Advertisement

Responsive Advertisement

Charak siddhi chapter 12 uttarbasti siddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातउत्तरबस्तिसिद्धिंव्याख्यास्यामः||||

इतिहस्माहभगवानात्रेयः||||

अथस्वल्वातुरंवैद्यःसंशुद्धंवमनादिभिः|
दुर्बलंकृशमल्पाग्निंमुक्तसन्धानबन्धनम्||||

निर्हृतानिलविण्मूत्रकफपित्तंकृशाशयम्|
शून्यदेहंप्रतीकारासहिष्णुंपरिपालयेत्||||

यथाऽण्डंतरुणंपूर्णंतैलपात्रंयथैव[]|
गोपालइवदण्डीगाःसर्वस्मादपचारतः||||

अग्निसन्धुक्षणार्थंतुपूर्वंपेयादिनाभिषक्|
रसोत्तरेणोपचरेत्क्रमेणक्रमकोविदः||||

स्निग्धाम्लस्वादुहृद्यानिततोऽम्ललवणौरसौ|
स्वादुतिक्तौततोभूयःकषायकटुकौततः||||

अन्योऽन्यप्रत्यनीकानांरसानांस्निग्धरूक्षयोः|
व्यत्यासादुपयोगेनप्रकृतिंगमयेद्भिषक्||||

सर्वक्षमोह्यसंसर्गोरतियुक्तःस्थिरेन्द्रियः|
बलवान्सत्त्वसम्पन्नोविज्ञेयःप्रकृतिंगतः||||

एतांप्रकृतिमप्राप्तःसर्ववर्ज्यानिवर्जयेत्|
महादोषकराण्यष्टाविमानितुविशेषतः||१०||

उच्चैर्भाष्यंरथक्षोभमविचङ्क्रमणासने|
अजीर्णाहितभोज्येचदिवास्वप्नंसमैथुनम्||११||

तज्जादेहोर्ध्वसर्वाधोमध्यपीडामदोषजाः|
श्लेष्मजाःक्षयजाश्चैवव्याध्यःस्युर्यथाक्रमम्||१२||

तेषांविस्तरतोलिङ्गमेकैकस्यचभेषजम्|
यथावत्सम्प्रवक्ष्यामिसिद्धान्बस्तींश्चयापनान्||१३||

तत्रोच्चैर्भाष्यातिभाष्याभ्यांशिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोध

मुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक-

हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयःस्युः()|

रथक्षोभात्सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध-

स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः ()|

अतिचङ्कमणात्पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद-

पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः()|

अत्यासनाद्रथक्षोभजाःस्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः()|

अजीर्णाध्यशनाभ्यांतुमुखशोषाध्मानशूलनिस्तोदपिपासा

गात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः()|

विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डू

पामागात्रसादवातादिप्रकोपजाश्चग्रहण्यर्शोविकारादयः()|

दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डू

पामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा

प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः()|

व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूल

हृदयस्पन्दननेत्रपीडाङ्गशैथिल्य

शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसाद

कटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु-

वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयःस्युः;

अवलुप्यतइवगुदः,ताड्यतइवमेढ्रम्,अवसीदतीवमनो,

वेपतेहृदयं,पीड्यन्तेसन्धयः,तमःप्रवेश्यतइवच()|

इत्येवमेभिरष्टभिरपचारैरेतेप्रादुर्भवन्त्युपद्रवाः||१४||

तेषांसिद्धिः-तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाह

धूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरःसर्वोविधिर्मौनंच()|

रथक्षोभातिचङ्क्रमणात्यासनजानां

स्नेहस्वेदादिवातहरंकर्मसर्वंनिदानवर्जनंच()|

अजीर्णाध्यशनजानांनिरवशेषतश्छर्दनं

रूक्षःस्वेदोलङ्घनीयपाचनीयदीपनीयौषधावचारणंच()|

विषमाहिताशनजानांयथास्वंदोषहराःक्रियाः()|

दिवास्वप्नजानांधूमपानलङ्घनवमनशिरोविरेचन

व्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः

प्रघर्षणोन्मर्दनपरिषेचनादिश्चश्लेष्महरःसर्वोविधिः()|

मैथुनजानांजीवनीयसिद्धयोःक्षीरसर्पिषोरुपयोगः,

तथावातहराःस्वेदाभ्यङ्गोपनाहावृष्याश्चाहाराः

स्नेहाःस्नेहविधयोयापनाबस्तयोऽनुवासनंच;

