For joining Test series Click Here
Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह à¤à¤—वानात्रेयः||२||
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते|
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३||
इह खलु संवत्सरं षडङ्गमृतुविà¤ागेन विद्यात्|
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्,
वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च||४||
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने;
सोमश्चाव्याहतबलः शिशिराà¤िर्à¤ाà¤िरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः|
आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वà¤ावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययà¤ूताःसमुपदिश्यन्ते||५||
वर्षाशरद्धेमन्तेषु तु दक्षिणाà¤िमुखेऽर्के कालमार्गमेघवातवर्षाà¤िहतप्रतापे,
शशिनि चाव्याहतबले,
माहेन्द्रसलिलप्रशान्तसन्तापे जगति,
अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||à¥||
à¤à¤µà¤¨्ति चात्र- आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्| मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली| पक्ता à¤à¤µà¤¤ि हेमन्ते मात्राद्रव्यगुरुक्षमः||९||
स यदा नेन्धनं युक्तं लà¤à¤¤े देहजं तदा| रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्| औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||
बिलेशयानां मांसानि प्रसहानां à¤ृतानि च|
à¤à¤•्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|
हेमन्तेऽà¤्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||
अà¤्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्| à¤à¤œेद्à¤ूमिगृहं चोष्णमुष्णं गर्à¤à¤—ृहं तथा||१४||
शीतेषु संवृतं सेव्यं यानं शयनमासनम्|
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा| शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|
प्रकामं च निषेवेत मैथुनं शिशिरागमे||१à¥||
वर्जयेदन्नपानानि वातलानि लघूनि च| प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्| रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते| निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||
कटुतिक्तकषायाणि वातलानि लघूनि च| वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||
वसन्ते निचितः श्लेष्मा दिनकृद्à¤ाà¤िरीरितः| कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्| गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||
चन्दनागुरुदिग्धाङ्गो यवगोधूमà¤ोजनः| शारà¤ं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||
à¤à¤•्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा| वसन्तेऽनुà¤à¤µेत् स्त्रीणां काननानां च यौवनम्||२६||
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२à¥||
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः| घृतं पयः सशाल्यन्नं à¤à¤œà¤¨् ग्रीष्मे न सीदति||२८||
मद्यमल्पं न वा पेयमथवा सुबहूदकम्|
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ||२९||
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|
à¤à¤œेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|
सेव्यमानो à¤à¤œेदास्यां मुक्तामणिविà¤ूषितः||३१||
काननानि च शीतानि जलानि कुसुमानि च| ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||
आदानदुर्बले देहे पक्ता à¤à¤µà¤¤ि दुर्बलः|
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||
à¤ूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च| वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|
पानà¤ोजनसंस्कारान् प्रायः क्षौद्रान्वितान् à¤à¤œेत्||३६||
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि| विशेषशीते à¤ोक्तव्यं वर्षास्वनिलशान्तये||३à¥||
अग्निसंरक्षणवता यवगोधूमशालयः|
पुराणा जाङ्गलैर्मांसैर्à¤ोज्या यूषैश्च संस्कृतैः||३८||
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा| माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो à¤à¤µेत्| लघुशुद्धाम्बरः स्थानं à¤à¤œेदक्लेदि वार्षिकम्||४०||
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिà¤िः| तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||
लावान् कपिञ्जलानेणानुरà¤्राञ्छरà¤ान् शशान्| शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|
धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||
वसां तैलमवश्यायमौदकानूपमामिषम्|
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्| कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्||४६||
हंसोदकमिति ख्यातं शारदं विमलं शुचि|
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ||४à¥|
शारदानि च माल्यानि वासांसि विमलानि च| शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः||४८||
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्| उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते||४९||
देशानामामयानां च विपरीतगुणं गुणैः| सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||५०||
तत्र श्लोकः-
ऋतावृतौ नृà¤िः सेव्यमसेव्यं यच्च किञ्चन|
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च||५१||
0 Comments