For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातः पूर्वरूपीयमिन्द्रियं
व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वरूपाण्यसाध्यानां
विकाराणां पृथक् पृथक्|
भिन्नाभिन्नानि वक्ष्यामो
भिषजां ज्ञानवृद्धये||३||
पूर्वरूपाणि सर्वाणि
ज्वरोक्तान्यतिमात्रया|
यं विशन्ति विशत्येनं
मृत्युर्ज्वरपुरःसरः||४||
अन्यस्यापि च रोगस्य
पूर्वरूपाणि यं नरम्|
विशन्त्यनेन कल्पेन तस्यापि
मरणं ध्रुवम्||५||
पूर्वरूपैकदेशांस्तु
वक्ष्यामोऽन्यान् सुदारुणान्|
ये रोगाननुबध्नन्ति
मृत्युर्यैरनुबध्यते [१] ||६||
बलं च हीयते यस्य
प्रतिश्यायश्च वर्धते|
तस्य नारीप्रसक्तस्य
शोषोऽन्तायोपजायते||७||
श्वभिरुष्ट्रैः खरैर्वाऽपि
याति यो दक्षिणां दिशम्|
स्वप्ने यक्ष्माणमासाद्य
जीवितं स विमुञ्चति||८||
प्रेतैः सह पिबेन्मद्यं
स्वप्ने यः कृष्यते शुना|
सुघोरं ज्वरमासाद्य जीवितं
स विमुञ्चति||९||
लाक्षारक्ताम्बराभं यः
पश्यत्यम्बरमन्तिकात्|
स रक्तपित्तमासाद्य
तेनैवान्ताय नीयते||१०||
रक्तस्रग्रक्तसर्वाङ्गो
रक्तवासा मुहुर्हसन्|
यः स्वप्ने ह्रियते नार्या
स रक्तं प्राप्य सीदति||११||
शूलाटोपान्त्रकूजाश्च
दौर्बल्यं चातिमात्रया|
नखादिषु च वैवर्ण्यं
गुल्मेनान्तकरो ग्रहः||१२||
लता कण्टकिनी यस्य दारुणा
हृदि जायते|
स्वप्ने गुल्मस्तमन्ताय
क्रूरो विशति मानवम्||१३||
कायेऽल्पमपि संस्पृष्टं
सुभृशं यस्य दीर्यते|
क्षतानि च न रोहन्ति
कुष्ठैर्मृत्युर्हिनस्ति तम्||१४||
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्|
पद्मान्युरसि जायन्ते
स्वप्ने कुष्ठैर्मरिष्यतः||१५||
स्नातानुलिप्तगात्रेऽपि
यस्मिन् गृध्नन्ति मक्षिकाः|
स प्रमेहेण संस्पर्शं
प्राप्य तेनैव हन्यते||१६||
स्नेहं बहुविधं स्वप्ने
चण्डालैः सह यः पिबेत्|
बध्यते स प्रमेहेण
स्पृश्यतेऽन्ताय मानवः||१७||
ध्यानायासौ तथोद्वेगौ
मोहश्चास्थानसम्भवः|
अरतिर्बलहानिश्च
मृत्युरुन्मादपूर्वकः||१८||
आहारद्वेषिणं पश्यन्
लुप्तचित्तमुदर्दितम्|
विद्याद्धीरो मुमूर्षुं
तमुन्मादेनातिपातिना||१९||
क्रोधनं त्रासबहुलं
सकृत्प्रहसिताननम्|
मूर्च्छापिपासाबहुलं
हन्त्युन्मादः शरीरिणम्||२०||
नृत्यन् रक्षोगणैः साकं यः
स्वप्नेऽम्भसि सीदति |
स प्राप्य भृशमुन्मादं याति
लोकमतः परम्||२१||
असत्तमः पश्यति यः
शृणोत्यप्यसतः स्वनान्|
बहून् बहुविधान् जाग्रत्
सोऽपस्मारेण बध्यते||२२||
मत्तं नृत्यन्तमाविध्य
प्रेतो हरति यं नरम्|
स्वप्ने हरति तं
मृत्युरपस्मारपुरःसरः||२३||
स्तभ्येते प्रतिबुद्धस्य
हनू मन्ये तथाऽक्षिणी|
यस्य तं बहिरायामो गृहीत्वा
हन्त्यसंशयम्||२४||
शष्कुलीर्वाऽप्यपूपान् वा
