Advertisement

Responsive Advertisement

Charak Samhita chapter 27 aanpaanvidhiyam adhyay








For joining Test series Click Here

For More Information Regarding AIAPGET 2024 and chapterwise charak samhita Test Series Whatsapp at +917015577625

 

Copy and Paste Shaloka

 Hi, welcome all to our blog. We are working on this project to provide you all with all the shalokas written in samhitas. You can visit here anytime and copy and paste the shaloka in your presentationas or compilation work. Click anywhere and then click on open link.

 

अथातोऽन्नपानविधिमध्यायंव्याख्यास्यामः॥१॥

इति स्माह भगवानात्रेयः॥२॥

इष्टवर्णगन्धरसस्पर्शंविधिविहितमन्नपानंप्राणिनांप्राणिसञ्ज्ञकानांप्राणमाचक्षतेकुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धनाह्यन्तरग्नेःस्थितिः; तत्सत्त्वमूर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरंयथोक्तमुपसेव्यमानं, विपरीतमहितायसम्पद्यते॥३॥

तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश! तत्स्वभावादुदक्तंक्लेदयति, लवणंविष्यन्दयति, क्षारःपाचयति, मधुसन्दधाति, सर्पिःस्नेहयति, क्षीरंजीवयति, मांसंबृंहयति, रसःप्रीणयति, सुराजर्जरीकरोति, शीधुरवधमति, द्राक्षासवोदीपयति, फाणितमाचिनोति, दधिशोफंजनयति, पिण्याकशाकंग्लपयति, प्रभूतान्तर्मलोमाषसूपः, दृष्टिशुक्रघ्नःक्षारः, प्रायःपित्तलमम्लमन्यत्रदाडिमामलकात्, प्रायःश्लेष्मलंमधुरमन्यत्रमधुनःपुराणाच्चशालिषष्टिकयवगोधूमात्, प्रायस्तिकंवातलमवृष्यंचान्यत्रवेगाग्रामृतापटोलपत्रात्, प्रायःकटुकंवातलमवृष्यंचान्यत्रपिप्पलीविश्वभेषजात्॥४॥

परमतोवर्गसङ्ग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः ॥५॥

शूकधान्यशमीधान्यमांसशाकफलाश्रयान्। वर्गान्हरितमद्याम्बुगोरसेक्षुविकारिकान्॥६॥

दशद्वौचापरौवर्गौकृतान्नाहारयोगिनाम्। रसवीर्यविपाकैश्चप्रभावैश्चप्रचक्ष्महे॥७॥

अथशूकधान्यवर्गः-

रक्तशालिर्महाशालिःकलमःशकुनाहृतः

तूर्णको दीर्घशूकश्चगौरःपाण्डुकलाङ्गुलौ॥८॥

सुगन्धकोलोहवालःसारिवाख्यःप्रमोदकः।

पतङ्गस्तपनीयश्चयेचान्येशालयःशुभाः॥९॥

शीतारसेविपाकेचमधुराश्चाल्पमारुताः।

बद्धाल्पवर्चसःस्निग्धाबृंहणाःशुक्रमूत्रलाः॥१०॥

रक्तशालिर्वरस्तेषांतृष्णाघ्नस्त्रिमलापहः

महांस्तस्यानुकलमस्तस्याप्यनुततःपरे॥११॥

यवकाहायनाःपांसुवाप्यनैषधकादयः

शालीनांशालयःकुर्वन्त्यनुकारंगुणागुणैः॥१२॥

शीतःस्निग्धोऽगुरुःस्वादुस्त्रिदोषघ्नःस्थिरात्मकः।

षष्टिकःप्रवरोगौरःकृष्णगौरस्ततोऽनुच॥१३॥

वरकोद्दालकौचीनशारदोज्ज्वलदर्दुराः।

गन्धनाः कुरुविन्दाश्चषष्टिकाल्पान्तरागुणैः॥१४॥

मधुरश्चाम्लपाकश्चव्रीहिःपित्तकरोगुरुः।

बहुमूत्रपुरीषोष्मात्रिदोषस्त्वेवपाटलः॥१५॥

सकोरदूषःश्यामाकःकषायमधुरोलघुः। वातलःकफपित्तघ्नःशीतःसङ्ग्राहिशोषणः॥१६॥

हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः। प्रशान्तिकाम्भःश्यामाकलौहित्याणुप्रियङ्गवः ॥१७॥

