Advertisement

Responsive Advertisement

Charak Samhita Sutrasthanam Chapter 8 Indriyaupkramaniya Adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

  Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.


अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||2||

इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चेन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रियबुद्धयो भवन्ति,इत्युक्तमिन्द्रियाधिकारे||||

अतीन्द्रियं पुनर्मनः सत्त्वसञ्ज्ञकं, ‘चेतः इत्याहुरेके, तदर्थात्मसम्पदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम्||||

स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन् पुरुषे सत्त्वं, रजस्तमःसत्त्वगुणयोगाच्च; चानेकत्वं, नह्येकं ह्येककालमनेकेषु प्रवर्तते ; तस्मान्नैककाला सर्वेन्द्रियप्रवृत्तिः||||

यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं तत्सत्त्वमेवोपदिशन्ति मुनयो बाहुल्यानुशयात्||||

मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति||||

तत्र चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि||||

पञ्चेन्द्रियद्रव्याणि- खं वायुर्ज्योतिरापो भूरिति||||

पञ्चेन्द्रियाधिष्ठानानि- अक्षिणी कर्णौ नासिके जिह्वा त्वक् चेति||१०||

पञ्चेन्द्रियार्थाः- शब्दस्पर्शरूपरसगन्धाः||११||

पञ्चेन्द्रियबुद्धयः- चक्षुर्बुद्ध्यादिकाः; ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः, क्षणिका, निश्चयात्मिकाश्च, इत्येतत्पञ्चपञ्चकम्||१२||

मनो मनोर्थो बुद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसङ्ग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च, द्रव्याश्रितं चकर्म; यदुच्यते क्रियेति||१३||

तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुषि, खं श्रोत्रे, घ्राणे क्षितिः, आपो रसने,स्पर्शनेऽनिलो विशेषेणोपपद्यते| तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमेवार्थमनुगृह्णाति, तत्स्वभावाद्विभुत्वाच्च||१४||

तदर्थातियोगायोगमिथ्यायोगात् समनस्कमिन्द्रियं विकृतिमापद्यमानं यथास्वं बुद्ध्युपघाताय सम्पद्यते, सामर्थ्ययोगात् पुनः प्रकृतिमापद्यमानं यथास्वं बुद्धिमाप्याययति||१५||

मनसस्तु चिन्त्यमर्थः| तत्र मनसो मनोबुद्धेश्च एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति||१६||

तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः; तद्यथा सात्म्येन्द्रियार्थसंयोगेनबुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन, देशकालात्मगुणविपरीतोपासनेन चेति| तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्||१७||

तद्ध्यनुतिष्ठन् युगपत् सम्पादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति; तत् सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्निवेश !तद्यथा-

देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यानर्चयेत्,

अग्निमुपचरेत्,

ओषधीः प्रशस्ता धारयेत्,

द्वौ कालावुपस्पृशेत्,

मलायनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात्,

त्रिःपक्षस्य केशश्मश्रुलोमनखान् संहारयेत्,

नित्यमनुपहतवासाः सुमनाः सुगन्धिः स्यात्,

साधुवेशः, प्रसिद्धकेशः ,

मूर्धश्रोत्रघ्राणपादतैलनित्यः, धूमपः, पूर्वाभिभाषी, सुमुखः,

दुर्गेष्वभ्युपपत्ता, होता,यष्टा, दाता,

चतुष्पथानां नमस्कर्ता, बलीनामुपहर्ता,

अतिथीनां पूजकः, पितृभ्यः पिण्डदः,

काले हितमितमधुरार्थवादी,वश्यात्मा, धर्मात्मा,

हेतावीर्ष्युः, फले नेर्ष्युः,

निश्चिन्तः, निर्भीकः, ह्रीमान्, धीमान्, महोत्साहः, दक्षः, क्षमावान्,

धार्मिकः,आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणामुपासिता ,

छत्री दण्डी मौली सोपानत्को युगमात्रदृग्विचरेत् ,

मङ्गलाचारशीलः,

कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परिहर्ता,

प्राक् श्रमाद् व्यायामवर्जीस्यात्,

सर्वप्राणिषु बन्धुभूतः स्यात्,

क्रुद्धानामनुनेता, भीतानामाश्वासयिता, दीनानामभ्युपपत्ता,

सत्यसन्धः, सामप्रधानः ,

परपरुषवचनसहिष्णुः, अमर्षघ्नः,

प्रशमगुणदर्शी, रागद्वेषहेतूनां हन्ता ||१८||

नानृतं ब्रूयात्, नान्यस्वमाददीत,

नान्यस्त्रियमभिलषेन्नान्यश्रियं,

वैरं रोचयेत्, कुर्यात् पापं, पापेऽपि पापी स्यात्,नान्यदोषान् ब्रूयात्, नान्यरहस्यमागमयेन्, नाधार्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैर्न भ्रूणहन्तृभिर्न क्षुद्रैर्नदुष्टैः, दुष्टयानान्यारोहेत, जानुसमं कठिनमासनमध्यासीत, नानास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपद्येत, गिरिविषममस्तकेष्वनुचरेत्, द्रुममारोहेत्, जलोग्रवेगमवगाहेत, कुलच्छायामुपासीत , नाग्न्युत्पातमभितश्चरेत्,नोच्चैर्हसेत्, शब्दवन्तं मारुतं मुञ्चेत्, नानावृतमुखो जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत्, नासिकां कुष्णीयात्, दन्तान्विघट्टयेत्, नखान् वादयेत्, नास्थीन्यभिहन्यात्, भूमिं विलिखेत्, छिन्द्यात्तृणं, लोष्टं मृद्नीयात्, नविगुणमङ्गैश्चेष्टेत, ज्योतींष्यनिष्टममेध्यमशस्तं नाभिवीक्षेत, हुङ्कुर्याच्छवं , नचैत्यध्वजगुरुपूज्याशस्तच्छायामाक्रामेत्, क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनान्यासेवेत , नैकःशून्यगृहं चाटवीमनुप्रविशेत्, पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत, नोत्तमैर्विरुध्येत, नावरानुपासीत, जिह्मं रोचयेत्,नानार्यमाश्रयेत्, भयमुत्पादयेत्, साहसातिस्वप्नप्रजागरस्नानपानाशनान्यासेवेत, नोर्ध्वजानुश्चिरं तिष्ठेत्, नव्यालानुपसर्पेन्न दंष्ट्रिणो विषाणिनः, पुरोवातातपावश्यायातिप्रवाताञ्जह्यात्, कलिं नारभेत, नासुनिभृतोऽग्निमुपासीत नोच्छिष्टः, नाधः कृत्वा प्रतापयेत्, नाविगतक्लमो नानाप्लुतवदनो नग्न उपस्पृशेत्, स्नानशाट्या स्पृशेदुत्तमाङ्गं, नकेशाग्राण्यभिहन्यात्, नोपस्पृश्य ते एव वाससी बिभृयात्, नास्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत्, नपूज्यमङ्गलान्यपसव्यं गच्छेन्नेतराण्यनुदक्षिणम्||१९||

नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्योनोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोदङ्मुखो विमनानाभक्ताशिष्टाशुचिक्षुधितपरिचरो पात्रीष्वमेध्यासु नादेशे नाकाले नाकीर्णे नादत्त्वाऽग्रमग्नये नाप्रोक्षितं प्रोक्षणोदकैर्नमन्त्रैरनभिमन्त्रितं कुत्सयन्न कुत्सितं प्रतिकूलोपहितमन्नमाददीत, पर्युषितमन्यत्रमांसहरितकशुष्कशाकफलभक्ष्येभ्यः, नाशेषभुक् स्यादन्यत्र दधिमधुलवणसक्तुसर्पिभ्यः, नक्तं दधि भुञ्जीत, नसक्तूनेकानश्नीयान्न निशि भुक्त्वा बहून्न द्विर्नोदकान्तरितात्, छित्त्वा द्विजैर्भक्षयेत्||२०||

नानृजुः क्षुयान्नाद्यान्न शयीत, वेगितोऽन्यकार्यः स्यात्, वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखंनिष्ठीविका(वात)वर्चोमूत्राण्युत्सृजेत्, पन्थानमवमूत्रयेन्न जनवति नान्नकाले, जपहोमाध्ययनबलिमङ्गलक्रियासुश्लेष्मसिङ्घाणकं मुञ्चेत्||२१||

