Advertisement

Responsive Advertisement

Charak siddhi chapter 5 netrabasti vaypat siddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातो नेत्रबस्तिव्यापत्सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अथ नेत्राणि बस्तींश्च शृणु वर्ज्यानि कर्मसु|

नेत्रस्याज्ञप्रणीतस्य व्यापदः सचिकित्सिताः||||

ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्|

पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्||||

अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः|

गुदपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम्||||

विषममांसलच्छिन्नस्थूलजालिकवातलाः|

स्निग्धः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्||||

गतिवैषम्यविस्रत्वस्रावदौर्ग्राह्यनिस्रवाः|

फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः||||

सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः|

अतिबाह्यगमन्दातिवेगदोषाः प्रणेतृतः||||

अनुच्छ्वास्य बद्धे वा दत्ते निःशेष एव वा|

प्रविश्य कुपितो वायुः शूलतोदकरो भवेत्||||

तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि |१०|

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा||१०||

स्यात् कटीगुदजङ्घार्तिबस्तिस्तम्भोरुवेदनाः |

भोजनं तत्र वातघ्नं स्नेहाः स्वेदाः सबस्तयः||११||

तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि गच्छति|

नेत्रे तदृजु निष्कृष्य संशोध्य प्रवेशयेत्||१२||

पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः|

उरःशिरोर्तिमूर्वोश्च सदनं जनयेद्बली||१३||

बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्|

स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे||१४||

कषायमधुराः शीताः सेकास्तत्र सबस्तयः|१५|

अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः||१५||

स्यात् सार्तिदाहनिस्तोदगुदवर्चःप्रवर्तनम्|

तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते||१६||

भावयति मन्दस्तु बाह्यस्त्वाशु निवर्तते|

स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता||१७||

अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्|

तत्र बस्तिर्विरेकश्च गलपीडादि कर्म ||१८||

तत्र श्लोकः-

नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्|

वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्||१९||

 

Post a Comment

0 Comments