स्वप्ने खादति यो नरः|
स चेत्तादृक् छर्दयति
प्रतिबुद्धो न जीवति||२५||
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते|
स एषामनुबन्धं
च फलं च ज्ञातुमर्हति||२६||
इमांश्चाप्यपरान् स्वप्नान्
दारुणानुपलक्षयेत्|
व्याधितानां विनाशाय
क्लेशाय महतेऽपि वा||२७||
यस्योत्तमाङ्गे जायन्ते
वंशगुल्मलतादयः|
वयांसि च विलीयन्ते स्वप्ने
मौण्ड्यमियाच्च यः||२८||
गृध्रोलूकश्वकाकाद्यैः
स्वप्ने यः परिवार्यते|
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः
||२९||
वंशवेत्रलतापाशतृणकण्टकसङ्कटे|
संसज्जति हि यः स्वप्ने यो
गच्छन् प्रपतत्यपि||३०||
भूमौ पांशूपधानायां वल्मीके
वाऽथ भस्मनि|
श्मशानायतने श्वभ्रे
स्वप्ने यः प्रपतत्यपि ||३१||
कलुषेऽम्भसि पङ्के वा कूपे
वा तमसाऽऽवृते|
स्वप्ने मज्जति शीघ्रेण
स्रोतसा ह्रियते च यः||३२||
स्नेहपानं तथाऽभ्यङ्गः
प्रच्छर्दनविरेचने|
हिरण्यलाभः कलहः स्वप्ने
बन्धपराजयौ||३३||
उपानद्युगनाशश्च प्रपातः
पादचर्मणोः|
हर्षः स्वप्ने प्रकुपितैः
पितृभिश्चावभर्त्सनम्||३४||
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्
|
पतनं वा विनाशो वा स्वप्ने
भेदो नगस्य वा||३५||
रक्तपुष्पं वनं भूमिं
पापकर्मालयं चिताम्|
गुहान्धकारसम्बाधं स्वप्ने
यः प्रविशत्यपि||३६||
रक्तमाली
हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्|
दारुणामटवीं स्वप्ने
कपियुक्तेन याति वा||३७||
काषायिणामसौम्यानां
नग्नानां दण्डधारिणाम्|
कृष्णानां रक्तनेत्राणां
स्वप्ने नेच्छन्ति दर्शनम्||३८||
कृष्णा पापा निराचारा
दीर्घकेशनखस्तनी|
विरागमाल्यवसना स्वप्ने
कालनिशा मता||३९||
इत्येते दारुणाः स्वप्ना
रोगी यैर्याति पञ्चताम्|
अरोगः संशयं गत्वा कश्चिदेव
प्रमुच्यते||४०||
मनोवहानां
पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः|
स्रोतसां दारुणान्
स्वप्नान् काले पश्यति दारुणे||४१||
नातिप्रसुप्तः पुरुषः
सफलानफलांस्तथा|
इन्द्रियेशेन मनसा
स्वप्नान् पश्यत्यनेकधा||४२||
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा|
भाविकं दोषजं
चैव स्वप्नं सप्तविधं विदुः||४३||
तत्र पञ्चविधं पूर्वमफलं
भिषगादिशेत्|
दिवास्वप्नमतिह्रस्वमतिदीर्घं
च बुद्धिमान्||४४||
दृष्टः प्रथमरात्रे यः
स्वप्नः सोऽल्पफलो भवेत्|
न स्वपेद्यं पुनर्दृष्ट्वा
स सद्यः स्यान्महाफलः||४५||
अकल्याणमपि स्वप्नं
दृष्ट्वा तत्रैव यः पुनः|
पश्येत् सौम्यं शुभाकारं
तस्य विद्याच्छुभं फलम्||४६||
तत्र श्लोकः-
पूर्वरूपाण्यथ
स्वप्नान् य इमान् वेत्ति दारुणान्|
न स
मोहादसाध्येषु कर्माण्यारभते भिषक्||४७||
0 Comments