Advertisement

Responsive Advertisement

Charak siddhi chapter 11 phalmatrasiddhim








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

अथातःफलमात्रासिद्धिंव्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्|
फलबस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन्||||

भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः|
कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति||||

कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः|
मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामकः||||

कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं तत्|
तदवृष्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत् ||||

कफपित्तनिबर्हणं परं धामार्गवमित्यमन्यत |

तदमन्यतवातलंपुनर्बडिशोग्लानिकरंबलापहम्||||

कुटजं प्रशशंस चोत्तमं बलघ्नं कफपित्तहारि |

अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि काप्य आह तत्||||

कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति|

तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||||

इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् |
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०||

फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता|
तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते ||११||

इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्|
कुटजस्य फलं हृदामये प्रवरं कोठफलं पाण्डुषु||१२||

उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु|
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३||

कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि |
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||

गुरुणेति वचस्युदाहृते मुनिसङ्घेन पूजिते ततः |
प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणोऽनुपृष्टवान्||१५||

सर्वकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः|
नाभ्यधो गुदमतः शरीरात् सर्वतः कथमपोहति दोषान् ||१६||

तद्गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्गविघातात् [] |

केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति||१७||

तपवनंसपित्तकफविट्कंशुद्धिकरोऽनुलोमयतिबस्तिः|
सर्वशरीरगश्च गदसङ्घस्तत्प्रशमात् प्रशान्तिमुपयाति||१८||

अथाधिगम्यार्थमखण्डितं धिया गजोष्ट्रगोश्वाव्यजकर्म रोगनुत्|
अपृच्छदेनं बस्तिमब्रवीद्विधिं तस्याह पुनः प्रचोदितः||१९||

आजोरणौ सौम्य ! गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्|
अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः||२०||

अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि दशाङ्गुलं क्रमात्|
गजोष्ट्रगोश्वाव्यजबस्तिसन्धौ चतुर्थभागोपनयं हितं वदेत् ||२१||

प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गवादिषु द्वित्रिगुणं यथाबलम्|
निरूहमुष्ट्रस्य तथाऽऽढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः||२२||

कलिङ्गकुष्ठे मधुकं पिप्पली वचा शताह्वा मदनं रसाञ्जनम्|
हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं विकल्पना त्वियम्||२३||

गजेऽधिकाऽश्वत्थवटाश्वकर्णकाः सखादिरप्रग्रहशालतालजाः|
तथा पर्ण्यौ धवशिग्रुपाटली मधूकसाराः सनिकुम्भचित्रकाः||२४||

पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः|
पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः||२५||

खरोष्ट्रयोः पीलुकरीरखादिराः शम्याकबिल्वादिगणस्य च्छदाः|
अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम्||२६||

अथाग्निवेशः सततातुरान् नरान् हितं पप्रच्छ गुरुस्तदाह |
सदाऽऽतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः||२७||

द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं चेष्टते |
नृपोपसेवी नृपचित्तरक्षणात् परानुरोधाद्बहुचिन्तनाद्भयात् ||२८||

नृचित्तवर्तिन्युपचारतत्परा मृजाभि(वि)भूषानिरता पणाङ्गना|
सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः||२९||

सदैव ते ह्यागतवेगनिग्रहं समाचरन्ते कालभोजनम्|
अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते||३०||

समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्|
समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत्||३१||

पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्|
महान्ति मूलानि पञ्च यानि विपाच्य मूत्रे दधिमस्तुसंयुते||३२||

सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्|
निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततोऽनुवासयेत्||३३||

बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्|
यवान् कुलत्थांश्च पचेज्जलाढके रसः पेष्यैस्तु कलिङ्गकादिभिः||३४||

सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः|
तथाऽनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽपि वा||३५||

सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः|
चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम्||३६||

तत्र श्लोकः-

फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्|
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||

Post a Comment

0 Comments