For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अर्थेदशमहामूलीयाध्यायोपक्रमः अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अर्थे दश महामूलाः समासक्ता महाफलाः|
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः||३||
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्|
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्||४||
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते| गोपानसीनामागारकर्णिकेवार्थचिन्तकैः||५||
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति|६|
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्||६||
तत् परस्यौजसः स्थानं तत्र चैतन्यसङ्ग्रहः|
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः ||७||
तेन मूलेन महता महामूला मता दश| ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः||८||
येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः |
यदृते सर्वभूतानां जीवितं नावतिष्ठते||९||
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः | संवर्तमानं हृदयं समाविशति यत् पुरा ||१०||
यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् | यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः||११||
तत्फला बहुधा वा ताः फलन्तीव(ति) महाफलाः|१२|
तन्महत् ता महामूलास्तच्चोजः परिरक्षता| परिहार्या विशेषेण मनसो दुःखहेतवः||१३||
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्|
तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च||१४||
अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति | तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं,
वीर्यं बलवर्धनानां,
विद्या बृंहणानाम्,
इन्द्रियजयो नन्दनानां,
तत्त्वावबोधोहर्षणानां, ब्रह्मचर्यमयनानामिति; एवमायुर्वेदविदो मन्यन्ते||१५||
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः| तत्राह- कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति||१६||
अत्रोच्यते- तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम्||१७||
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वंवाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशोभवत्युक्तम्||१८||
तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्||१९||
तत्र चेत् प्रष्टारः स्युः-चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः? किमायुः?
कस्मादायुर्वेदः? किमर्थमायुर्वेदः? शाश्वतोऽशाश्वतो वा? कति कानि चास्याङ्गानि? कैश्चायमध्येतव्यः? किमर्थं च? इति||२०||
तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणोदानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते||२१||
वेदं चोपदिश्यायुर्वाच्यं;
तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः||२२||
तदायुर्वेदयतीत्यायुर्वेदः; कथमिति चेत्? उच्यते-स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च;यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः| तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण||२३||
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च|
तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशःपौरुषपराक्रमस्यज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणःसुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनःसुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुंचावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते;
अहितमतो विपर्ययेण||२४||
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः,
अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति;
तत्र स्वभावः प्रवृत्तेरुपरमोमरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्;
अतो विपरीतमप्रमाणमरिष्टाधिकारे;
देहप्रकृतिलक्षणमधिकृत्यचोपदिष्टमायुषः प्रमाणमायुर्वेदे ||२५||
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च||२६||
सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते, अनादित्वात्,
स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च| न हि नाभूत् कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा,
शाश्वतश्चायुषो वेदिता,
अनादि च सुखदुःखंसद्रव्यहेतुलक्षणमपरापरयोगात्|
एष चार्थसङ्ग्रहो विभाव्यते आयुर्वेदलक्षणमिति| गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयोभवत्यपचयो लघूनां, एवमेवेतरेषामिति,
एष भावस्वभावो नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां;
सन्ति तु द्रव्याणिगुणाश्च नित्यानित्याः| न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते,
अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके|
स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा- अग्नेरौष्ण्यम्, अपां द्रवत्वम्| भावस्वभावनित्यत्वमपि चास्य, यथोक्तं- गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति||२७||
तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा- कायचिकित्सा, शालाक्यं,
शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या,कौमारभृत्यकं,
रसायनं, वाजीकरणमिति||२८||
स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः| तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं राजन्यैः,
वृत्त्यर्थं वैश्यैः;
सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः| तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति,यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात्सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा,
सोऽस्यार्थः; यत् पुनरस्यविद्वद्ग्रहणयशः [२] शरण्यत्वं च, या च सम्मानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः| इति यथाप्रश्नमुक्तमशेषेण||२९||
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति- तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्,
अध्यायम्, अध्यायार्थान्, प्रश्नं,प्रश्नार्थांश्चेति;
पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति ||३०||
तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ||३१||
तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः| स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः,
तानि चप्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण||३२||
तन्त्रस्यास्याष्टौ स्थानानि; तद्यथा- श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि|
तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां,
त्रिंशकंचिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः||३३||
भवति चात्र- द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता| श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसञ्ज्ञकेषु||३४||
स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते| सविंशमध्यायशतं शृणु नामक्रमागतम्||३५||
दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ| षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रयः||३६||