मुकुन्दोझिण्टिगर्मूटी वरुकावरकास्तथा। शिबिरोत्कटजूर्णाह्वाःश्यामाकसदृशागुणैः॥१८॥

रूक्षःशीतोऽगुरुःस्वादुर्बहुवातशकृद्यवः।

स्थैर्यकृत्सकषायश्च बल्यःश्लेष्मविकारनुत्॥१९॥

रूक्षःकषायानुरसोमधुरःकफपित्तहा।

मेदःक्रिमिविषघ्नश्चबल्योवेणुयवोमतः॥२०॥


सन्धानकृद्वातहरोगोधूमःस्वादुशीतलः।

जीवनोबृंहणोवृष्यःस्निग्धःस्थैर्यकरोगुरुः॥२१॥

नान्दीमुखीमधूलीचमधुरस्निग्धशीतले।

इत्ययंशूकधान्यानांपूर्वोवर्गःसमाप्यते॥२२॥

इतिशूकधान्यवर्गःप्रथमः॥१॥

अथशमीधान्यवर्गः-

कषायमधुरोरूक्षःशीतःपाकेकटुर्लघुः।

विशदः श्लेष्मपित्तघ्नोमुद्गःसूप्योत्तमोमतः॥२३॥

वृष्यःपरंवातहरःस्निग्धोष्णोमधुरोगुरुः।

बल्योबहुमलःपुंस्त्वंमाषःशीघ्रंददातिच॥२४॥

राजमाषः सरोरुच्यःकफशुक्राम्लपित्तनुत्।

तत्स्वादुर्वातलोरूक्षःकषायोविशदोगुरुः॥२५॥

उष्णाःकषायाःपाकेऽम्लाःकफशुक्रानिलापहाः।

कुलत्थाग्राहिणःकासहिक्काश्वासार्शसांहिताः॥२६॥

मधुरामधुराःपाकेग्राहिणोरूक्षशीतलाः।

मकुष्ठकाःप्रशस्यन्तेरक्तपित्तज्वरादिषु॥२७॥

चणकाश्चमसूराश्चखण्डिकाःसहरेणवः।

लघवःशीतमधुराःसकषायाविरूक्षणाः॥२८॥

पित्तश्लेष्मणिशस्यन्तेसूपेष्वालेपनेषुच।

तेषांमसूरःसङ्ग्राहीकलायोवातलःपरम्॥२९॥

स्निग्धोष्णोमधुरस्तिक्तःकषायःकटुकस्तिलः।

त्वच्यःकेश्यश्चबल्यश्चवातघ्नःकफपित्तकृत्॥३०॥

मधुराःशीतलागुर्व्योबलघ्न्योरूक्षणात्मिकाः।

सस्नेहाबलिभिर्भोज्याविविधाःशिम्बिजातयः॥३१॥

शिम्बीरूक्षाकषायाचकोष्ठेवातप्रकोपिनी।

नचवृष्यानचक्षुष्याविष्टभ्यचविपच्यत॥।३२॥

आढकीकफपित्तघ्नीवातला, कफवातनुत्।

अवल्गुजःसैडगजो, निष्पावावातपित्तलाः॥३३॥

काकाण्डोमा(ला)त्मगुप्तानांमाषवत्फलमादिशेत्।

द्वितीयोऽयंशमीधान्यवर्गःप्रोक्तोमहर्षिणा॥३४॥

इतिशमीधान्यवर्गोद्वितीयः॥२॥

अथमांसवर्गः-

गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः।

वृकोव्याघ्रस्तरक्षुश्चबभ्रुमार्जारमूषिकाः॥३५॥

लोपाकोजम्बुकःश्येनोवान्तादश्चाषवायसौ।

शशघ्नीमधुहाभासोगृध्रोलूककुलिङ्गकाः॥३६॥

धूमिकाकुररश्चेतिप्रसहामृगपक्षिणः।

श्वेतःश्यामश्चित्रपृष्ठःकालकःकाकुलीमृगः॥३७॥

कूर्चिकाचिल्लटोभेकोगोधाशल्लकगण्डकौ।

कदलीनकुलःश्वाविदितिभूमिशयाःस्मृताः॥३८॥

सृमरश्चमरःखङ्गोमहिषोगवयोगजः।

न्यङ्कुर्वराहश्चानूपामृगाःसर्वेरुरुस्तथा॥३९॥

कूर्मःकर्कटकोमत्स्यःशिशुमारस्तिमिङ्गिलः।

शुक्तिशङ्खोद्रकुम्मीरचुलुकीमकरादयः॥४०॥

इतिवारिशयाःप्रोक्ता...

