Advertisement

Responsive Advertisement

Charak samhita chapter 3 Aragvadhiyam adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

  Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.

अथात आरग्वधीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||||

ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||||

वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं |
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||||

इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||||

कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||||

कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां चूर्णानि समानि कुर्यात्||||

तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||||

कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||

तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||

मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं तद्वत् समनःशिलं स्यात्||१२||

रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं परः प्रदेहः||१३||

उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||

मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||

पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||

पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः|
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||

कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्|
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||

आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्|
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||

तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्|
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||

उभे शताह्वे मधुकं मधूकं बलां प्रियालं कशेरुकं |
घृतं विदारीं सितोपलां कुर्यात् प्रदेहं पवने सरक्ते||२१||

रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च|
घृतं सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||

वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||

प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले |
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||

रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला |
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||

शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्|
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||

सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा|
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका ||२७||

शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना|
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||

शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः|
पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||

तत्र श्लोकः-
इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः|
चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||

Post a Comment

0 Comments