For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातःकतमानिशरीरीयमिन्द्रियंव्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
कतमानिशरीराणिव्याधिमन्तिमहामुने!|यानिवैद्यःपरिहरेद्येषुकर्मनसिद्ध्यति||३||
इत्यात्रेयोऽग्निवेशेनप्रश्नंपृष्टःसुदुर्वचम्|आचचक्षेयथातस्मैभगवांस्तन्निबोधत||४||
यस्य वै भाषमाणस्य रुजत्यूर्ध्वमुरो भृशम्| अन्नं च च्यवते भुक्तं स्थितं चापि न जीर्यति||५||
बलं च हीयते शीघ्रं तृष्णा चातिप्रवर्धते| जायते हृदि शूलं च तं भिषक् परिवर्जयेत्||६||
हिक्का गम्भीरजा यस्य शोणितं चातिसार्यते| न तस्मै
भेषजं दद्यात् स्मरन्नात्रेयशासनम्||७||
आनाहश्चातिसारश्च यमेतौ दुर्बलं नरम्| व्याधितं
विशतो रोगौ दुर्लभं तस्य जीवितम्||८||
आनाहश्चातितृष्णा च यमेतौ दुर्बलं नरम्| विशतो
विजहत्येनं प्राणा नातिचिरान्नरम्||९||
ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य
यथा प्रेतस्तथैव सः||१०||
यस्य मूत्रं पुरीषं च ग्रथितं सम्प्रवर्तते| निरूष्मणो जठरिणः श्वसनो न स जीवति||११||
श्वयथुर्यस्य कुक्षिस्थो हस्तपादं विसर्पति| ज्ञातिसङ्घं स सङ्क्लेश्य तेन रोगेण हन्यते||१२||
श्वयथुर्यस्य पादस्थस्तथा स्रस्ते च पिण्डिके| सीदतश्चाप्युभे जङ्घे तं भिषक् परिवर्जयेत्||१३||
शूनहस्तं शूनपादं शूनगुह्योदरं नरम्| हीनवर्णबलाहारमौषधैर्नोपपादयेत्||१४||
उरोयुक्तो बहुश्लेष्मा नीलः पीतः सलोहितः| सततं च्यवते
यस्य दूरात्तं परिवर्जयेत्||१५||
हृष्टरोमा सान्द्रमूत्रः शूनः कासज्वरार्दितः | क्षीणमांसो नरो दूराद्वर्ज्यो वैद्येन जानता||१६||
त्रयः प्रकुपिता यस्य दोषाः कष्टाभिलक्षिताः | कृशस्य बलहीनस्य नास्ति तस्य चिकित्सितम्||१७||
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये| दुर्बलस्य विशेषेण नरस्यान्ताय जायते||१८||
पाण्डुरश्च कृशोऽत्यर्थं तृष्णयाऽभिपरिप्लुतः| डम्बरी कुपितोच्छ्वासः प्रत्याख्येयो विजानता||१९||
हनुमन्याग्रहस्तृष्णा बलह्रासोऽतिमात्रया| प्राणाश्चोरसि वर्तन्ते यस्य तं परिवर्जयेत्||२०||
ताम्यत्यायच्छते शर्म न किञ्चिदपि विन्दति| क्षीणमांसबलाहारो मुमूर्षुरचिरान्नरः||२१||
विरुद्धयोनयो यस्य विरुद्धोपक्रमा भृशम्| वर्धन्ते दारुणा रोगाः शीघ्रं शीघ्रं स हन्यते||२२||
बलं विज्ञानमारोग्यं ग्रहणी मांसशोणितम् | एतानि यस्य क्षीयन्ते क्षिप्रं क्षिप्रं स हन्यते||२३||
आरोग्यं हीयते यस्य प्रकृतिः परिहीयते| सहसा सहसा तस्य मृत्युर्हरति जीवितम्||२४||
तत्रश्लोकः- इत्येतानि
शरीराणि व्याधिमन्ति विवर्जयेत्| न ह्येषु धीराः पश्यन्ति सिद्धिं
काञ्चिदुपक्रमात्||२५||
0 Comments