वक्ष्यन्तेवारिचारिणः।

हंसःक्रौञ्चोबलाकाचबकःकारण्डवःप्लवः॥४१॥

शरारिःपुष्कराह्वश्चकेशरीमणितुण्डकः

मृणालकण्ठोमद्गुश्चकादम्बःकाकतुण्डकः॥४२॥

उत्क्रोशःपुण्डरीकाक्षोमेघरावोऽम्बकुक्कुटी।

आरानन्दीमुखीवाटीसुमुखाःसहचारिणः॥४३॥

रोहिणीकामकालीचसारसोरक्तशीर्षकः।

चक्रवाकस्तथाऽन्येचखगाःसन्त्यम्बुचारिणः॥४४॥

पृषतःशरभोरामःश्वदंष्ट्रोमृगमातृका।

शशोरणौकुरङ्गश्चगोकर्णःकोट्टकारकः॥४५॥

चारुष्कोहरिणैणौचशम्बरःकालपुच्छकः।

ऋष्यश्चवरपोतश्चविज्ञेयाजाङ्गलामृगाः॥४६॥

लावोवर्तीरकश्चैववार्तीकःसकपिञ्जलः।

चकोरश्चोपचक्रश्चकुक्कुभोरक्तवर्त्मकः॥४७॥

लावाद्याविष्किरास्त्वेतेवक्ष्यन्तेवर्तकादयः।

वर्तकोवर्तिकाचैवबर्हीतित्तिरिकुक्कुटौ॥४८॥

कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः।

क्रकरोऽवकरश्चैववारडश्चेति विष्किराः॥४९॥

शतपत्रोभृङ्गराजःकोयष्टिर्जीवजीवकः।

कैरातःकोकिलोऽत्यूहोगोपापुत्रःप्रियात्मजः॥५०॥

लट्टालट्ट(टू)षकोबभ्रुर्वटहाडिण्डिमानकः।

जटीदुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ॥५१॥

कपोतशुकशारङ्गाश्चिरटीकङ्कुयष्टिकाः।

सारिकाकलविङ्कश्चचटकोऽङ्गारचूडकः॥५२॥

पारावतःपाण्ड()विकइत्युक्ताःप्रतुदाद्विजाः।

प्रसह्यभक्षयन्तीतिप्रसहास्तेनसञ्ज्ञिताः॥५३॥

भूशयाबिलवासित्वादानूपानूपसंश्रयात्

जलेनिवासाज्जलजाजलेचर्याज्जलेचराः॥५४॥

स्थलजाजाङ्गलाःप्रोक्तामृगाजाङ्गलचारिणः।

विकीर्यविष्किराश्चेतिप्रतुद्यप्रतुदाःस्मृताः॥५५॥

योनिरष्टविधात्वेषामांसानांपरिकीर्तिता।

प्रसहाभूशयानूपवारिजावारिचारिणः॥५६॥

गुरूष्णस्निग्धमधुराबलोपचयवर्धनाः।

वृष्याःपरंवातहराःकफपित्तविवर्धनाः॥५७॥

हिताव्यायामनित्येभ्योनरादीप्ताग्नयश्चये।

प्रसहानांविशेषेणमांसंमांसाशिनांभिषक्॥५८॥

जीर्णार्शोग्रहणीदोषशोषार्तानांप्रयोजयेत्।

लावाद्योवैष्किरोवर्गःप्रतुदाजाङ्गलामृगाः॥५९॥

लघवःशीतमधुराःसकषायाहितानृणाम्।

पित्तोत्तरेवातमध्येसन्निपातेकफानुगे॥६०॥

विष्किरावर्तकाद्यास्तुप्रसहाल्पान्तरागुणैः।

नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्॥६१॥

शरीरधातुसामान्यादनभिष्यन्दिबृंहणम्।

मांसंमधुरशीतत्वाद्गुरुबृंहणमाविकम्॥६२॥

योनावजाविके मिश्रगोचरत्वादनिश्चिते।

सामान्येनोपदिष्टानांमांसानांस्वगुणैःपृथक्॥६३॥

केषाञ्चिद्गुणवैशेष्याद्विशेषउपदेक्ष्यते।

दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्॥६४॥

बर्हीहिततमोबल्योवातघ्नोमांसशुक्रलः।

गुरूष्णस्निग्धमधुराःस्वरवर्णबलप्रदाः॥६५॥

बृंहणाःशुक्रलाश्चोक्ताहंसामारुतनाशनाः।

स्निग्धाश्चोष्णाश्चवृष्याश्चबृंहणाःस्वरबोधनाः॥६६॥

बल्याःपरंवातहराःस्वेदनाश्चरणायुधाः।

गुरूष्णोमधुरोनातिधन्वानूपनिषेवणात्॥६७॥

तित्तिरिःसञ्जयेच्छीघ्रंत्रीन्दोषाननिलोल्बणान्।

पित्तश्लेष्मविकारेषुसरक्तेषुकपिञ्जलाः॥६८॥

मन्दवातेषुशस्यन्तेशैत्यमाधुर्यलाघवात्।

लावाःकषायमधुरालघवोऽग्निविवर्धनाः॥६९॥

सन्निपातप्रशमनाःकटुकाश्चविपाकतः।

गोधाविपाकेमधुराकषायकटुकारसे॥७०॥

वातपित्तप्रशमनीबृंहणीबलवर्धनी।

शल्लकोमधुराम्लश्चविपाकेकटुकःस्मृतः॥७१॥

वातपित्तकफघ्नश्चकासश्वासहरस्तथा।

कषायविशदाः शीतारक्तपित्तनिबर्हणाः॥७२॥

विपाकेमधुराश्चैवकपोतागृहवासिनः।

तेभ्योलघुतराःकिञ्चित्कपोतावनवासिनः ॥७३॥

शीताःसङ्ग्राहिणश्चैवस्वल्पमूत्रकराश्चते।

शुकमांसंकषायाम्लंविपाकेरूक्षशीतलम्॥७४॥

शोषकासक्षयहितंसङ्ग्राहिलघुदीपनम्।

चटकामधुराःस्निग्धाबलशुक्रविवर्धनाः॥७५॥

सन्निपातप्रशमनाःशमनामारुतस्यच।

कषायोविशदोरूक्षःशीतःपाकेकटुर्लघुः॥७६॥

शशःस्वादुःप्रशस्तश्चसन्निपातेऽनिलावरे।

मधुरामधुराःपाकेत्रिदोषशमनाःशिवाः॥७७॥

लघवोबद्धविण्मूत्राःशीताश्चैणाःप्रकीर्तिताः।

स्नेहनंबृंहणंवृष्यंश्रमघ्नमनिलापहम्॥७८॥

वराहपिशितंबल्यंरोचनंस्वेदनंगुरु।

गव्यंकेवलवातेषुपीनसेविषमज्वरे॥७९॥

शुष्ककासश्रमात्यग्निमांसक्षयहितंचतत्।

स्निग्धोष्णंमधुरंवृष्यंमाहिषंगुरुतर्पणम्॥८०॥

दार्ढ्यंबृहत्त्वमुत्साहंस्वप्नंचजनयत्यपि।

गुरूष्णामधुराबल्याबृंहणाःपवनापहाः॥८१॥

मत्स्याःस्निग्धाश्चवृष्याश्चबहुदोषाःप्रकीर्तिताः।