स्त्रियमवजानीत, नातिविश्रम्भयेत्, गुह्यमनुश्रावयेत्, नाधिकुर्यात्| रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनिंनायोनौ चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलिलौषधिद्विजगुरुसुरालयेषु सन्ध्ययोर्नातिथिषु नाशुचिर्नाजग्धभेषजो नाप्रणीतसङ्कल्पो नानुपस्थितप्रहर्षो नाभुक्तवान्नात्यशितो विषमस्थो मूत्रोच्चारपीडितो नश्रमव्यायामोपवासक्लमाभिहतो नारहसि व्यवायं गच्छेत्||२२||

सतो गुरून् परिवदेत्, नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत्||२३||

विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्निसम्प्लवे भूमिकम्पे महोत्सवे नोल्कापाते महाग्रहोपगमने ननष्टचन्द्रायां तिथौ सन्ध्ययोर्नामुखाद्गुरोर्नावपतितं नातिमात्रं तान्तं विस्वरं नानवस्थितपदं नातिद्रुतं विलम्बितंनातिक्लीबं नात्युच्चैर्नातिनीचैः स्वरैरध्ययनमभ्यस्येत्||२४||

नातिसमयं जह्यात्, नियमं भिन्द्यात्, नक्तं नादेशे चरेत्, सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वप्नसेवी स्यात्, नबालवृद्धलुब्धमूर्खक्लिष्टक्लीबैः सह सख्यं कुर्यात्, मद्यद्यूतवेश्याप्रसङ्गरुचिः स्यात्, गुह्यं विवृणुयात्, नकञ्चिदवजानीयात्, नाहम्मानी स्यान्नादक्षो नादक्षिणो नासूयकः, ब्राह्मणान् परिवदेत्, गवां दण्डमुद्यच्छेत्, नवृद्धान्न गुरून्न गणान्न नृपान् वाऽधिक्षिपेत्, चातिब्रूयात्, बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान् बहिष्कुर्यात्||२५||

नाधीरो नात्युच्छ्रितसत्त्वः स्यात्, नाभृतभृत्यः, नाविश्रब्धस्वजनः, नैकः सुखी, दुःखशीलाचारोपचारः, सर्वविश्रम्भी, नसर्वाभिशङ्की, सर्वकालविचारी||२६||

कार्यकालमतिपातयेत्, नापरीक्षितमभिनिविशेत्, नेन्द्रियवशगः स्यात्, चञ्चलं मनोऽनुभ्रामयेत्, नबुद्धीन्द्रियाणामतिभारमादध्यात्, चातिदीर्घसूत्री स्यात्, क्रोधहर्षावनुविदध्यात्, शोकमनुवसेत्, सिद्धावुत्सेकं यच्छेन्नासिद्धौ दैन्यं, प्रकृतिमभीक्ष्णं स्मरेत्, हेतुप्रभावनिश्चितः स्याद्धेत्वारम्भनित्यश्च, कृतमित्याश्वसेत्, वीर्यंजह्यात्, नापवादमनुस्मरेत्||२७||

नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्निं जुहुयादात्मानमाशीर्भिराशासानः, अग्निर्मे नापगच्छेच्छरीराद्वायुर्मे प्राणानादधातु विष्णुर्मे बलमादधातु इन्द्रो मे वीर्यं शिवा मां प्रविशन्त्वाप आपोहिष्ठेत्यपः स्पृशेत्, द्विः परिमृज्योष्ठौ पादौचाभ्युक्ष्य मूर्धनि खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरश्च||२८||

तत्र श्लोकाः-

पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्| इन्द्रियोपक्रमेऽध्याये सद्वृत्तमखिलेन ||३०||

स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति| समाः शतमव्याधिरायुषा वियुज्यते||३१||

नृलोकमापूरयते यशसा साधुसम्मतः| धर्मार्थावेति भूतानां बन्धुतामुपगच्छति||३२||

परान् सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते| तस्माद्वृत्तमनुष्ठेयमिदं सर्वेण सर्वदा||३३||

यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम्| वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते||३४||

 

Post a Comment

0 Comments