Advertisement

Responsive Advertisement

Charak siddhi chapter 9 trimarmiyam siddhi








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!|

तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्|

तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्; स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||||

तत्र हृदये दश धमन्यः प्राणापानौ मनो बुद्धिश्चेतना महाभूतानि नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा, बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||||

तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||||

तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि||||

किन्त्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं , बस्तिकर्मसाध्यतमः, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति| तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां ||||

भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा यवागूः, हृद्रोगविहितं कर्म; मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः, वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति||||

भवन्ति चात्र श्लोकाः-

हृदये मूर्ध्नि बस्तौ नृणां प्राणाः प्रतिष्ठिताः|
तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने||||

आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्|
उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्||१०||

अत उर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते|
प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्||११||

क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते|
पीडयन् हृदयं गत्वा शिरः शङ्खौ पीडयन्||१२||

धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा|
(नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं निरुणद्धि )|
कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः ||१३||

कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः|
दृष्टिं संस्तम्भ्य सञ्ज्ञां हत्वा कण्ठेन कूजति||१४||

हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः|
वायुना दारुणं प्राहुरेके तमपतानकम्||१५||

वसनं कफवाताभ्यां रुद्धं तस्य विमोक्षयेत्|
तीक्ष्णैः प्रधमनैः सञ्ज्ञां तासु मुक्तासु विन्दति||१६||

मरिचं शिग्रुबीजानि विडङ्गं फणिज्झकम्|
एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्||१७||

तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्|
यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके ||१८||

हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्|
पिबेद्वातकफघ्नं कर्म हृद्रोगनुद्धितम्||१९||

शोधना बस्तयस्तीक्ष्णा हितास्तस्य कृत्स्नशः|
सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्||२०||

मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात् |
शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः||२१||

यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्|
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते||२२||

हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्|
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्||२३||

कफघ्नं तत्र कर्तव्यं शोधनं शमनानि |
व्यायामो रक्तमोक्षश्च भोज्यं कटुतिक्तकम्||२४||

मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसङ्क्षयौ|
मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ||२५||

वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्|
त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु||२६||

पित्तं कफो द्वावपि वा बस्तौ संहन्यते यदा|
मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्||२७||

सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्|
मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत्||२८||

विधारणात् प्रतिहतं वातोदावर्तितं यदा|
पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्||२९||

अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्|
मूत्रवैरेचनीं तत्र चिकित्सां सम्प्रयोजयेत्||३०||

हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्|
हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः||३१||

मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्|
पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते||३२||

खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं तिष्ठति|
मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्||३३||

मूत्रोत्सङ्गः विच्छिन्नमुच्छेषगुरुशेफसः |

वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति सङ्क्षयः||३४||

चिरं धारयतो मूत्रं त्वरया प्रवर्तते|
मेहमानस्य मन्दं वा मूत्रातीतः उच्यते||३५||

आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्|
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्||३६||

मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्|
मूत्ररोधार्तिकण्डूभिर्वातबस्तिः उच्यते||३७||

उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्|
उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्||३८||

गतिसङ्गादुदावृत्तः मूत्रस्थानमार्गयोः|
मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली||३९||

मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः|
तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा||४०||

रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्|
ग्रन्थिं कुर्यात् कृच्छ्रेण सृजेन्मूत्रं तदावृतम्||४१||

अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते|

रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा||४२||

मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः|
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्||४३||

द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्|
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्||४४||

शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि|
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्||४५||

बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्|
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः||४६||

तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता|
श्लेष्मणा गौरवं शोफः स्निग्धं मूत्रं घनं सितम्||४७||

श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो सिध्यति|
अविभ्रान्तबिलः साध्यो तु यः कुण्डलीकृतः||४८||

स्याद्वस्तौ कुण्डलीभूते हृन्मोहः श्वास एव |४९|

दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्॥४९॥

बस्तिमुत्तरबस्तिं सर्वेषामेव दापयेत् |

पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०||

जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्|
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१||

तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्|
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२||

स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा|
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ||५३||

ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया|
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४||

ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्|
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५||

हिंस्यादतिगतं बस्तिमूने स्नेहो गच्छति|
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव ||५६||

प्रत्यागते द्वितीयं तृतीयं प्रदापयेत्|
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य ||५७||

पिप्पलीलवणागारधूमापामार्गसर्षपैः|
वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः||५८||

मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्|
अग्रे तु सर्षपाकारां पश्चार्धे माषसम्मिताम्||५९||

नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्|
नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसम्मिताम्||६०||

स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः|
परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः||६१||

स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्|
गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता||६२||

गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते|
बस्तिजेषु विकारेषु योनिविभ्रंशजेषु ||६३||

योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे|
अप्रस्रवति मूत्रे बिन्दुं बिन्दुं स्रवत्यपि||६४||

विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम् |६५|

पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्||६५||

मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुवाहि |
अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्||६६||

द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्|
उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी||६७||

अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्|
द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्||६८||

बस्तौ, बस्तौ प्रणीते वर्तिः पीनतरा भवेत्|
त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्||६९||

अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्|७०|

अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०||

रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः|
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१||

शिरो विषवद्वेगी निरुध्याशु गलं तथा|
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः||७२||

परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्|
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||

रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः|
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः||७४||

केवलः सकफो वाऽर्धं गृहीत्वा शिरसस्ततः|
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५||

शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः|
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्||७६||

चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्|
नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्||७७||

उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते|
प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्||७८||

सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ|
दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्||७९||

सूर्योदयेंऽशुसन्तापाद्द्रवं विष्यन्दते शनैः|
ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते||८०||

दिनक्षये ततः स्त्याने मस्तिष्के सम्प्रशाम्यति|
सूर्यावर्तः तत्र स्यात् सर्पिरौत्तरभक्तिकम्||८१||

शिरःकायविरेकौ मूर्ध्ना त्रिस्नेहधारणम् |
जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् ||८२||

बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्|
स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्||८३||

(उपवासातिशोकातिरूक्षशीताल्पभोजनैः)|
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम्||८४||

तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्ववतिष्ठते|
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्||८५||

सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः|
वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्||८६||

तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः|
स्नेहस्वेदादि वातघ्नं शस्तं नस्यं तर्पणम्||८७||

नस्तःकर्म कुर्वीत शिरोरोगेषु शास्त्रविद्|
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८||

नावनं चावपीडश्च ध्मापनं धूम एव |
प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा||८९||

स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्|
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ||९०||

चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम् |
विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः||९१||

प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्|
एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा||९२||

स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः|
शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते||९३||

ये वातात्मका रोगाः शिरःकम्पार्दितादयः|
शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते ||९४||

रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते|
ध्मापनं धूमपानं तथा योग्येषु शस्यते ||९५||

(दोषादिकं समीक्ष्यैव भिषक् सम्यक् कारयेत्)|९६|

फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम्||९६||

तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्|
यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्||९७||

साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्|९८|

प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य ||९८||

उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्|
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य ||९९||

दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्|
अनवाक्शिरसो नस्यं शिरः प्रतिपद्यते||१००||

अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति|
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१||

संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा|
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२||

प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि|
कृते स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३||

तं स्नेहं श्लेष्मणा साकं तथा स्नेहो तिष्ठति|

स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः ||१०४||

भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः|
श्रोत्रमन्यागलाद्येषु विकाराय कल्पते||१०५||

ततो नस्तःकृते धूमं पिबेत् कफविनाशनम् |
हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः||१०६||

विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु|
तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु||१०७||

विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्|
लघु त्रिष्वविरुद्धं निवातस्थमतन्द्रितः||१०८||

विरेकशुद्धो दोषस्य कोपनं यस्य सेवते|
दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्||१०९||

यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः|
अकालकृतजातानां रोगाणामनुरूपतः||११०||

अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने|
प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने||१११||

नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्|
तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः||११२||

क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि|
वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान्||११३||

तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः|
स्वेदादिः, स्याद्घृतं क्षीरं गर्भिण्यास्तु विशेषतः||११४||

ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु|
रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् ||११५||

स्नेहनं शोधनं चैव द्विविधं नावनं मतम्|
प्रतिमर्शस्तु नस्यार्थं करोति दोषावान्||११६||

नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि सर्वदा|
चोच्छिङ्घेदरोगाणां प्रतिमर्शः दार्ढ्यकृत्||११७||

तत्र श्लोकौ

त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु |
तेषु लिङ्गं चिकित्सां रोगभेदाश्च सौषधाः||११८||

विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा|
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||||

Post a Comment

0 Comments