शैवालशष्पभोजित्वात्स्वप्नस्यचविवर्जनात्॥८२॥

रोहितोदीपनीयश्चलघुपाकोमहाबलः।

वर्ण्योवातहरोवृष्यश्चक्षुष्योबलवर्धनः॥८३॥

मेधास्मृतिकरःपथ्यःशोषघ्नःकूर्मउच्यते।

खङ्गमांसमभिष्यन्दिबलकृन्मधुरंस्मृतम्॥८४॥

स्नेहनंबृंहणंवर्ण्यंश्रमघ्नमनिलापहम्।

धार्तराष्ट्रचकोराणांदक्षाणांशिखिनामपि॥८५॥

चटकानांचयानिस्युरण्डानिचहितानिच।

क्षीणरेतःसुकासेषुहृद्रोगेषुक्षतेषुच॥८६॥

मधुराण्यविदाहीनिसद्योबलकराणिच।

शरीरबृंहणेनान्यत्खाद्यंमांसाद्विशिष्यते॥८७॥

इतिवर्गस्तृतीयोऽयंमांसानांपरिकीर्तितः।

इतिमांसवर्गस्तृतीयः॥३॥

अथशाकवर्गः-

पाठाशुषाशटीशाकंवास्तुकंसुनिषण्णाकम्॥८८॥

विद्याद्ग्राहित्रिदोषघ्नंभिन्नवर्चस्तुवास्तुकम्।

त्रिदोषशमनीवृष्याकाकमाचीरसायनी॥८९॥

नात्युष्णशीतवीर्याचभेदिनीकुष्ठनाशिनी।

राजक्षवकशाकंतुत्रिदोषशमनंलघु॥९०॥

ग्राहिशस्तंविशेषेणग्रहण्यर्शोविकारिणाम्।

कालशाकंतुकटुकंदीपनंगरशोफजित्॥९१॥

लघूष्णंवातलंरूक्षंकालायं शाकमुच्यते।

दीपनीचोष्णवीर्याचग्राहिणीकफमारुते॥९२॥

प्रशस्यतेऽम्लचाङ्गेरीग्रहण्यर्शोहिताचसा।

मधुरामधुरापाकेभेदिनीश्लेष्मवर्धनी॥९३॥

वृष्यास्निग्धाचशीताचमदघ्नीचाप्युपोदिका।

रूक्षोमदविषघ्नश्चप्रशस्तोरक्तपित्तिनाम्॥९४॥

मधुरोमधुरःपाकेशीतलस्तण्डुलीयकः।

मण्डूकपर्णीवेत्राग्रंकुचेलावनतिक्तकम्॥९५॥

कर्कोटकावल्गुजकौपटोलंशकुलादनी

वृषपुष्पाणिशार्ङ्गेष्टाकेम्बूकंसकठिल्लकम्॥९६॥

नाडीकलायंगोजिह्वावार्ताकंतिलपर्णिका।

कौलकंकार्कशंनैम्बंशाकंपार्पटकंचयत्॥९७॥

कफपित्तहरंतिक्तंशीतंकटुविपच्यते।

सर्वाणिसूप्यशाकानिफञ्जीचिल्लीकुतुम्बकः॥९८॥

आलुकानिचसर्वाणिसपत्राणिकुटिञ्जरम्

शणशाल्मलिपुष्पाणिकर्बुदारःसुवर्चला॥९९॥

निष्पावःकोविदारश्चपत्तुरश्चुच्चुपर्णिका।

कुमारजीवोलोट्टाकःपालङ्क्यामारिषस्तथा॥१००॥

कलम्बनालिकासूर्यःकुसुम्भवृकधूमकौ।

लक्ष्मणाचप्रपुन्नाडोनलिनीकाकुठेरकः॥१०१॥

लोणिकायवशाकंचकूष्माण्डकमवल्गुजम्।

यातुकःशालकल्याणीत्रिपर्णीपीलुपर्णिका॥१०२॥

शाकंगुरुचरूक्षंचप्रायोविष्टभ्यजीर्यति।

मधुरंशीतवीर्यंचपुरीषस्यचभेदनम्॥१०३॥

स्विन्नंनिष्पीडितरसंस्नेहाढ्यंतत्प्रशस्यते।

शणस्यकोविदारस्यकर्बुदारस्यशाल्मलेः॥१०४॥

पुष्पंग्राहिप्रशस्तंचरक्तपित्तेविशेषतः।

न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः॥१०५॥

कषायाःस्तम्भनाःशीताहिताःपित्तातिसारिणाम्।

वायुंवत्सादनीहन्यात्कफंगण्डीरचित्रकौ॥१०६॥

श्रेयसीबिल्वपर्णीचबिल्वपत्रंतुवातनुत्।

भण्डीशतावरीशाकंबलाजीवन्तिकंचयत्॥१०७॥

पर्वण्याःपर्वपुष्प्याश्चवातपित्तहरंस्मृतम्।

लघुभिन्नशकृत्तिक्तंलाङ्गलक्युरुबूकयोः॥१०८॥

तिलवेतसशाकंचशाकंपञ्चाङ्गुलस्यच।

वातलंकटुतिक्ताम्लमधोमार्गप्रवर्तनम्॥१०९॥

रूक्षाम्लमुष्णंकौसुम्भंकफघ्नंपित्तवर्धनम्।

त्रपुसैर्वारुकंस्वादुगुरुविष्टम्भिशीतलम्॥११०॥

मुखप्रियंचरूक्षंचमूत्रलंत्रपुसंत्वति।

एर्वारुकंचसम्पक्वंदाहतृष्णाक्लमार्तिनुत्॥१११॥

वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणिच।

चिर्भटैर्वारुकेतद्वद्वर्चोभेदहितेतुते॥११२॥

सक्षारं पक्वकूष्माण्डंमधुराम्लंतथालघु।

सृष्टमूत्रपुरीषंचसर्वदोषनिबर्हणम्॥११३॥

केलूटंचकदम्बंचनदीमाषकमैन्दुकम्।

विशदंगुरुशीतंचसमभिष्यन्दिचोच्यते॥११४॥

उत्पलानिकषायाणिरक्तपित्तहराणिच।

तथातालप्रलम्बंस्यादुरःक्षतरुजापहम्॥११५॥

खर्जूरंतालशस्यंचरक्तपित्तक्षयापहम्।

तरूटबिसशालूकक्रौञ्चादनकशेरुकम्॥११६॥

शृङ्गाटकाङ्कलोड्यंचगुरुविष्टम्भिशीतलम्।

कुमुदोत्पलनालास्तुसपुष्पाःसफलाःस्मृताः॥११७॥

शीताःस्वादुकषायास्तुकफमारुतकोपनाः।

कषायमीषद्विष्टम्भिरक्तपित्तहरंस्मृतम्॥११८॥

पौष्करंतुभवेद्बीजंमधुरंरसपाकयोः।

बल्यःशीतोगुरुःस्निग्धस्तर्पणोबृंहणात्मकः॥११९॥

वातपित्तहरःस्वादुर्वृष्योमुञ्जातकःपरम्।

जीवनोबृंहणोवृष्यःकण्ठ्यःशस्तोरसायने॥१२०॥

विदारिकन्दोबल्यश्चमूत्रलःस्वादुशीतलः।

अम्लिकायाःस्मृतःकन्दोग्रहण्यर्शोहितोलघुः॥१२१॥

नात्युष्णःकफवातघ्नोग्राहीशस्तोमदात्यये।

त्रिदोषंबद्धविण्मूत्रंसार्षपंशाकमुच्यते॥१२२॥

(तद्वत् स्याद्रक्तनालस्यरूक्षमम्लंविशेषतः।)