मूत्रवैकृतबस्तिशूलेषुचोत्तरबस्तिर्विदारीगन्धादिगण

जीवनीयक्षीरसंसिद्धंतैलंस्यात्||१५||

यापनाश्चबस्तयःसर्वकालंदेयाः;तानुपदेक्ष्यामः

मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूची

स्थिरादिपञ्चमूलानिपलिकानिखण्डशःक्लृप्तान्यष्टौचमदनफलानिप्रक्षाल्यजलाढके

परिक्वाथ्यपादशेषोरसःक्षीरद्विप्रस्थसंयुक्तःपुनःशृतःक्षीरावशेषः

पादजाङ्गलरसस्तुल्यमधुघृतःशतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः

ससैन्धवःसुखोष्णोबस्तिःशुक्रमांसबलजननःक्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)

-कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा

-जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः

सद्योबलजननोरसायनश्चेति()|

एरण्डमूलपलाशात्षट्पलंशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिका

गोक्षुरकोरास्नाऽश्वगन्धागुडूचीवर्षाभूरारग्वधोदेवदार्विति

पलिकानिखण्डशःक्लृप्तानिफलानिचाष्टौप्रक्षाल्यजलाढकेक्षीरपादेपचेत्|

पादशेषंकषायंपूतंशतकुसुमाकुष्ठमुस्तपिप्पलीहपुषा

बिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं[]

मधुघृततैलसैन्धवयुक्तंसुखोष्णंनिरूहमेकंद्वौत्रीन्वादद्यात्|

सर्वेषांप्रशस्तोविशेषतोललितसुकुमारस्त्रीविहारक्षीणक्षत

स्थविरचिरार्शसामपत्यकामानां[]()|

तद्वत्सहचरबलादर्भमूलसारिवासिद्धेनपयसा()|

तथाबृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेनपयसा

मधुकमदनपिप्पलीकल्कितेनपूर्ववद्वस्तिः()|

तथाबलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिका

दर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेनपयसामधुक-

मदनकल्कितेनमधुघृतसौवर्चलयुक्तेन

कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानांसद्योबलजननोरसायनश्च()|

बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचर

पलाशदेवदारुद्विपञ्चमूलानि[]पलिकानियवकोलकुलत्थद्विप्रसृतंशुष्कमूलकानां[]

चजलद्रोणसिद्धंनिरूहप्रमाणावशेषंकषायंपूतंमधुकमदनशतपुष्पा

कुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतंगुडघृत

तैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तंसुखोष्णंबस्तिंदद्या

-च्छुक्रमूत्रवर्चःसङ्गेऽनिलजेगुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषुच()|

हपुषार्धकुडवोद्विगुणार्धक्षुण्णयवःक्षीरोदकसिद्धःक्षीरशेषोमधुघृततैललवणयुक्तः

सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितोवातहरोबुद्धिमेधाग्निबलजननश्च()|

ह्रस्वपञ्चमूलीकषायःक्षीरोदकसिद्धःपिप्पलीमधुकमदनकल्कीकृतः

सगुडघृततैललवणःक्षीणविषमज्वरकर्शितस्यबस्तिः()|

बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः

सगुडघृततैललवणयुक्तःपूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणांपथ्यतमः()|

बलामधुकविदारीदर्भमूलमृद्वीकायवैःकषायमाजेनपयसापक्त्वा

मधुकमदनकल्कितंसमधुघृतसैन्धवंज्वरार्तेभ्योबस्तिंदद्यात्(१०)|

शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पै

रजाक्षीरजलप्रस्थाभ्यांसिद्धःकषायःपिप्पलीमधुकोत्पलकल्कितः

सघृतसैन्धवःक्षीणेन्द्रियविषमज्वरकर्शितस्यबस्तिःशस्तः(११)|

स्थिरादिपञ्चमूलीपञ्चपलेनशालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन

छागंपयःशृतंपादशेषंकुक्कुटाण्डरससममधुघृतशर्करा

सैन्धवसौवर्चलयुक्तोवस्तिर्वृष्यतमोबलवर्णजननश्च[]|

इतियापनाबस्तयोद्वादश||१६||

कल्पश्चैषशिखिगोनर्दहंससारसाण्डरसेषुस्यात्||१७||

सतित्तिरिःसमयूरःसराजहंसःपञ्चमूलीपयःसिद्धःशतपुष्पामधुकरास्नाकुटजमदनफल

पिप्पलीकल्कोघृततैलगुडसैन्धवयुक्तोबस्तिर्बलवर्णशुक्रजननोरसायनश्च()|

द्विपञ्चमूलीकुक्कुटरससिद्धंपयःपादशेषंपिप्पलीमधुकरास्नामदनकल्कं

शर्करामधुघृतयुक्तंस्त्रीष्वतिकामानांबलजननोबस्तिः()|

मयूरमपित्तपक्षपादास्यान्त्रंस्थिरादिभिःपलिकैःसजलेपयसिपक्त्वाक्षीरशेषंमदनपिप्पली

विदारीशतकुसुमामधुककल्कीकृतंमधुघृतसैन्धवयुक्तं

बस्तिंदद्यात्स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्योबलवर्णकरम्()|

