For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानंकालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयतिच|
धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते||३||
तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यमभिनिर्वर्तते|
किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाःपुष्यन्ति|
पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसञ्ज्ञकानिशरीरसन्धिबन्धपिच्छादयश्चावयवाः|
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम्|
एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः|
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय,
किट्टं चमलानामेवमेव|
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीर धातुसाम्यकराः समुपलभ्यन्ते||४||
तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि|
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति|
एवमिदं शरीरमशितपीतलीढखादितप्रभवम्|
अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति|
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति||५||
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच-दृश्यन्ते हि भगवन्! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च,तथैवाहितसमाख्यातम्;
एवं दुष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति||६||
तमुवाच भगवानात्रेयः- न हिताहारोपयोगिनामग्निवेश! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेवसर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः,शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति|
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्तेव्याधिमन्तः|
अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः|
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः,
न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति|
तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं सम्पद्यते|
स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्चसम्पद्यते|
शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि चभवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि|
एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति|
त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्तयन्त्यग्निवेश!||७||
तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस्तान् यथावदनुव्याख्यास्यामः||८||
अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता|
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः ||९||
पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता| नाशोऽग्नेरयथाकालं वलयः पलितानि च||१०||
रसप्रदोषजा रोगा,...|११|
...वक्ष्यन्ते रक्तदोषजाः|
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः||११||
गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः| नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः||१२||
दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्| रक्तप्रदोषाज्जायन्ते,...|१3|
...शृणु मांसप्रदोषजान्||१३||
अधिमांसार्बुदं कीलं गलशालूकशुण्डिके| पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः||१४||
विद्यान्मांसाश्रयान्,...|१५|
.. मेदःसंश्रयांस्तु प्रचक्ष्महे| निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च||१५||
अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता| केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः||१६||
रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा| अरुषां स्थूलमूलानां पर्वजानां च दर्शनम्||१७||
मज्जप्रदोषात्, ...|१८|
...शुक्रस्य दोषात् क्लैब्यमहर्षणम्| रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते||१८||
न चास्य जायते गर्भः पतति प्रस्रवत्यपि| शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्||१९||
इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः|
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते||२०||
स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम्|
स्तम्भसङ्कोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः||२१||
मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्| दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च||२२||
विविधादशितात् पीतादहिताल्लीढखादितात्|
भवन्त्येते मनुष्याणां विकारा य उदाहृताः||२३||
तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा| हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः||२४||
रसजानां विकाराणां सर्वं लङ्घनमौषधम्| विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्||२५||
मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च| अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्||२६||
अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्| बस्त्यः क्षीरसर्पींषि तिक्तकोपहितानि च||२७||
मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्| अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया||२८||
शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते| स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके||२९||
नवेगान्धारणेऽध्याये चिकित्सासङ्ग्रहः कृतः| मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्||३०||
व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्| कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च||३१||
तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः| नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः||३२||
वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्| शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्||३३||
अजातानामनुत्पत्तौ जातानां विनिवृत्तये|
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत्||३४||
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः|
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः||३५||
हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः|
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः||३६||
श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्| वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम्||३७||
लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् |
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः||३८||
प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते|
सन्धारयति वेगांश्च सेवते साहसानि च||३९||
तदात्वसुखसञ्ज्ञेषु भावेष्वज्ञोऽनुरज्यते| रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते||४०||
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्|
परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१||
आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः| शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२||
परिहार्याण्यपथ्यानि सदा परिहरन्नरः|
भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः||४३||
यत्तु रोगसमुत्थानमशक्यमिह केनचित्| परिहर्तुं न तत् प्राप्य शोचितव्यं मनीषिभिः||४४||
तत्र श्लोकाः- आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः|
हिताहितविशेषाच्च विशेषः सुखदुःखयोः||४५||
सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः | विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक्||४६||
तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च| दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च||४७||
प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्| विविधाशितपीतीये तत् सर्वं सम्प्रकाशितम्||४८||
0 Comments