For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः| नरं विरेचयति यं स योगात् सुखमश्नुते||३||
यं वैद्यमानी त्वबुधो विरेचयति मानवम्|
सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते||४||
दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः| हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम्||५||
बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता| सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम् ||६||
ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः| आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम्||७||
जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः| लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः||८||
विट्पित्तकफवातानामागतानां यथाक्रमम्| परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्||९||
निःश्लेष्मपित्तमुदकं शोणितं कृष्णमेव वा| तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः||१०||
वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि| ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत्||११||
चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः| युञ्ज्याद् य एनमत्यन्तमायुषा च सुखेन च||१२||
अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः|
पिडकाकोठकण्डूनां सम्भवोऽरतिरेव च||१३||
आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः| श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता||१४||
तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्|
बलवर्णप्रणाशश्च तृप्यतो बृंहणैरपि||१५||
बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्|
ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम्||१६||
एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते| व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते||१७||
इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति| बलं पुष्टिरपत्यं च वृषता चास्य जायते||१८||
जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः|
तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः||१९||
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः|
जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः||२०||
दोषाणां च द्रुमाणां च मूलेऽनुपहते सति| रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा||२१||
भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्| घृतमांसरसक्षीरहृद्ययूषोपसंहितैः||२२||
अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः|
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३||
अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते|
तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम्||२४||
यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम्|
मात्राकालबलापेक्षी स्मरन् पूर्वमनुक्रमम्||२५||
स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये| जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम्||२६||
जायन्ते हेतुवैषम्याद्विषमा देहधातवः| हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा||२७||
प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्| केचित्तत्रापि मन्यन्ते हेतुं हेतोरवर्तनम्||२८||
एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत| स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्||२९||
भेषजैर्विषमान् धातून् कान् समीकुरुते भिषक्|
का वा चिकित्सा भगवन्! किमर्थं वा प्रयुज्यते||३०||
तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः| श्रूयतामत्र या सोम्य! युक्तिर्दृष्टा महर्षिभिः||३१||
न नाशकारणाभावाद्भावानां नाशकारणम्| ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्||३२||
शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते|
निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया||३३||
याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः|
सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्||३४||
कथं शरीरे धातूनां वैषम्यं न भवेदिति| समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया||३५||
त्यागाद्विषमहेतूनां समानां चोपसेवनात्|
विषमा नानुबध्नन्ति जायन्ते धातवः समाः||३६||
समैस्तु हेतुभिर्यस्माद्धातून् सञ्जनयेत् समान्| चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम्||३७||
धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च| दाता सम्पद्यते वैद्यो दानाद्देहसुखायुषाम्||३८||
तत्र श्लोकाः- चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः| योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम्||३९||
बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये| चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्||४०||
या च युक्तिश्चिकित्सायां यं चार्थं कुरुते भिषक्| चिकित्साप्राभृतेऽध्याये तत् सर्वमवदन्मुनिः||४१||
0 Comments