For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
इन्द्रियानीकेन्द्रियोपक्रमः
अथात
इन्द्रियानीकमिन्द्रियं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
इन्द्रियाणि यथा जन्तोः
परीक्षेत विशेषवित्|
ज्ञातुमिच्छन्
भिषङ्मानमायुषस्तन्निबोधत ||३||
अनुमानात् परीक्षेत
दर्शनादीनि तत्त्वतः|
अद्धा हि विदितं
ज्ञानमिन्द्रियाणामतीन्द्रियम्||४||
स्वस्थेभ्यो विकृतं यस्य
ज्ञानमिन्द्रियसंश्रयम् |
आलक्ष्येतानिमित्तेन लक्षणं
मरणस्य तत्||५||
इत्युक्तं लक्षणं
सम्यगिन्द्रियेष्वशुभोदयम्|
तदेव तु पुनर्भूयो विस्तरेण
निबोधत||६||
घनीभूतमिवाकाशमाकाशमिव मेदिनीम्|
विगीतमुभयं
ह्येतत् पश्यन् मरणमृच्छति||७||
यस्य दर्शनमायाति मारुतोऽम्बरगोचरः|
अग्निर्नायाति
चादीप्तस्तस्यायुःक्षयमादिशेत्||८||
जले सुविमले जालमजालावतते नरः|
स्थिते
गच्छति वा दृष्ट्वा जीवितात् परिमुच्यते||९||
जाग्रत् पश्यति यः प्रेतान् रक्षांसि विविधानि
च|
अन्यद्वाऽप्यद्भुतं
किञ्चिन्न स जीवितुमर्हति||१०||
योऽग्निं प्रकृतिवर्णस्थं नीलं पश्यति
निष्प्रभम्|
कृष्णं वा
यदि वा शुक्लं निशां व्रजति सप्तमीम्||११||
मरीचीनसतो मेघान्मेघान् वाऽप्यसतोऽम्बरे|
विद्युतो वा
विना मेघैः पश्यन् मरणमृच्छति||१२||
मृन्मयीमिव यः पात्रीं
कृष्णाम्बरसमावृताम्|
आदित्यमीक्षते शुद्धं
चन्द्रं वा न स जीवति||१३||
अपर्वणि यदा पश्येत्
सूर्याचन्द्रमसोर्ग्रहम्|
अव्याधितो व्याधितो वा
तदन्तं तस्य जीवितम्||१४||
नक्तं
सूर्यमहश्चन्द्रमनग्नौ धूममुत्थितम्|
अग्निं वा निष्प्रभं रात्रौ
दृष्ट्वा मरणमृच्छति||१५||
प्रभावतः
प्रभाहीनान्निष्प्रभांश्च प्रभावतः|
नरा विलिङ्गान् पश्यन्ति
भावान् भावाञ्जिहासवः [३] ||१६||
व्याकृतीनि विवर्णानि
विसङ्ख्योपगतानि च|
विनिमित्तानि पश्यन्ति
रूपाण्यायुःक्षये नराः||१७||
यश्च पश्यत्यदृश्यान् वै
दृश्यान् यश्च न पश्यति|
तावुभौ पश्यतः क्षिप्रं
यमक्षयमसंशयम्||१८||
अशब्दस्य च यः श्रोता
शब्दान् यश्च न बुध्यते|
द्वावप्येतौ यथा प्रेतौ तथा
ज्ञेयौ विजानता ||१९||
संवृत्याङ्गुलिभिः कर्णौ
ज्वालाशब्दं य आतुरः|
न शृणोति गतासुं तं
बुद्धिमान् परिवर्जयेत्||२०||
विपर्ययेण यो विद्याद्गन्धानां साध्वसाधुताम्|
न वा तान्
सर्वशो विद्यात्तं विद्याद्विगतायुषम्||२१||
यो रसान्न विजानाति न वा जानाति तत्त्वतः|
मुखपाकादृते
पक्वं तमाहुः कुशला नरम्||२२||
उष्णाञ्छीतान्
खराञ्छ्लक्ष्णान्मृदूनपि च दारुणान्|
स्पृश्यान् स्पृष्ट्वा
ततोऽन्यत्वं मुमूर्षुस्तेषु मन्यते||२३||
अन्तरेण तपस्तीव्रं योगं वा
विधिपूर्वकम्|
इन्द्रियैरधिकं पश्यन्
पञ्चत्वमधिगच्छति||२४||
इन्द्रियाणामृते
दृष्टेरिन्द्रियार्थानदोषजान्|
नरः पश्यति यः
कश्चिदिन्द्रियैर्न स जीवति||२५||
अस्वस्थाः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु
वैकृतम्|
पश्यन्ति येऽसद्बहुशस्तेषां
मरणमादिशेत्||२६||
तत्र श्लोकः-
एतदिन्द्रियविज्ञानं यः
पश्यति यथातथम्|
मरणं जीवितं चैव स भिषक्
ज्ञातुमर्हति||२७||
0 Comments