तद्वत्पिण्डालुकंविद्यात्कन्दत्वाच्चमुखप्रियम्।

सर्पच्छत्रकवर्ज्यास्तुबह्व्योऽन्याश्छत्रजातयः॥१२३॥

शीताःपीनसकर्त्र्यश्चमधुरागुर्व्यएवच।

चतुर्थःशाकवर्गोऽयंपत्रकन्दफलाश्रयः॥१२४॥

इतिशाकवर्गश्चतुर्थः॥४॥

अथफलवर्गः-

तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान्।

वातपित्तमुदावर्तंस्वरभेदंमदात्ययम्॥१२५॥

तिक्तास्यतामास्यशोषंकासंचाशुव्यपोहति।

मृद्वीकाबृंहणीवृष्यामधुरास्निग्धशीतला॥१२६॥

मधुरंबृंहणंवृष्यंखर्जूरंगुरुशीतलम्।

क्षयेऽभिघातेदाहेचवातपित्तेचतद्धितम्॥१२७॥

तर्पणंबृंहणंफल्गुगुरुविष्टम्भिशीतलम्।

परूषकंमधूकंचवातपित्तेचशस्यते॥१२८॥

मधुरंबृंहणंबल्यमाम्रातंतर्पणंगुरु।

सस्नेहंश्लेष्मलंशीतंवृष्यंविष्टभ्यजीर्यति॥१२९॥

तालशस्यानिसिद्धानिनारिकेलफलानिच।

बृंहणस्निग्धशीतानिबल्यानिमधुराणिच॥१३०॥

मधुराम्लकषायंचविष्टम्भिगुरुशीतलम्।

पित्तश्लेष्मकरंभव्यंग्राहिवक्रविशोधनम्॥१३१॥

अम्लंपरूषकंद्राक्षाबदराण्यारुकाणिच।

पित्तश्लेष्मप्रकोपीणिकर्कन्धुनिकुचान्यपि॥१३२॥

नात्युष्णंगुरुसम्पक्वंस्वादुप्रायंमुखप्रियम्।

बृंहणंजीर्यतिक्षिप्रंनातिदोषलमारुकम्॥१३३॥

द्विविधंशीतमुष्णंचमधुरंचाम्लमेवच।

गुरुपारावतंज्ञेयमरुच्यत्यग्निनाशनम्॥१३४॥

भव्यादल्पान्तरगुणंकाश्मर्यफलमुच्यते।

तथैवाल्पान्तरगुणंतूदमम्लंपरूषकात्॥१३५॥

कषायमधुरंटङ्कंवातलंगुरुशीतलम्।

कपित्थमामंकण्ठघ्नंविषघ्नंग्राहिवातलम् ॥१३६॥

मधुराम्लकषायत्वात्सौगन्ध्याच्चरुचिप्रदम्।

परिपक्वं चदोषघ्नंविषघ्नंग्राहिगुर्वपि॥१३७॥

बिल्वंतुदुर्जरंपक्वंदोषलंपूतिमारुतम्।

स्निग्धोष्णतीक्ष्णंतद्बालंदीपनंकफवातजित्॥१३८॥

रक्तपित्तकरंबालमापूर्णंपित्तवर्धनम्।

पक्वमाम्रंजयेद्वायुंमांसशुक्रबलप्रदम्॥१३९॥

कषायमधुरप्रायंगुरुविष्टम्भिशीतलम्।

जाम्बवंकफपित्तघ्नंग्राहिवातकरंपरम्॥१४०॥

बदरंमधुरंस्निग्धंभेदनंवातपित्तजित्।

तच्छुष्कंकफवातघ्नंपित्तेनचविरुध्यते॥१४१॥

कषायमधुरंशीतंग्राहिसिम्बि(ञ्चि)तिकाफलम्।

गाङ्गेरुकीकरीरंचबिम्बीतोदनधन्वनम्॥१४२॥

मधुरंसकषायंचशीतंपित्तकफापहम्।

सम्पक्वंपनसंमोचंराजादनफलानिच॥१४३॥

स्वादूनिसकषायाणिस्निग्धशीतगुरूणिच।

कषायविशदत्वाच्चसौगन्ध्याच्चरुचिप्रदम्॥१४४॥

अवदंशक्षमंहृद्यंवातलंलवलीफलम्।

नीपंशताह्वकं पीलुतृणशून्यंविकङ्कतम्॥१४५॥

प्राचीनामलकंचैवदोषघ्नंगरहारिच।

ऐङ्गुदंतिक्तमधुरंस्निग्धोष्णंकफवातजित्॥१४६॥

तिन्दुकंकफपित्तघ्नंकषायंमधुरंलघु।

विद्यादामलकेसर्वान्रसांल्लवणवर्जितान्॥१४७॥

रूक्षंस्वादुकषायाम्लंकफपित्तहरंपरम्।

रसासृङ्मांसमेदोजान्दोषान्हन्तिबिभीतकम्॥१४८॥

स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्।

अम्लंकषायमधुरंवातघ्नंग्राहिदीपनम्॥१४९॥

स्निग्धोष्णंदाडिमंहृद्यंकफपित्ताविरोधिच।

रूक्षाम्लंदाडिमंयत्तुतत्पित्तानिलकोपनम्॥१५०॥

मधुरंपित्तनुत्तेषांपूर्वंदाडिममुत्तमम्।

वृक्षाम्लंग्राहिरूक्षोष्णंवातश्लेष्मणिशस्यते॥१५१॥

अम्लिकायाःफलंपक्वंतस्मादल्पान्तरंगुणैः।

गुणैस्तैरेवसंयुक्तंभेदनंत्वम्लवेतसम्॥१५२॥

शूलेऽरुचौविबन्धेचमन्देऽग्नौमद्यविप्लवे

हिक्काश्वासेचकासेचवम्यांवर्चोगदेषुच॥१५३॥

वातश्लेष्मसमुत्थेषुसर्वेष्वेवोपदिश्यते।

केसरंमातुलुङ्गस्यलघुशेषमतोऽन्यथा॥१५४॥

रोचनोदीपनोहृद्यःसुगन्धिस्त्वग्विवर्जितः।

कर्चूरःकफवातघ्नःश्वासहिक्कार्शसांहितः॥१५५॥

मधुरंकिञ्चिदम्लंचहृद्यंभक्तप्ररोचनम्।

दुर्जरंवातशमनंनागरङ्गफलंगुरु ॥१५६॥

वातामाभिषुकाक्षोटमुकूलकनिकोचकाः।

