Advertisement

Responsive Advertisement

Charak siddhi chapter 4 snehvyapat siddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातः स्नेहव्यापत्सिद्धिं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्|

मिथ्याप्रणिहितानां व्यापदः सचिकित्सिताः||||

दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्|

गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम्||||

शतावरीं सहचरं काकनासां पलांशिकम् |

यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्||||

चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन |

तैलाढकं समक्षीरं जीवनीयैः पलोन्मितैः||||

अनुवासनमेतद्धि सर्ववातविकारनुत्|

आनूपानां वसा तद्वज्जीवनीयोपसाधिता||||

शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे|

सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम्||||

जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्|

शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्||||

स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्|

पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे||१०||

बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्|

मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम्||११||

लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्|

तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्||१२||

सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् |

ह्रीवेरं मधुकं भार्गीं देवदारु सकट्फलम्||१३||

नागरं पुष्करं मेदां चविकां चित्रकं शटीम्|

विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम्||१४||

बिल्वाजमोदे कृष्णां दन्तीं रास्नां पेषयेत्|

साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत्||१५||

व्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्|

आनाहमश्मरीं चैव हन्यात्तदनुवासनात्||१६||

मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा|

तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक्||१७||

विडङ्गैरण्डरजनीपटोलत्रिफलामृताः|

जातीप्रवालनिर्गुण्डीदशमूलाखुपर्णिकाः||१८||

निम्बपाठासहचरशम्पाककरवीरकाः|

एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः||१९||

फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः|

सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः||२०||

लतागौरीशताह्वाग्निशटीचोरकपौष्करैः |

तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम्||२१||

क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा|

प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः||२२||

व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्|

क्षीणशुक्रस्य चातीव स्नेहवस्तिर्बलप्रदः||२३||

पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्|

जनयेदप्रजानां प्रजां स्त्रीणां तथा नृणाम्||२४||

वातपित्तकफात्यन्नपुरीषैरावृतस्य |

अभुक्ते प्रणीतस्य स्नेहबस्तेः षडापदः||२५||

शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः|

अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२६||

दत्तस्तैरावृतः स्नेहो यात्यभिभवादपि |

अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम्||२७||

अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः |

पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक्||२८||

स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः |

सौवीरकसुराकोलकुलत्थयवसाधितैः||२९||

निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः|

ताभ्यामेव तैलाभ्यां सायं भुक्तेऽनुवासयेत्||३०||

दाहरागतृषामोहतमकज्वरदूषणैः|

विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्||३१||

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः|

सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्||३२||

कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः|

फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३३||

छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः |

आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्||३४||

कटूनां लवणानां क्वाथैश्चूर्णैश्च पाचनम्|

विरेको मृदुरत्रामविहिता क्रिया हिता||३५||

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः|

स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः||३६||

श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः|

निर्हरेद्विधिना सम्यगुदावर्तहरेण ||३७||

अभुक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडितः|

धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||३८||

मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्|

तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः||३९||

कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः|

छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम्||४०||

यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः|

सर्वेऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः विजानता||४१||

युक्तस्नेहं द्रवोष्णं लघुपथ्योपसेवनम्|

भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्त्र्यहात्||४२||

धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः|

व्युषिताय निशां कल्यमुष्णं वा केवलं जलम्||४३||

स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति |

मारुतस्यानुलोम्यं कुर्यादुष्णोदकं नृणाम्||४४||

वमने विरेके निरूहे सानुवासने|

तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये||४५||

रूक्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी|

वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने||४६||

एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव|

अतोऽन्येषां त्र्यहात्प्रायः स्नेहं पचति पावकः||४७||

त्वामं प्रणयेत् स्नेहं ह्यभिष्यन्दयेद्गुदम्|

सावशेषं कुर्वीत वायुः शेषे हि तिष्ठति||४८||

चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्|

उभयस्मात् समं गच्छन् वातमग्निं दूषयेत्||४९||

स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्|

उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम्||५०||

तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः|

स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत्||५१||

कर्मव्यायामभाराध्वया(पा)नस्त्रीकर्षितेषु |

दुर्बले वातभग्ने मात्राबस्तिः सदा मतः||५२||

यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः|

ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत्||५३||

बल्यं सुखोपचर्यं सुखं सृष्टपुरीषकृत्|

स्नेहमात्राविधानं हि बृंहणं वातरोगनुत्||५४||

तत्र श्लोकौ-

वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः|

तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः||५५||

प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये

स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा||५६||

 

Post a Comment

0 Comments