कल्पश्चैषविष्किरप्रतुदप्रसहाम्बुचरेषुस्यात्,अक्षीरोरोहितादिषुचमत्स्येषु()|

गोधानकुलमार्जारमूषिकशल्लकमांसानांदशपलान्भागान्सपञ्चमूलान्पयसिपक्त्वातत्पयःपिप्पलीफलकल्क

सैन्धवसौवर्चलशर्करामधुघृततैलयुक्तोबस्तिर्बल्योरसायनःक्षीणक्षतस्यसन्धानकरोमथितोरस्क

रथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणांहिततमश्च()|

कूर्मादीनामन्यतमपिशितसिद्धंपयोगोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करा

सैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टोबस्तिर्वृद्धानामपिबलजननः()|

कर्कटकरसश्चटकाण्डरसयुक्तःसमधुघृतशर्करोबस्तिः;

इत्येतेबस्तयःपरमवृष्याःउच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात्स्त्रीशतगामिनंनरंकुर्युः()|

गोवृषबस्तवराहवृषणकर्कटचटकसिद्धंक्षीरमुच्चटकेक्षुरकात्मगुप्ता

मधुघृतसैन्धवयुक्तःकिञ्चिल्लवणितोबस्तिः()|

दशमूलमयूरहंसकुक्कुटक्वाथात्पञ्चप्रसृतंतैलघृतवसामज्जचतुष्प्रसृतयुक्तंशतपुष्पा

मुस्तहपुषाकल्कीकृतःसलवणोबस्तिःपादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः()|

मृगविष्किरानूपबिलेशयानामेतेनैवकल्पेनबस्तयोदेयाः(१०)|

मधुघृतद्विप्रसृतस्तुल्योष्णोदकःशतपुष्पार्धपलःसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तवातहरः(११)|

सद्योघृततैलवसामज्जचतुष्प्रस्थंहपुषार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्वृष्यतमोमूत्रकृच्छ्रपित्तव्याधिहरोरसायनः(१२)|

मधुतैलंचतुःप्रसृतंशतपुष्पार्धपलंसैन्धवार्धाक्षयुक्तोबस्तिर्दीपनो

बृंहणोबलवर्णकरोनिरुपद्रवोवृष्यतमोरसायनःक्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः(१३)|

तद्वन्मधुघृताभ्यांपयस्तुल्योबस्तिःपूर्वकल्केनबलवर्णकरोवृष्यतमो

निरुपद्रवोबस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरोरसायनश्च(१४)|

तद्वन्मधुघृताभ्यांमांसरसतुल्यो[मुस्ताक्षयुक्तः

पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः(१५)|

सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतोमुस्त

शताह्वाकल्कितःसलवणोबस्तिःसर्ववातरोगहरः(१६)|

द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायोगोमूत्रसिद्धःकुटजमदनफल

मुस्तपाठाकल्कितःसैन्धवयावशूकक्षौद्रतैलयुक्तोबस्तिःश्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्ग

पाण्डुरोगाजीर्णविसूचिकालसकेषु[]देयइति||१८||

अतऊर्ध्वंवृष्यतमान्स्नेहान्वक्ष्यामः|

शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणांयन्त्रपीडितानांरसप्रस्थं

पृथगेकैकंतद्वद्घृततैलगोमहिष्यजाक्षीराणांद्वौद्वौदद्यात्,

जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटा

पिप्पलीपुष्करबीजनीलोत्पलकदम्बपुष्प-

पुण्डरीककेशरकल्कान्पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्ष-

बर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादेश्चप्रस्थंदत्त्वासाधयेत्|

ब्रह्मघोषशङ्खपटहभेरीनिनादैःसिद्धं

सितच्छत्रकृतच्छायंगजस्कन्धमारोपयेद्भगवन्तंवृषध्वजमभिपूज्य,

तंस्नेहंत्रिभागमाक्षिकंमङ्गलाशीःस्तुतिदेवतार्चनैर्बस्तिंगमयेत्|

नृणांस्त्रीविहारिणांनष्टरेतसांक्षतक्षीणविषमज्वरार्तानां

व्यापन्नयोनीनांवन्ध्यानांरक्तगुल्मिनीनां[]