गुरूष्णस्निग्धमधुराःसोरुमाणाबलप्रदाः॥१५७॥

वातघ्नाबृंहणावृष्याःकफपित्ताभिवर्धनाः।

प्रियालमेषांसदृशंविद्यादौष्ण्यंविनागुणैः॥१५८॥

श्लेष्मलंमधुरंशीतंश्लेष्मातकफलंगुरु।

श्लेष्मलंगुरुविष्टम्भिचाङ्कोटफलमग्निजित्॥१५९॥

गुरूष्णंमधुरंरूक्षंकेशघ्नंचशमीफलम्।

विष्टम्भयतिकारञ्जंवातश्लेष्माविरोधिच॥१६०॥

आम्रातकंदन्तशठमम्लंसकरमर्दकम्।

रक्तपित्तकरंविद्यादैरावतकमेवच॥१६१॥

वातघ्नंदीपनंचैववार्ताकंकटुतिक्तकम्।

वातलंकफपित्तघ्नंविद्यात्पर्पटकीफलम्॥१६२॥

पित्तश्लेष्मघ्नमम्लंचवातलंचाक्षिकीफलम्।

मधुराण्यम्लपाकीनिपित्तश्लेष्महराणिच॥१६३॥

अश्वत्थोदुम्बरप्लक्षन्यग्रोधानांफलानिच।

कषायमधुराम्लानिवातलानिगुरूणिच॥१६४॥

भल्लातकास्थ्यग्निसमंतन्मांसंस्वादुशीतलम्।

पञ्चमःफलवर्गोऽयमुक्तःप्रायोपयोगिकः॥१६५॥

इतिफलवर्गः॥५॥

अथहरितवर्गः-

रोचनंदीपनंवृष्यमार्द्रकंविश्वभेषजम्।

वातश्लेष्मविबन्धेषुरसस्तस्योपदिश्यते॥१६६॥

रोचनोदीपनस्तीक्ष्णःसुगन्धिर्मुखशोधनः।

जम्बीरःकफवातघ्नःक्रिमिघ्नोभक्तपाचनः॥१६७॥

बालंदोषहरं, वृद्धंत्रिदोषं, मारुतापहम्।

स्निग्धसिद्धं, विशुष्कंतुमूलकंकफवातजित्॥१६८॥

हिक्काकासविषश्वासपार्श्वशूलविनाशनः।

पित्तकृत्कफवातघ्नःसुरसःपूतिगन्धहा॥१६९॥

यवानीचार्जकश्चैवशिग्रुशालेयमृष्टकम्।

हृद्यान्यास्वादनीयानिपित्तमुत्क्लेशयन्तिच॥१७०॥

गण्डीरोजलपिप्पल्यस्तुम्बरुःशृङ्गवेरिका।

तीक्ष्णोष्णकटुरूक्षाणिकफवातहराणिच॥१७१॥

पुंस्त्वघ्नःकटुरूक्षोष्णोभूस्तृणोवक्रशोधनः।

खराह्वाकफवातघ्नीबस्तिरोगरुजापहा॥१७२॥

धान्यकंचाजगन्धाचसुमुखश्चेतिरोचनाः।

सुगन्धानातिकटुकादोषानुत्क्लेशयन्तिच॥१७३॥

ग्राहीगृञ्जनकस्तीक्ष्णोवातश्लेष्मार्शसांहितः।

स्वेदनेऽभ्यवहारेचयोजयेत्तमपित्तिनाम्॥१७४॥

श्लेष्मलोमारुतघ्नश्चपलाण्डुर्नचपित्तनुत्

आहारयोगीबल्यश्चगुरुर्वृष्योऽथरोचनः॥१७५॥

क्रिमिकुष्ठकिलासघ्नोवातघ्नोगुल्मनाशनः।

स्निग्धश्चोष्णश्चवृष्यश्चलशुनःकटुकोगुरुः॥१७६॥

शुष्काणिकफवातघ्नान्येतान्येषांफलानिच।

हरितानामयंचैषषष्ठोवर्गःसमाप्यते॥१७७॥

इतिहरितवर्गः॥४॥

अथमद्यवर्गः-

प्रकृत्यामद्यमम्लोष्णमम्लंचोक्तंविपाकतः।

सर्वंसामान्यतस्तस्यविशेषउपदेक्ष्यते॥१७८॥

कृशानांसक्तमूत्राणांग्रहण्यर्शोविकारिणाम्।

सुराप्रशस्तावातघ्नीस्तन्यरक्तक्षयेषुच॥१७९॥

हिक्काश्वासप्रतिश्यायकासवर्चोग्रहारुचौ।

वम्यानाहविबन्धेषुवातघ्नीमदिराहिता॥१८०॥

शूलप्रवाहिकाटोपकफवातार्शसांहितः।

जगलोग्राहिरूक्षोष्णःशोफघ्नोभक्तपाचनः॥१८१॥

शोषार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान्।

हन्त्यरिष्टःकफकृतान्रोगान्रोचनदीपनः ॥१८२॥

मुखप्रियःसुखमदःसुगन्धिर्बस्तिरोगनुत्

जरणीयःपरिणतोहृद्योवर्ण्यश्चशार्करः॥१८३॥

रोचनोदीपनोहृद्यःशोषशोफार्शसांहितः।

स्नेहश्लेष्मविकारघ्नोवर्ण्यःपक्वरसोमतः॥१८४॥

जरणीयोविबन्धघ्नःस्वरवर्णविशोधनः।

लेखनःशीतरसिकोहितःशोफोदरार्शसाम्॥१८५॥

सृष्टभिन्नशकृद्वातोगौडस्तर्पणदीपनः।

पाण्डुरोगव्रणहितादीपनीचाक्षिकीमता ॥१८६॥

सुरासवस्तीव्रमदोवातघ्नोवदनप्रियः।

छेदीमध्वासवस्तीक्ष्णोमैरेयोमधुरोगुरुः॥१८७॥

धातक्याऽभिषुतोहृद्यो रूक्षोरोचनदीपनः।

माध्वीकवन्न चात्युष्णोमृद्वीकेक्षुरसासवः॥१८८॥

रोचनंदीपनंहृद्यंबल्यंपित्ताविरोधिच।

विबन्धघ्नंकफघ्नंचमधुलघ्वल्पमारुतम्॥१८९॥

सुरासमण्डारूक्षोष्णायवानांवातपित्तला।

गुर्वीजीर्यतिविष्टभ्यश्लेष्मलातुमधूलिका॥१९०॥

दीपनंजरणीयंचहृत्पाण्डुक्रिमिरोगनुत्।

ग्रहण्यर्शोहितभेदिसौवीरकतुषोदकम्॥१९१॥

