Advertisement

Responsive Advertisement

Charak Samhita Sutrasthan chapter 29 dashpranayataniyam Adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः | शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्||||

तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्| जानीते यः वै विद्वान् प्राणाभिसर उच्यते||||

द्विविधास्तु खलु भिषजो भवन्त्यग्निवेश! प्राणानामेकेऽभिसरा हन्तारो रोगाणां, रोगाणामेकेऽभिसरा हन्तारःप्राणानामिति||||

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- भगवंस्ते कथमस्माभिर्वेदितव्या भवेयुरिति||||

भगवानुवाच- इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तःसर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः प्रतिपत्तिज्ञाश्च ते ज्ञेयाः प्राणानामभिसरा हन्तारो रोगाणां; तथाविधा हि केवले शरीरज्ञानेशरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने निःसंशयाः, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां रोगाणांसमुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसन्देहाः, त्रिविधस्यायुर्वेदसूत्रस्य ससङ्ग्रहव्याकरणस्यसत्रिविधौषधग्रामस्य प्रवक्तारः , पञ्चत्रिंशतो मूलफलानां चतुर्णां स्नेहानां पञ्चानां लवणानामष्टानां मूत्राणामष्टानांच क्षीराणां क्षीरत्वग्वृक्षाणां षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनांद्वात्रिंशतश्चूर्णप्रदेहानां षण्णं विरेचनशतानां पञ्चानां कषायशतानां प्रयोक्तारः,स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जन-परिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशलाः , चतुष्पादोपगृहीते भेषजे षोडशकलेसविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः, चतुर्विधस्य स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य चतुःषष्टिपर्यन्तस्य व्यवस्थापयितारः, बहुविधविधानयुक्तानां स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां चकुशलाः, शिरोरोगादेर्दोषांशविकल्पजस्य व्याधिसङ्ग्रहस्य सक्षयपिडकाविद्रधेस्त्रयाणां शोफानांबहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य नानात्मजस्य व्याधिशतस्य तथाविगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य हिताहितस्यास्वप्नातिस्वप्नस्य सहेतूपक्रमस्य षण्णां चलङ्घनादीनामुपक्रमाणां सन्तर्पणापतर्पणजानां रोगाणां सरूपप्रशमनानां शोणितजानां व्याधीनां मदमूर्च्छायसन्न्यासानांच सकारणरूपौषधोपचाराणां कुशलाः, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्याहिताहितानामाहारविकाराणामग्र्यसङ्ग्रहस्यासवानां चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्यसविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसङ्ग्रहस्याहारगतेश्चहिताहितोपयोगविशेषात्मकस्य शुभाशुभविशेषस्य धात्वाश्रयाणां रोगाणां सौषधसङ्ग्रहाणां दशानां प्राणायतनानां यं चवक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य चग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः , कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनःशीलगुणैरविसंवादनेन सम्पादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत्, एवंयुक्ता भवन्त्यग्निवेश!प्राणानामभिसरा हन्तारो रोगाणामिति||||

अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानां, भिषक्छद्मप्रतिच्छन्नाः कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञांप्रमादाच्चरन्ति राष्ट्राणि||||

तेषामिदं विशेषविज्ञानं भवति- अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा चकस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, यश्चास्य वैद्यः प्रतिकर्म करोति तस्य चदोषान्मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं, स्वल्पेच्छुतां चात्मनः ख्यापयन्ति,कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिं चापावर्तयितुमशक्नुवतोव्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति , अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनःकृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति, अधीरवच्च धैर्यमपवदन्ति धीराणां, विद्वज्जनसन्निपातं(चाभिसमीक्ष्य) प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात्, यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तस्तमप्रकृतेप्रकृतान्तरे वा सततमुदाहरन्ति, चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिव चानुयोगादुद्विजन्ते, चैषामाचार्यः शिष्यःसब्रह्मचारी वैवादिको वा कश्चित् प्रज्ञायत इति||||

भवन्ति चात्र- भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये| वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान्||१०||

श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृताः| वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि||११||

वृत्तिहेतोर्भिषङ्मानपूर्णान् मूर्खविशारदान्| वर्जयेदातुरो विद्वान् सर्पास्ते पीतमारुताः||१२||

ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः| जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः||१३||

तत्र श्लोकः- दशप्राणायतनिके श्लोकस्थानार्थसङ्ग्रहः| द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि ||१४||

 

Post a Comment

0 Comments