For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो बस्तिसिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेय||२||
सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु|
शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||
बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्
स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्नियच्छन्ति||४||
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्|
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||
सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्|
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६||
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ|
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७||
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८|
अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८||
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् |
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९||
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च|
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य विनियुज्यात्||१०||
बस्तीन्न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु|
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११||
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्|
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||
वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः|
शस्ताः सतैलमूत्रारनाललवणाश्च कफवाते||१३||
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्|
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||
आवापा बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||
अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः |
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८||
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा|
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९||
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले|
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०||
नलवञ्जुलवानीरशतपत्राणि शैवलम्|
मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१||
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः|
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२||
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा|
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३||
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु |
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||
फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः |
श्यामा च त्रिफला चैव स्थिरा दन्ती द्रवन्त्यपि||२५||
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा|
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६||
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः|
(व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः)||२७||
काकोली क्षीरकाकोली मुद्गपर्णी शतावरी|
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८||
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा|
जलजानूपजं मांसमित्येते शुक्रमांसलाः ||२९||
जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ|
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०||
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका|
वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||
परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्|
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२||
कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः |
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः|
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४||
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः|
(देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः)||३५||
बस्तिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः|
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||
अश्वावरोहिकाकाकनासाराजकशेरुकैः|
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७||
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८||
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः|
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९||
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ|
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०||
शशैणदक्षमार्जारमहिषाव्यजशोणितैः|
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१||
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः|
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||
मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा|
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः|
रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||
गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु|
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४||
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः|
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||
तत्र श्लोकाः
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे|
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७||
द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते|
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||
0 Comments