दाहज्वरापहंस्पर्शात्पानाद्वातकफापहम्।

विबन्धघ्नमवस्रंसिदीपनंचाम्लकाञ्जिकम्॥१९२॥

प्रायशोऽभिनवंमद्यंगुरुदोषसमीरणम्।

स्रोतसांशोधनंजीर्णंदीपनंलघुरोचनम्॥१९३॥

हर्षणंप्रीणनंमद्यंभयशोकश्रमापहम्।

प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम्॥१९४॥

सात्त्विकैर्विधिवद्युक्त्यापीतंस्यादमृतंयथा।

वर्गोऽयंसप्तमोमद्यमधिकृत्यप्रकीर्तितः॥१९५॥

इतिमद्यवर्गःसप्तमः॥७॥

अथजलवर्गः-

जलमेकविधंसर्वंपतत्यैन्द्रंनभस्तलात्।

तत् पतत्पतितंचैवदेशकालावपेक्षते॥१९६॥

खात् पतत्सोमवाय्वर्कैःस्पृष्टंकालानुवर्तिभिः।

शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नंमहीगुणैः॥१९७॥

शीतंशुचिशिवंमृष्टंविमलंलघुषड्गुणम्।

प्रकृत्यादिव्यमुदकं,

...भ्रष्टंपात्रमपेक्षते॥१९८॥

श्वेतेकषायंभवतिपाण्डरेस्यात्तुतिक्तकम्।

कपिलेक्षारसंसृष्टमूषरेलवणान्वितम्॥१९९॥

कटुपर्वतविस्तारे मधुरंकृष्णमृत्तिके।

एतत्षाड्गुण्यमाख्यातंमहीस्थस्यजलस्यहि।

तथाऽव्यक्तरसंविद्यादैन्द्रंकारंहिमंचयत्॥२००॥

यदन्तरीक्षात्पततीन्द्रसृष्टं

चोक्तैश्चपात्रैःपरिगृह्यतेऽम्भः।

तदैन्द्रमित्येववदन्तिधीरा

नरेन्द्रपेयंसलिलंप्रधानम् ॥२०१॥

ईषत्कषायमधुरंसुसूक्ष्मंविशदंलघु।

अरूक्षमनभिष्यन्दिसर्वंपानीयमुत्तमम्॥२०२॥

गुर्वभिष्यन्दिपानीयंवार्षिकंमधुरंनवम्।

तनुलघ्वनभिष्यन्दिप्रायःशरदिवर्षति॥२०३॥

तत्तुयेसुकुमाराःस्युःस्निग्धभूयिष्ठभोजनाः।

तेषांभोज्येचभक्ष्येचलेह्येपेयेचशस्यते॥२०४॥

हेमन्तेसलिलंस्निग्धंवृष्यंबलहितंगुरु।

किञ्चित्ततोलघुतरंशिशिरेकफवातजित्॥२०५॥

कषायमधुरंरूक्षंविद्याद्वासन्तिकंजलम्।

ग्रैष्मिकंत्वनभिष्यन्दिजलमित्येवनिश्चयः॥

ऋतावृताविहाख्याताःसर्वएवाम्भसोगुणाः॥२०६॥

विभ्रान्तेषुतुकालेषुयत्प्रयच्छन्तितोयदाः।

सलिलंतत्तुदोषाययुज्यतेनात्रसंशयः॥२०७॥

राजभीराजमात्रैश्चसुकुमारैश्चमानवैः।

सुगृहीताःशरद्यापःप्रयोक्तव्याविशेषतः॥२०८॥

नद्यःपाषाणविच्छिन्नविक्षुब्धाभिहतोदकाः

हिमवत्प्रभवाःपथ्याःपुण्यादेवर्षिसेविताः॥२०९॥

नद्यःपाषाणसिकतावाहिन्योविमलोदकाः।

मलयप्रभवायाश्चजलंतास्वमृतोपमम्॥२१०॥

पश्चिमाभिमुखायाश्चपथ्यास्तानिर्मलोदकाः।

प्रायोमृदुवहागुर्व्योयाश्चपूर्वसमुद्रगाः॥२११॥

पारियात्रभवायाश्चविन्ध्यसह्यभवाश्चयाः।

शिरोहृद्रोगकुष्ठानांताहेतुःश्लीपदस्यच॥२१२॥

वसुधाकीटसर्पाखुमलसन्दूषितोदकाः।

वर्षाजलवहानद्यःसर्वदोषसमीरणाः॥२१३॥

वापीकूपतडागोत्ससरःप्रस्रवणादिषु।

आनूपशैलधन्वानांगुणदोषैर्विभावयेत्॥२१४॥

पिच्छिलंक्रिमिलंक्लिन्नंपर्णशैवालकर्दमैः।

विवर्णंविरसंसान्द्रंदुर्गन्धंनहितंजलम्॥२१५॥

विस्रंत्रिदोषंलवणमम्बुयद्वरुणालयम्।

इत्यम्बुवर्गःप्रोक्तोऽयमष्टमःसुविनिश्चितः॥२१६॥

अथगोरसवर्गः-

स्वादुशीतंमृदुस्निग्धंबहलंश्लक्ष्णपिच्छिलम्।

गुरुमन्दंप्रसन्नंचगव्यंदशगुणंपयः॥२१७॥

तदेवङ्गुणमेवौजःसामान्यादभिवर्धयेत्।

प्रवरंजीवनीयानांक्षीरमुक्तंरसायनम्॥२१८॥

महिषीणांगुरुतरंगव्याच्छीततरंपयः।

स्नेहान्यूनमनिद्रायहितमत्यग्नयेचतत्॥२१९॥

रूक्षोष्णंक्षीरमुष्ट्रीणामीषत्सलवणंलघु।

शस्तंवातकफानाहक्रिमिशोफोदरार्शसाम्॥२२०॥

बल्यंस्थैर्यकरंसर्वमुष्णंचैकशफंपयः।

साम्लंसलवणंरूक्षंशाखावातहरंलघु॥२२१॥

छागंकषायमधुरंशीतंग्राहिपयोलघु।

रक्तपित्तातिसारघ्नंक्षयकासज्वरापहम्॥२२२॥

हिक्काश्वासकरंतूष्णंपित्तश्लेष्मलमाविकम्।

हस्तिनीनांपयोबल्यंगुरुस्थैर्यकरंपरम्॥२२३॥

जीवनंबृंहणंसात्म्यंस्नेहनंमानुषंपयः।

