| मांसलेष्ववकाशेषु मर्मस्वपि सन्धिषु||८२||

शराविका कच्छपिका जालिनी सर्षपी तथा| अलजी विनताख्या विद्रधी चेति सप्तमी||८३||

अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता| शराविका स्यात् पिडका शरावाकृतिसंस्थिता||८४||

अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा| श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता||८५||

स्तब्धा सिराजालवती स्निग्धास्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा जालिनी||८६||

पिडका नातिमहती क्षिप्रपाका महारुजा| सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत्||८७||

दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा| विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी||८८||

अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा| महती विनता नीला पिडका विनता मता||८९||

विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा| बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा||९०||

शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्| विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१||

व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्| जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२||

अन्तःशरीरे मांसासृगाविशन्ति यदा मलाः| तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः||९३||

हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ वृक्कयोः| नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः||९४||

शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्| विरुद्धाजीर्णसङ्क्लिष्टविषमासात्म्यभोजनात्||९१||

व्यापन्नबहुमद्यत्वाद्वेगसन्धारणाच्छ्रमात्| जिह्मव्यायामशयनादतिभाराध्वमैथुनात्||९२||

अन्तःशरीरे मांसासृगाविशन्ति यदा मलाः| तदा सञ्जायते ग्रन्थिर्गम्भीरस्थः सुदारुणः||९३||

हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ वृक्कयोः| नाभ्यां वङ्क्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः||९४||

व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः| वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः||९६||

जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः| सर्वासु महच्छूलं विद्रधीषूपजायते||९७||

शस्त्रास्त्रैर्भिद्यत इव चोल्मुकैरिव दह्यते| विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते||९८||

तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी| तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी||९९||

श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु| लक्षणं सर्वमेवैतद्भजते सान्निपातिकी||१००||

अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः-तत्र प्रधानमर्मजायां विद्रध्यांहृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः,कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वङ्क्षणजायां सक्थिसादः, बस्तिजायांकृच्छ्रपूतिमूत्रवर्चसत्वं चेति||१०१||

पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु||१०२||

आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणंचिकित्सकमासाद्योपशाम्यन्ति| तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति||१०३||

भवन्ति चात्र- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः| तावच्चैता लक्ष्यन्ते यावद्वास्तुपरिग्रहः||१०४||

शराविका कच्छपिका जालिनी चेति दुःसहाः| जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः||१०५||

सर्षपी चालजी चैव विनता विद्रधी याः| साध्यः पित्तोल्बणास्तास्तु सम्भवन्त्यल्पमेदसः||१०६||

मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः| जायन्ते यस्य पिडिकाः प्रमेही जीवति||१०७||

तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः| पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः||१०८||

मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः| मन्दवेगा महावेगाः स्वल्पशूला महारुजः||१०९||

ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः| ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्||११०||

तृट्श्वासमांससङ्कोथमोहहिक्कामदज्वराः| वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||१११||

क्षयः स्थानं वृद्धिश्च दोषाणां त्रिविधा गतिः| ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा||११२||

त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु| इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः||११३||

चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||११४||

गतिः कालकृता चैषा चयाद्या पुनरुच्यते|११५|

गतिश्च द्विविधा दृष्टा प्राकृती वैकृती या||११५||

पित्तादेवोष्मणः पक्तिर्नराणामुपजायते| तच्च पित्तं प्रकुपितं विकारान् कुरुते बहून्||११६||

प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते| चैवौजः स्मृतः काये पाप्मोपदिश्यते||११७||

सर्वा हि चेष्टा वातेन प्राणः प्राणीनां स्मृतः| तेनैव रोगा जायन्ते तेन चैवोपरुध्यते||११८||

नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्| नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्||११९||

तत्र श्लोकौ-

शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः| क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव ||१२०||

कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना| ज्ञानार्थं भिषजां चैव प्रजानां हितैषिणा||१२१||

 

Post a Comment

0 Comments