Advertisement

Responsive Advertisement

Charak Samhita Chapter 2 Apamarg tanduliya adyaya








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

  Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work.

अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||||

इति स्माह भगवानात्रेयः||||

अपामार्गस्य बीजानि पिप्पलीर्मरिचानि |
विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि ||||

अजाजीं चाजगन्धां पीलून्येलां हरेणुकाम्|
पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||||

शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्|
ज्योतिष्मतीं नागरं दद्याच्छीर्षविरेचने||||

गौरवे शिरसः शूले पीनसेऽर्धावभेदके|
क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||||

मदनं मधुकं निम्बं जीमूतं कृतवेधनम्|
पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि ||||

उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये|
वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||||

त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्|
कम्पिल्लकं गवाक्षीं क्षीरिणीमुदकीर्यकाम्||||

पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि |
पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||

पाटलां चाग्निमन्थं बिल्वं श्योनाकमेव |
काश्मर्यं शालपर्णीं पृश्निपर्णीं निदिग्धिकाम्||११||

बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्|
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि ||१२||

पलाशं कत्तृणं चैव स्नेहांश्च लवणानि |
उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु ||१३||

अत एवौषधगणात् सङ्कल्प्यमनुवासनम्|
मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः||१४||

तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः|
पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५||

मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता|
तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||

अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः|
विविधानां विकाराणां तत्साध्यानां निवृत्तये||१७||

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|
यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता||१८||

दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता|
पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||१९||

शालपर्णीबलाबिल्वैः पृश्निपर्ण्या साधिता|
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्||२०||

 

पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः|
पेया रक्तातिसारघ्नी पृश्निपर्ण्या साधिता||२१||

दद्यात् सातिविषां पेयां सामे साम्लां सनागराम्|
श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||२२||

विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन |
तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका||२३||

मृद्वीकासारिवालाजपिप्पलीमधुनागरैः|
पिपासाघ्नी, विषघ्नी सोमराजीविपाचिता||२४||

सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता|
गवेधुकानां भृष्टानां कर्शनीया समाक्षिका||२५||

सर्पिष्मती बहुतिला स्नेहनी लवणान्विता|
कुशामलकनिर्यूहे श्यामाकानां विरूक्षणी||२६||

दशमूलीशृता कासहिक्काश्वासकफापहा|
यमके मदिरासिद्धा पक्वाशयरुजापहा||२७||

शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति|
जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता||२८||

क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता|
अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ||२९||

तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी|
तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||३०||

गव्यमांसरसैः साम्ला विषमज्वरनाशिनी|
कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||३१||

ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा|
समाषविदला वृष्या घृतक्षीरोपसाधिता||३२||

उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी|
क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता||३३||

तत्र श्लोकः-
अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः|
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः||३४||

पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्|
पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||३५||

स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्|
भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||||

Post a Comment

0 Comments