Advertisement

Responsive Advertisement

Charak Samhita Sutrasthan Chapter 7 Navegaan Dharniya Adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

  Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.


अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः| रेतसो वातस्य छर्द्याः क्षवथोर्न ||||

नोद्गारस्य जृम्भाया वेगान् क्षुत्पिपासयोः| बाष्पस्य निद्राया निःश्वासस्य श्रमेण ||||

एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये| पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु||||

बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे||||

स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् | मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म ||||

पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् | पिण्डिsकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||||

स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म | हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि ||||

मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा| भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव ||१०||

तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः| शालिः पयो निरूहश्च शस्तं मैथुनमेव ||११||

सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः| जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्||१२||

स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि | पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||१३||

कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः| कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः||१४||

भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्| रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते||१५||

मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ| इन्द्रियाणां दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६||

तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः| हितं वातघ्नमाद्यं घृतं चौत्तरभक्तिकम्||१७||

हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः| उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्||१८||

विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्| जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्||१९||

कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः| क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्||२०||

कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा| पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते||२१||

प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः| बाष्पनिग्रहणात्तत्र स्वप्नो मद्यं प्रियाः कथाः||२२||

जृम्भाऽङ्गमर्दस्तन्द्रा शिरोरोगोऽक्षिगौरवम्| निद्राविधारणात्तत्र स्वप्नः संवाहनानि ||२३||

गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्| जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः||२४||

वेगनिग्रहजा रोगा एते परिकीर्तिताः| इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्||२५||

इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह | साहसानामशस्तानां मनोवाक्कायकर्मणाम्||२६||

लोभशोकभयक्रोधमानवेगान् विधारयेत्| नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्||२७||

परुषस्यातिमात्रस्य सूचकस्यानृतस्य | वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्||२८||

देहप्रवृत्तिर्या काचिद्विद्यते परपीडया| स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत्||२९||

पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्| धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति ||३०||

शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी| देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्||३१||

लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता | दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२||

श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः| अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||३३||

(स्वेदागमः श्वासवृद्धिर्गात्राणां लाघवं तथा| हृदयाद्युपरोधश्च इति व्यायामलक्षणम्||||)

व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्| नोचितानपि सेवेत बुद्धिमानतिमात्रया||३४||

एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते| गजं सिंह इवाकर्षन् सहसा विनश्यति||३५||

(अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः | क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः||||

बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः| ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये||||)

उचितादहिताद्धीमान् क्रमशो विरमेन्नरः| हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते||३६||

प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्| एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||३७||

समपित्तानिलकफाः केचिद्गर्भादि मानवाः| दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा||३९||

तेषामनातुराः पूर्वे वातलाद्याः सदातुराः| दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते||४०||

विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः| समसर्वरसं सात्म्यं समधातोः प्रशस्यते||४१||

द्वे अधः सप्त शिरसि खानि स्वेदमुखानि | मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः||४२||

मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्| मलायनानां बुध्येत सङ्गोत्सर्गादतीव ||४३||

तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्| व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्||४४||

विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे | जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत् ||४५||

माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्||४६||

स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः| बस्तिकर्म ततः कुर्यान्नस्यकर्म बुद्धिमान्||४७||

यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||४८||

रोगास्तथा जायन्ते प्रकृतिस्थेषु धातुषु| धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति ||४९||

विधिरेष विकाराणामनुत्पत्तौ निदर्शितः| निजानामितरेषां तु पृथगेवोपदेक्ष्यते||५०||

ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः| नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति||५१||

ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये| मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः||५२||

त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३||

आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः| प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः||५४||

आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम्| विकाराणामनुत्पत्तावुत्पन्नानां शान्तये||५५||

पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः| मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६||

परापवादरतयश्चपला रिपुसेविनः| निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७||

बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः| वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८||

सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः| सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः||५९||

आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह | परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने||६०||

नक्तं दधि भुञ्जीत चाप्यघृतशर्करम्| नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ||६१||

ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्| प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः||६२||

तत्र श्लोकाः- वेगा वेगसमुत्थाश्च रोगास्तेषां भेषजम्| येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्||६३||

उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः| यथाप्रकृति चाहारो मलायनगदौषधम्||६४||

भविष्यतामनुत्पत्तौ रोगाणामौषधं यत्| वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना||६५||

विधिना दधि सेव्यं येन यस्मात्तदत्रिजः| नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः||६६||

 

Post a Comment

0 Comments