Advertisement

Responsive Advertisement

Charak Sutra sthan Chapter 9 khuddagchatushpaad adyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः||१||

इति ह स्माह भगवानात्रेयः||२||

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||

विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते| सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४||

चतुर्णां भिषगादीनां शस्तानां धातुवैकृते| प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||

श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता| दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्||६||

बहुता तत्रयोग्यत्वमनेकविधकल्पना| सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते||७||

उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि| शौचं चेति चतुष्कोऽयं गुणः परिचरे जने||८||

स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च| ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||

कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्| विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||

पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः| विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११||

आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः| वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्||१२||

मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा| नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||

गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः| यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः||१४||

सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|

वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता||१५||

पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्| नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु||१६||

यदृच्छया समापन्नमुत्तार्य नियतायुषम्| भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्||१७||

तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने| भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||

हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे| ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९||

शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये| पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०||

विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया| यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१||

विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः| वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२||

यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः| स वैद्यशब्दं सद्भूतमर्हन् प्राणिसुखप्रदः||२३||

शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः| ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४||

चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः| तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि||२५||

मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्| प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||

तत्र श्लोकौ-

भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः| भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७||

ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा| सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||

 

Post a Comment

0 Comments