मात्रातस्याशितीयौ च नवेगान्धारणं तथा| इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः ||३७||
खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा| सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः||३८||
स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः| चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः||३९||
कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिकौ| रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम्||४०||
अष्टौनिन्दितसङ्ख्यातस्तथा लङ्घनतर्पणे| विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः||४१||
यज्जःपुरुषसङ्ख्यातो भद्रकाप्यान्नपानिकौ| विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः||४२||
दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः| द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ||४३||
औषधस्वस्थनिर्देशकल्पनारोगयोजनाः| चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः||४४||
द्वौ चान्त्यौ सङ्ग्रहाध्यायाविति त्रिंशकमर्थवत्| श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ||४५||
चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः| श्लोकार्थः सङ्ग्रहार्थश्च श्लोकस्थानमतः स्मृतम्||४६||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादनिदाने च स्यादपस्मारिणां च यत्||४७||
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते| रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च||४८||
त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने|
रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते||४९||
अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा| कतिधापुरुषीयं च गोत्रेणातुल्यमेव च||५०||
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते| पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ||५१||
शरीरसङ्ख्या सूत्रं च जातेरष्टममुच्यते | इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना||५२||
वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः| चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः||५३||
कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः|
यस्यश्यावनिमित्तश्च सद्योमरण एव च||५४||
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्| द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ||५५||
अभयामलकीयं च प्राणकामीयमेव च| करप्रचितकं वेदसमुत्थानं रसायनम्||५६||
संयोगशरमूलीयमासिक्तक्षीरकं तथा| माषपर्णभृतीयं च पुमाञ्जातबलादिकम्||५७||
चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते| रसायनमिति ज्ञेयं वाजीकरणमेव च||५८||
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम्||५९||
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्| छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः||६०||
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च| वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्||६१||
त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान् प्रचक्ष्महे|
फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च||६२||
पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने| श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले||६३||
तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च| दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते||६४||
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च|
स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा||६५||
सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च| प्रासृती मर्मसङ्ख्याता सिद्धिर्बस्त्याश्रया च या||६६||
फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसञ्ज्ञिता| सिद्धयो द्वादशैवैतास्तन्त्रं चासु समाप्यते||६७||
स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते| तं ब्रूयात् सर्वतः सर्वं यथास्वं ह्यर्थसङ्ग्रहात्||६८||
पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते|
प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः ||६९||
निरुक्तं तन्त्रणात्तन्त्रं,
स्थानमर्थप्रतिष्ठया| अधिकृत्यार्थमध्यायनामसञ्ज्ञा प्रतिष्ठिता ||७०||
इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्| कार्त्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुविनिश्चितः||७१||
सन्ति पाल्लविकोत्पाताः सङ्क्षोभं जनयन्ति ये|
वर्तकानामिवोत्पाताः सहसैवाविभाविताः||७२||
तस्मात्तान् पूर्वसञ्जल्पे सर्वत्राष्टकमादिशेत्| परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्||७३||
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः| भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः||७४||
पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते|
स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः||७५||
तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः| स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते||७६||
बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः|
किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा||७७||
सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि|
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः ||७८||
दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः| प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः||७९||
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः| स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः||८०||
परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परा दया|
येषां तेषामसद्वादनिग्रहे निरता मतिः||८१||
असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः| भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः||८२||
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्| प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः||८३||
समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्| सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्||८४||
इदमेवमुदारार्थमज्ञानां न प्रकाशकम्|
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्||८५||
तत्र श्लोकाः- अर्थे दशमहामूलाः सञ्ज्ञा चासां यथा कृता|
अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्||८६||
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः|
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः||८७||
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्| सङ्ग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः||८८||
यथा सुमनसां सूत्रं सङ्ग्रहार्थं विधीयते|
सङ्ग्रहार्थं तथाऽर्थानामृषिणा सङ्ग्रहः कृतः||८९||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः||३०||
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेइयताऽवधिना सर्वं सूत्रस्थानं समाप्यते
0 Comments