मृतापत्यानामनार्तवानांचस्त्रीणांक्षीणमांसरुधिराणां

पथ्यतमंरसायनमुत्तमंवलीपलितनाशनंविद्यात्()|१९|

बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणांशतंशतमापोथ्यजलद्रोणशतेप्रसाध्यं,

तस्मिन्जलद्रोणावशेषेरसेवस्त्रपूतेविदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुट

बर्हिहंसकारण्डवसारसाण्डरसानांघृततैलयोश्चैकैकंप्रस्थमष्टौप्रस्थान्क्षीरस्यदत्त्वाचन्दन

मधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकी-

कण्टकारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्कांश्चदत्त्वासाधयेत्|

ब्रह्मघोषादिनाविधिनासिद्धंबस्तिंदद्यात्|

तेनस्त्रीशतंगच्छेत्;नचात्रास्तेविहाराहारयन्त्रणाकाचित्|

एषवृष्योबल्योबृंहणआयुष्योवलीपलितनुत्क्षतक्षीणनष्टशुक्रविषमज्वरार्तानांव्यापन्नयोनीनांचपथ्यतमः()|

सहचरपलशतमुदकद्रोणचतुष्ट्येपक्त्वाद्रोणशेषेरसेसुपूतेविदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरंघृततैलप्रस्थं

बलामधुकमधूकचन्दनमधूलिकासारिवामेदामहामेदा

काकोलिक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनख-

शटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैःकल्कैःसाधयेत्|

बह्मघोषादिनाविधिनासिद्धंबस्तिंदद्यात्|

एषसर्वरोगहरोरसायनोललितानांश्रेष्ठोऽन्तःपुरचारिणीनांक्षतक्षयवातपित्तवेदना

श्वासकासहरस्त्रिभागमाक्षिकोवलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः() |

इत्येतेरसायनाःस्नेहबस्तयःसतिविभवेशतपाकाःसहस्रपाकावाकार्यावीर्यबलाधानार्थमिति||१९||

भवन्तिचात्र-

इत्येतेबस्तयःस्नेहाश्चोक्तायापनसञ्ज्ञिताः|
स्वस्थानामातुराणांचवृद्धानांचाविरोधिनाः||२०||

