Advertisement

Responsive Advertisement

Charak siddhi chapter 8 prasrityogiyam siddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्|

कर्मणा विप्लुतानां वक्ष्यामि प्रसृतैः पृथक्||||

क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः|

खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||||

एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्|

बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ वातनुत्||||

पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः|

एकैकः प्रसृतो बस्तिः स्नेहनीयोऽनिलापहः||||

सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्|

प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम्||||

पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः|

चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः||||

निरूहः पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत् ||

विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात्||||

कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्|

विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः||१०||

पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्|

एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्||११||

चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्|

प्रसृताः सर्षपैः कल्कैर्विट्सङ्गानाहभेदनः ||१२||

श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्|

प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः||१३||

कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः|

एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव||१४||

मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते|

तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते ||१५||

वातोपसृष्टस्योष्णैः स्युर्गुददाहादयो यदि|

द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम्||१६||

तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्|

शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुताम्||१७||

अथवाऽतिविरिक्तः स्यात् क्षीणविट्कः भक्षयेत्|

माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम्||१८||

सामं चेत् कुणपं शूलैरुपविशेदरोचकी|

घनातिविषाकुष्ठनतदारुवचाः पिबेत्||१९||

शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते|

पक्वं , तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम्||२०||

षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु|

केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि||२१||

शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्|

तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२२||

तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्|

पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते||२३||

वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते |

स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे||२४||

रक्ते रक्तेन, पित्ते तु कषायस्वादुतिक्तकैः|

सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः||२५||

शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले|

संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्युतम्||२६||

पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुनः|

संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम्||२७||

तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्|

आमेन तु कफे व्योषकषायलवणैर्युतम्||२८||

वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले|

मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः||२९||

शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः|

बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः||३०||

कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः|

व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः||३१||

स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे|

मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते||३२||

मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्|

बस्तिर्वातेन पित्ते तु कार्यः स्वाद्वम्लतिक्तकः||३३||

त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्|

युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता||३४||

युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् |

निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः||३५||

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः|

शङ्खं सर्जरसं लाक्षां कर्दमं पलांशिकम्||३६||

पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्|

अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्||३७||

कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः|

मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः||३८||

बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः |

मसूरधातकीपुष्पबलाभिश्च तथा भवेत्||३९||

स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा|

क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक्||४०||

कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः|

दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा||४१||

शीताः सशर्कराक्षौद्राः सर्वातिसारनाशनाः|

ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः||४२||

भवन्ति चात्र श्लोकाः-

स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः|

शीतं तिक्तकषायं मधुरं पित्ते रक्ते ||४३||

तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति|

पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४||

अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि |

तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||

तत्र श्लोकः-

प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः|

रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ||४६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते

दृढबलसम्पूरिते सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||||

 

Post a Comment

0 Comments