Advertisement

Responsive Advertisement

Charak Indriya Chapter 3








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

परिमर्शनीयेन्द्रियोपक्रमः
अथातः परिमर्शनीयमिन्द्रियं व्याख्यास्यामः||||

इति ह स्माह भगवानात्रेयः||||

वर्णे स्वरे च गन्धे च रसे चोक्तं पृथक् पृथक्|
लिङ्गं मुमूर्षतां सम्यक् स्पर्शेष्वपि निबोधत||||

स्पर्शप्राधान्येनैवातुरस्यायुषः प्रमाणावशेषं जिज्ञासुः प्रकृतिस्थेन पाणिना शरीरमस्य केवलं स्पृशेत्, परिमर्शयेद्वाऽन्ये|
परिमृशता तु खल्वातुरशरीरमिमे भावास्तत्र तत्रावबोद्धव्या भवन्ति|
तद्यथा- सततं स्पन्दमानानां शरीरदेशानामस्पन्दनं, नित्योष्मणां शीतीभावः, मृदूनां दारुणत्वं, श्लक्ष्णानां खरत्वं,सतामसद्भावः, सन्धीनां स्रंसभ्रंशच्यवनानि; मांसशोणितयोर्वीतीभावः, दारुणत्वं, स्वेदानुबन्धः, स्तम्भो वा; यच्चान्यदपिकिञ्चिदीदृशं स्पर्शानां लक्षणं भृशविकृतमनिमित्तं स्यात्|
इति लक्षणं स्पृश्यानां भावानामुक्तं समासेन||||

तद्व्यासतोऽनुव्याख्यास्यामः- तस्य चेत् परिमृश्यमानं पृथक्त्वेनपादजङ्घोरुस्फिगुदरपार्श्वपृष्ठेषिकापाणिग्रीवाताल्वोष्ठललाटं स्विन्नं शीतं स्तब्धं दारुणं वीतमांसशोणितं वा स्यात्,परासुरयं पुरुषो न चिरात् कालं मरिष्यतीति विद्यात्|
तस्य चेत् परिमृश्यमानानि पृथक्त्वेनगुल्फजानुवङ्क्षणगुदवृषणमेढ्रनाभ्यंसस्तनमणिकपर्शुकाहनुनासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानिस्थानेभ्यः स्कन्नानि वा स्युः, परासुरयं पुरुषोऽचिरात् कालं मरिष्यतीति विद्यात्||||

तथाऽस्योच्छ्वासमन्यादन्तपक्ष्मचक्षुःकेशलोमोदरनखाङ्गुलीरालक्षयेत्|
तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्, परासुरिति विद्यात्|
तस्य चेन्मन्ये परिमृश्यमाने न स्पन्देयातां, परासुरिति विद्यात्|
तस्य चेद्दन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात्|
तस्य चेत् पक्ष्माणि जटाबद्धानि स्युः, परासुरिति विद्यात्|
तस्य चेच्चक्षुषी प्रकृतिहीने, विकृतियुक्ते- अत्युत्पिण्डिते, अतिप्रविष्टे, अतिजिह्मे, अतिविषमे, अतिमुक्तबन्धने, अतिप्रस्रुते,सततोन्मिषिते, सततनिमिषिते, निमिषोन्मेषातिप्रवृत्ते, विभ्रान्तदृष्टिके, विपरीतदृष्टिके, हीनदृष्टिके, व्यस्तदृष्टिके,नकुलान्धे, कपोतान्धे, अलातवर्णे, कृष्णपीतनीलश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां वर्णानामन्यतमेनातिप्लुते वास्यातां, तदा परासुरिति विद्यात्|
अथास्य केशलोमान्यायच्छेत्, तस्य चेत् केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात्|
तस्य चेदुदरे सिराः प्रकाशेरञ् श्यावताम्रनीलहारिद्रशुक्ला वा स्युः, परासुरिति विद्यात्|
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बववर्णाः स्युः, परासुरिति विद्यात्|
अथास्याङ्गुलीरायच्छेत्; तस्य चेदङ्गुलय आयम्यमाना न स्फुटेयुः, परासुरिति विद्यात्||||

तत्र श्लोकः-
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते|
आतुरे न स सम्मोहमायुर्ज्ञानस्य गच्छति||||

 

Post a Comment

0 Comments