Advertisement

Responsive Advertisement

Charak siddhi chapter 6 vaman virechan vyapat








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो वमनविरेचनव्यापत्सिद्धिम् व्याख्यास्याम: ||||

इति स्माह भगवानात्रेय: ||||

अथ शोधनयो: सम्यग्विधिमूर्ध्वानुलोमयो: |

असम्यकृतयोश्चैव दोषान् वक्ष्यामि सौषधान् ||||

अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः|

तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रयः||||

प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुनः|

तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति||||

एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक्|

स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु||||

कर्मणां वमनादीनामन्तरेष्वन्तरेषु |

स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत्||||

विसर्पपिडकाशोफकामलापाण्डुरोगिणः |

अभिघातविषार्तांश्च नातिस्निग्धान् विरेचयेत्||||

नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्|

स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्||||

स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्|

एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१०||

स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते|

कफादयः प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधैः||११||

आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वतः|

तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान्||१२||

क्लिष्टं वासो यथोत्क्लेश्य मलः संशोध्यतेऽम्भसा|

स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मलः ||१३||

अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते|

पीतं संशोधनं चैव विपरीतं प्रवर्तते||१४||

अल्पमात्रं महावेगं बहुदोषहरं सुखम्|

लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम्||१५||

अविकारि व्यापत्तौ नातिग्लानिकरं यत्|

गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम्||१६||

विधूय मानसान् दोषान् कामादीनशुभोदयान् |

एकाग्रमनसा पीतं सम्यग्योगाय कल्पते||१७||

नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम्|

सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम्||१८||

उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषाः स्रवन्ति हि|१९|

पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत्||१९||

ऊर्ध्वं कफानुगे पित्ते विट्पित्तेऽनुकफे त्वधः|

हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे||२०||

वामयेत्तु ततः शेषमौषधं त्वलाघवे|

स्तैमित्येऽनिलसङ्गे निरुद्गारेऽपि वामयेत्||२१||

आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत्|२२|

वमिते वर्धते वह्निः शमं दोषा व्रजन्ति हि||२२||

वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन्|

तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्||२३||

संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिनः|

यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्||२४||

कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके|

तर्पणादिक्रमं कुर्यात् पेयाऽभिष्यन्दयेद्धि तान्||२५||

अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता|

लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः||२६||

क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा|

अरतिर्बलहानिश्च सावशेषौषधाकृतिः||२७||

अकालेऽल्पातिमात्रं पुराणं भावितम्|

असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम्||२८||

आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः|

जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः||२९||

अयोगादतियोगाच्च दशैता व्यापदो मताः|

प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य ||३०||

योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्तनम्|

अयोगः प्रातिलोम्येन चाल्पं वा प्रवर्तनम्||३१||

श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु|

विरेचनमजीर्णे पीतमूर्ध्वं प्रवर्तते||३२||

क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा|

तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम्||३३||

प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः|

अयोगसञ्ज्ञे, कृच्छ्रेण याति दोषो नवाऽल्पशः||३४||

पीतौषधो शुद्धश्चेज्जीर्णे तस्मिन् पुनः पिबेत्|

औषधं त्वजीर्णेऽन्यद्भयं स्यादतियोगतः||३५||

कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव |

अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा||३६||

वमनं तु दुश्छर्दं दुष्कोष्ठं विरेचनम्|

पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ||३७||

अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्|

दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गदान्||३८||

विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम् |

पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्||३९||

स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्|

शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत्||४०||

तानेव जनयेद्रोगानयोगः सर्व एव सः|

विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम्||४१||

तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः|

पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत्||४२||

निरूढं रसैर्धान्वैर्भोजयित्वाऽनुवासयेत्|

फलमागधिकादारुसिद्धतैलेन मात्रया||४३||

स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्|

चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते||४४||

अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्|

हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान्||४५||

बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम्|

कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्||४६||

वमने तु विरेकः स्याद्विरेके वमनं पुनः |

परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत्||४७||

कषायमधुरैः शीतैरन्नपानौषधैस्तथा|

रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि||४८||

अञ्जनं चन्दनोशीरमज्जासृक्शर्करोदकम्|

लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||४९||

शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्|

वर्चःसाङ्ग्राहिकैः सिद्धं क्षीरं भोज्यं दापयेत्||५०||

जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते|

मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा||५१||

वमनस्यातियोगे तु शीताम्बुपरिषेचितः|

पिबेत् कफहरैर्मन्थं सघृतक्षौद्रशर्करम्||५२||

सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः|

समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||५३||

वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः|

स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः||५४||

फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|

निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||५५||

वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्|

यवागूं तनुकां दद्यात् स्नेहस्वेदौ बुद्धिमान्||५६||

वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घितः|

अग्निप्राणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत् ||५७||

बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्|

सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य ||५८||

भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्|

श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्||५९||

अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्|

उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते||६०||

स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्|
क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा||६१||

पीतं गत्वा गुदं साममाशु दोषं निरस्य |
तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम्||६२||

लङ्घनं पाचनं सामे रूक्षोष्णं लघुभोजनम्|
बृंहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा||६३||

आमे जीर्णेऽनुबन्धश्चेत् क्षाराम्लं लघु शस्यते|
पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा||६४||

सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति|
दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा||६५||

देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्|
अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पयः||६६||

कषायमधुरं शीतं पिच्छाबस्तिमथापि वा|
यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत्||६७||

अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्|

अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम्||६८||

कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुताः|

परिस्रावः , तं दोषं शमयेद्वामयेदपि||६९||

स्नेहितं वा पुनस्तीक्ष्णं पाययेत् विरेचनम्|

शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत्||७०||

पीतौषधस्य वेगानां निग्रहान्मारुतादयः|

कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्||७१||

हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमैः|

जिह्वां खादति निःसञ्ज्ञो दन्तान् किटिकिटापयन्||७२||

गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्|

मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्||७३||

पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्|

कायाग्निं बलं चास्य क्रमेणोत्थापयेत्ततः ||७४||

पवनेनातिवमतो हृदयं यस्य पीड्यते|

तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफेऽन्यथा||७५||

पीतौषधस्य वेगानां निग्रहेण कफेन वा|

रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः||७६||

स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनैः|

तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत् ||७७||

अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्|

दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम्||७८||

तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा|

भुङ्क्ते तच्चेद्वदेज्जीवं भुङ्क्ते पित्तमादिशेत्||७९||

शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|

प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते||८०||

तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्|

तस्य पित्तहरीं सर्वामतियोगे या हिता ||८१||

मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|

पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति ||८२||

तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्|

श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः||८३||

घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्|

पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||८४||

गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्|

साम गान्धर्वशब्दांश्च सञ्ज्ञानाशेऽस्य कारयेत्||८५||

यदा विरेचनं पीतं विडन्तमवतिष्ठते|

वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत्||८६||

तदा कुर्वन्ति कण्ड्वादीन् दोषाः प्रकुपिता गदान्|

विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम्||८७||

पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्वृतम्|

वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान्||८८||

वातसङ्गगुदस्तम्भशूलैः क्षरति चाल्पशः|

तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचितः||८९||

रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा|

मारुतं कोपयित्वाऽऽशु कुर्याद्धोरानुपद्रवान्||९०||

स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यतः|

स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः||९१||

स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्|

पित्तं वातं संरुध्य सतन्द्रागौरवं क्लमम्||९२||

दौर्बल्यं चाङ्गसादं कुर्यादाशु तदुल्लिखेत्|

लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं शोधनम्||९३||

तत्र श्लोकौ-

इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः|

वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम् ||९४||

एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः|

दद्यात् संशोधनं सम्यगारोग्यार्थी नृणां सदा||९५||

 

Post a Comment

0 Comments