अतिव्यवायशीलानांशुक्रमांसबलप्रदाः|
सर्वरोगप्रशमनाःसर्वेष्वृतुषुयौगिकाः||२१||

नारीणामप्रजातानांनराणांचाप्यपत्यदाः|
उभयार्थकरादृष्टाःस्नेहबस्तिनिरूहयोः||२२||

व्यायामोमैथुनंमद्यंमधूनिशिशिराम्बुच|

सम्भोजनंरथक्षोभोबस्तिष्वेतेषुगर्हितम्||२३||

तत्रश्लोकाः[]-

शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः|

विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैःप्रसहैर्नव||२४||

विंशतिश्चतथासप्तविंशतिश्चाम्बुचारिभिः|

नवमत्स्यादिभिश्चैवशिखिकल्पेनबस्तयः||२५||

दशकर्कटकाद्यैश्चकूर्मकल्केनबस्तयः|

मृगैःसप्तदशैकोनविंशतिर्विष्किरैर्दश[]||२६||

आनूपैर्दक्षशिखिवद्भूशयैश्चचतुर्दश|

एकोनत्रिंशदित्येतेसहस्नेहैःसमासतः||२७||

प्रोक्ताविस्तरशोभिन्नाद्वेशतेषोडशोत्तरे|

एतेमाक्षिकसंयुक्ताःकुर्वन्त्यतिवृषं[]नरम्||२८||

नातियोगंनवाऽयोगंस्तम्भितास्तेचकुर्वते||

मृदुत्वान्ननिवर्तन्तेयस्यत्वेतेप्रयोजिताः||२९||

समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यःक्षिप्रमेवसः||

शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः||३०||

स्युर्ज्वरश्चातिसारश्चयापनात्यर्थसेवनात्||

अरिष्टक्षीरसीध्वाद्यातत्रेष्टादीपनीक्रिया||३१||

युक्त्यातस्मान्निषेवेतयापनान्नप्रसङ्गतः|

इत्युच्चैर्भाष्यपूर्वाणांव्यापदःसचिकित्सिताः||३२||

विस्तरेणपृथक्प्रोक्तास्तेभ्योरक्षेन्नरंसदा||

कर्मणांवमनादिनामसम्यक्करणापदाम्||३३||

यत्रोक्तंसाधनंस्थानेसिद्धिस्थानंतदुच्यते||

इत्यध्यायशतंविंशमात्रेयमुनिवाङ्मयम्||३४||

हितार्थंप्राणिनांप्रोक्तमग्निवेशेनधीमता||

दीर्घमायुर्यशःस्वास्थ्यं[]त्रिवर्गंचापिपुष्कलम्||३५||

सिद्धिंचानुत्तमांलोकेप्राप्नोतिविधिनापठन्||

विस्तारयतिलेशोक्तंसङ्क्षिपत्यतिविस्तरम्||३६||

संस्कर्ताकुरुतेतन्त्रंपुराणंचपुनर्नवम्|

अतस्तन्त्रोत्तममिदंचरकेणातिबुद्धिना||३७||

संस्कृतंतत्त्वसम्पूर्णंत्रिभागेनोपलक्ष्यते|

तच्छङ्करंभूतपतिंसम्प्रसाद्यसमापयत्||३८||

अखण्डार्थंदृढबलोजातःपञ्चनदेपुरे|

कृत्वाबहुभ्यस्तन्त्रेभ्योविशेषोञ्छशिलोच्चयम्||३९||

सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्|

इदमन्यूनशब्दार्थंतन्त्रदोषविवर्जितम्||४०||

षड्विंशताविचित्राभिर्भूषितंतन्त्रयुक्तिभिः||

तत्राधिकरणंयोगोहेत्वर्थोऽर्थःपदस्यच||४१||

प्रदेशोद्देशनिर्देशवाक्यशेषाःप्रयोजनम्|

उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः||४२||

प्रसङ्गैकान्तनैकान्ताःसापवर्गोविपर्ययः|

पूर्वपक्षविधानानुमतव्याख्यानसंशयाः||४३||

अतीतानागतावेक्षास्वसञ्ज्ञोह्यसमुच्चयाः|

निदर्शनंनिर्वचनंसन्नियोगोविकल्पनम्||४४||

प्रत्युत्सारस्तथोद्धारःसम्भवस्तन्त्रयुक्तयः||

तन्त्रेसमासव्यासोक्तेभवन्त्येताहिकृत्स्नशः||४५||

एकदेशेनदृश्यन्तेसमासाभिहितेतथा||

यथाऽम्बुजवनस्यार्कःप्रदीपोवेश्मनोयथा||४६||

प्रबोधनप्रकाशार्थास्तथातन्त्रस्ययुक्तयः||

एकस्मिन्नपियस्येहशास्त्रेलब्धास्पदामतिः||४७||

सशास्त्रमन्यदप्याशुयुक्तिज्ञत्वात्प्रबुध्यते|

अधीयानोऽपिशास्त्राणितन्त्रयुक्त्याविनाभिषक्|

नाधिगच्छतिशास्त्रार्थानर्थान्भाग्यक्षयेयथा||४८||

दुर्गृहीतंक्षिणोत्येवशास्त्रंशस्त्रमिवाबुधम्|

सुगृहीतंतदेवज्ञंशास्त्रंशस्त्रंचरक्षति||४९||

(तस्मादेताःप्रवक्ष्यन्तेविस्तरेणोत्तरेपुनः|

तत्त्वज्ञानार्थमस्यैवतन्त्रस्यगुणदोषतः)||५०||

इदमखिलमधीत्यसम्यगर्थान्विमृशतियोऽविमनाःप्रयोगनित्यः|

समनुजसुखजीवितप्रदाताभवतिधृतिस्मृतिबुद्धिधर्मवृद्धः||५१||

(यस्यद्वादशसाहस्रीहृदितिष्ठतिसंहिता|

सोऽर्थज्ञःसविचारज्ञश्चिकित्साकुशलश्चसः||५२||

रोगांस्तेषांचिकित्सांचसकिमर्थंनबुध्यते|

चिकित्सावह्निवेशस्यसुस्थातुरहितंप्रति||५३||

यदिहास्तितदन्यत्रयन्नेहास्तिनतत्क्वचित्|

अग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृते||५४||

सिद्धिस्थानेऽष्टमेप्राप्तेतस्मिन्दृढबलेनतु|

सिद्धिस्थानंस्वसिद्ध्यर्थंसमासेनसमापितम्)||५५||

इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेऽप्राप्तेदृढबलसम्पूरित

सिद्धिस्थानेउत्तरबस्तिसिद्धिर्नामद्वादशोऽध्यायः||१२||

इतिचरकसंहितायांअष्टमंसिद्धिस्थानंसम्पूर्णम्|

समाप्तेयंचरकसंहिता|

 

Post a Comment

0 Comments