Advertisement

Responsive Advertisement

Charak Samhita Sutrasthanam Chapter 5 Matrashitiyam Adhyayam








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

  Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

मात्राशी स्यात्|

आहारमात्रा पुनरग्निबलापेक्षिणी||||

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति||||

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति|

तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||||

चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानीतराणि,तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणिपुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; सैषाभवत्यग्निबलापेक्षिणी मात्रा||||

नापेक्षते द्रव्यं; द्रव्यापेक्षया त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, लघूनामपि चनातिसौहित्यमग्नेर्युक्त्यर्थम्||||

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति||||

भवन्ति चात्र- गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि| जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः||||

वल्लूरं शुष्कशाकानि शालूकानि बिसानि | नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्||१०||

कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे| मत्स्यान् दधि माषांश्च यवकांश्च शीलयेत्||११||

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्| आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्||१२||

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते| अजातानां विकाराणामनुत्पत्तिकरं यत्||१३||

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्|

स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते||१४||

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्|

पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||१५||

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्|

ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||१६||

दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्|

विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||१७||

तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते|१८|

यथा हि कनकादीनां मलिनां विविधात्मनाम्||१८||

धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः| एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः||१९||

दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्|२०|

हरेणुकां प्रियङ्गुं पृथ्वीकां केशरं नखम्||२०|

ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्| ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||२१||

न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः| वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||२२||

श्रीवेष्टकं शल्लकीं शुकबर्हमथापि | पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||२३||

अङ्गुष्ठसम्मितां कुर्यादष्टाङ्गुलसमां भिषक्| शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||२४||

स्नेहाक्तामग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्|२५|

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः||२५||

वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्|२६|

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला||२६||

गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने |२७|

गौरवं शिरसः शूलं पीनसार्धावभेदकौ||२७||

कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः| दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः||२८||

पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः| हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे||२९||

श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका| खालित्यं पिञ्जरत्वं केशानां पतनं तथा||३०||

क्षवथुश्चातितन्द्रा बुद्धेर्मोहोऽतिनिद्रता| धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्||३१||

शिरोरुहकपालानामिन्द्रियाणां स्वरस्य | वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः||३२||

धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः|३३|

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः||३३|| वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते|

स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य | नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्|

तथा वातकफात्मानो भवन्त्यूर्ध्वजत्रुजाः||३५|| रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः|३६|

परं द्विकाल पायी स्यादह्नः कालेषु बुद्धिमान्||३६|| प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्|

हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः||३७||

यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्|३८|

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||३८||

अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्| तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||३९||

स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि| शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्||४०||

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः| विरिक्तः पिबेद्धूमं कृते बस्तिकर्मणि||४१||

रक्ती विषेणार्तो शोचन्न गर्भिणी| श्रमे मदे नामे पित्ते प्रजागरे||४२||

मूर्च्छाभ्रमतृष्णासु क्षीणे नापि क्षते| मद्यदुग्धे पीत्वा स्नेहं माक्षिकम्||४३||

धूमं भुक्त्वा दध्ना रूक्षः क्रुद्ध एव | तालुशोषे तिमिरे शिरस्यभिहिते ||४४||

शङ्खके रोहिण्यां मेहे मदात्यये| एषु धूममकालेषु मोहात् पिबति यो नरः||४५||

रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्|४६|

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये||४६||

घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्| आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्||४७||

प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी|४८|

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्||४८||

पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्|४९|

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने||४९||

द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते| ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||५०||

बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते|५१|

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः||५१||

नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः|५२|

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२|| कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्|

अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३|| स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्|

तालु मूर्धा कण्ठश्च शुष्यते परितप्यते||५४|| तृष्यते मुह्यते जन्तू रक्तं स्रवतेऽधिकम्| शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५|| इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|

वर्षे वर्षेऽणुतैलं कालेषु त्रिषु ना चरेत्||५६||

प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले| नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||

तस्य चक्षुर्न घ्राणं श्रोत्रमुपहन्यते| स्युः श्वेता कपिलाः केशाः श्मश्रूणि वा पुनः||५८||

केशाः प्रमुच्यन्ते वर्धन्ते विशेषतः| मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९||

पीनसार्धावभेदौ शिरःकम्पश्च शाम्यति| सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०||

नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्| मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१||

सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्| चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२||

जीर्यतश्चोत्तमाङ्गेषु जरा लभते बलम्|६३|

चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३||

प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्| ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४||

जीवन्तीं पृश्निपर्णीं सुरदारु शतावरीम्| हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५||

विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि| तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६||

तेन तैलं कषायेण दशकृत्वो विपाचयेत्| अथास्य दशमे पाके समांशं छागलं पयः||६७||

दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः| अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्||६८||

स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः| त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्||६९||

निवातोष्णसमाचारी हिताशी नियतेन्द्रियः| तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्||७०||

प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्|७१|

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||७१||

भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्| निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||७२||

निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्| करञ्जकरवीरार्कमालतीककुभासनाः||७३||

शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः| सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि ||७४||

जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि | जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि ||७५||

दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्|७६|

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता||७६||

जातीकटुकपूगानां लवङ्गस्य फलानि | कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा| तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि ||७७||

हन्वोर्बलं स्वरबलं वदनोपचयः परः| स्यात् परं रसज्ञानमन्ने रुचिरुत्तमा||७८||

चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्| दन्ताः क्षयं यान्ति दृढमूला भवन्ति ||७९||

शूल्यन्ते चाम्लेन हृष्यन्ते भक्षयन्ति | परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०||

नित्यं स्नेहार्द्रशिरसः शिरःशूलं जायते| खालित्यं पालित्यं केशाः प्रपतन्ति ||८१||

बलं शिरःकपालानां विशेषेणाभिवर्धते| दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति ||८२||

इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् | निद्रालाभः सुखं स्यान्मूर्ध्नि तैलनिषेवणात्||८३||

कर्णरोगा वातोत्था मन्याहनुसङ्ग्रहः| नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४||

स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्| भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५||

तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् जायते| प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६||

स्पर्शनेऽभ्यधिको वायुः स्पर्शनं त्वगाश्रितम्| त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः||८७||

चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः| विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८||

सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः| भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव ||८९||

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः| सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०||

जायते सौकुमार्यं बलं स्थैर्यं पादयोः| दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१||

स्याद्गृध्रसीवातः पादयोः स्फुटनं | सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्| स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३||

पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् | शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्| श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५||

वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्| सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६||

धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्| हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७||

मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्| पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८||

पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्| केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९||

चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्| बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००||

ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्| घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१||

स्खलतः सम्प्रतिष्ठानं शत्रूणां निषूदनम्| अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||

नगरी नगरस्येव रथस्येव रथी यथा| स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||१०३||

भवति चात्र- वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः| शममध्ययनं चैव सुखमेवं समश्नुते||१०४||

तत्र श्लोकाः- मात्रा द्रव्याणि मात्रां संश्रित्य गुरुलाघवम्| द्रव्याणां गर्हितोऽभ्यासो येषां, येषां शस्यते||१०५||

अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना| धूमपानगुणाः कालाः पानमानं यस्य यत्||१०६||

व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः| पेयो यथा यन्मयं नेत्रं यस्य यद्विधम्||१०७||

नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा| भक्षयेद्दन्तपवनं यथा यद्यद्गुणं यत्||१०८||

यदर्थं यानि चास्येन धार्याणि कवलग्रहे| तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये||१०९||

कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने| स्नाने वाससि शुद्धे सौगन्ध्ये रत्नधारणे||११०||

शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे| गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे||१११||

 

Post a Comment

0 Comments