नावनंरक्तपित्तेचतर्पणंचाक्षिशूलिनाम्॥२२४॥

रोचनंदीपनंवृष्यंस्नेहनंबलवर्धनम्।

पाकेऽम्लमुष्णंवातघ्नंमङ्गल्यंबृंहणंदधि॥२२५॥

पीनसेचातिसारेचशीतकेविषमज्वरे।

अरुचौमूत्रकृच्छ्रेचकार्श्येचदधिशस्यते॥२२६॥

शरद्ग्रीष्मवसन्तेषुप्रायशोदधिगर्हितम्।

रक्तपित्तकफोत्थेषुविकारेष्वहितंचतत्॥२२७॥

त्रिदोषंमन्दकं, जातंवातघ्नंदधि, शुक्रलः।

सरः, श्लेष्मानिलघ्नस्तुमण्डःस्रोतोविशोधनः॥२२८॥

शोफार्शोग्रहणीदोषमूत्रग्रहोदरारुचौ।

स्नेहव्यापदिपाण्डुत्वेतक्रंदद्याद्गरेषुच॥२२९॥

सङ्ग्राहिदीपनंहृद्यंनवनीतंनवोद्धृतम्।

ग्रहण्यर्शोविकारघ्नमर्दितारुचिनाशनम्॥२३०॥

स्मृतिबुद्ध्यग्निशुक्रौजःकफमेदोविवर्धनम्।

वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥२३१॥

सर्वस्नेहोत्तमंशीतंमधुरंरसपाकयोः

सहस्रवीर्यंविधिभिर्घृतंकर्मसहस्रकृत्॥२३२॥

मदापस्मारमूर्च्छायशोषोन्मादगरज्वरान्

योनिकर्णशिरःशूलंघृतंजीर्णमपोहति॥२३३॥

सर्पींष्यजाविमहिषीक्षीरवत्स्वानिनिर्दिशेत्।

पीयूषोमोरटंचैवकिलाटाविविधाश्चये॥२३४॥

दीप्ताग्नीनामनिद्राणांसर्वएवसुखप्रदाः।

गुरवस्तर्पणावृष्याबृंहणाःपवनापहाः॥२३५॥

विशदागुरवोरूक्षाग्राहिणस्तक्रपिण्डकाः।

गोरसानामयंवर्गोनवमःपरिकीर्तितः॥२३६॥

इतिगोरसवर्गोनवमः॥९॥

अथेक्षुवर्गः-

वृष्यःशीतःसरःस्निग्धोबृंहणोमधुरोरसः।

शैत्यात्प्रसादान्माधुर्यात्पौण्ड्रकाद्वंशकोवरः।

प्रभूतक्रिमिमज्जासृङ्मेदोमांसकरोगुडः॥२३८॥
क्षुद्रोगुडश्चतुर्भागत्रिभागार्धावशेषितः।
रसोगुरुर्यथापूर्वंधौतःस्वल्पमलोगुडः॥२३९॥
ततोमत्स्यण्डिकाखण्डशर्कराविमलाःपरम्।
यथायथैषांवैमल्यंभवेच्छैत्यंतथातथा॥२४०॥
वृष्याक्षीणक्षतहितासस्नेहागुडशर्करा।
कषायमधुराशीतासतिक्तायासशर्करा॥२४१॥
रूक्षावम्यतिसारघ्नीच्छेदनीमधुशर्करा।
तृष्णासृक्पित्तदाहेषुप्रशस्ताःसर्वशर्कराः॥२४२॥

माक्षिकंभ्रामरंक्षौद्रंपौत्तिकंमधुजातयः।
माक्षिकंप्रवरंतेषांविशेषाद्भ्रामरंगुरु॥२४३॥
माक्षिकंतैलवर्णंस्याद्घृतवर्णंतुपौत्तिकम्।
क्षौद्रंकपिलवर्णंस्याच्छ्वेतंभ्रामरमुच्यते॥२४४॥

वातलंगुरुशीतंचरक्तपित्तकफापहम्।
सन्धातृ च्छेदनं रूक्षं कषायं मधुरं मधु ||२४५||
हन्यान्मधूष्णमुष्णार्तमथवासविषान्वयात्।
गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पंहितंमधु॥२४६॥

नातःकष्टतमंकिञ्चिन्मध्वामात्तद्धिमानवम्।
उपक्रमविरोधित्वात्सद्योहन्याद्यथाविषम्॥२४७॥
आमेसोष्णाक्रियाकार्यासामध्वामेविरुध्यते।
मध्वामंदारुणंतस्मात्सद्योहन्याद्यथाविषम्॥२४८॥

नानाद्रव्यात्मकत्वाच्चयोगवाहिपरंमधु।
इतीक्षुविकृतिप्रायोवर्गोऽयंदशमोमतः॥२४९॥

इतीक्षुवर्गोदशमः॥१०॥

अथकृतान्नवर्गः-
क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा।
स्वेदाग्निजननीपेयावातवर्चोनुलोमनी॥२५०॥
तर्पणीग्राहिणीलघ्वीहृद्याचापिविलेपिका।
मण्डस्तुदीपयत्यग्निंवातंचाप्यनुलोमयेत्॥२५१॥
मृदूकरोतिस्रोतांसिस्वेदंसञ्जनयत्यपि।
लङ्घितानांविरिक्तानांजीर्णेस्नेहेचतृष्यताम्॥२५२॥
दीपनत्वाल्लघुत्वाच्चमण्डःस्यात्प्राणधारणः।
लाजपेयाश्रमघ्नीतुक्षामकण्ठस्यदेहिनः॥२५३॥
तृष्णातीसारशमनोधातुसाम्यकरःशिवः।
लाजमण्डोऽग्निजननोदाहमूर्च्छानिवारणः ॥२५४॥
मन्दाग्निविषमाग्नीनांबालस्थविरयोषिताम्।
देयश्चसुकुमाराणांलाजमण्डःसुसंस्कृतः॥२५५॥
क्षुत्पिपासापहःपथ्यःशुद्धानांचमलापहः।
शृतःपिप्पलिशुण्ठीभ्यांयुक्तो लाजाम्लदाडिमैः॥२५६॥
कषायमधुराःशीतालघवोलाजसक्तवः।

सुधौतःप्रस्रुतःस्विन्नःसन्तप्तश्चौदनोलघुः॥२५७॥
भृष्टतण्डुलमिच्छन्तिगरश्लेष्मामयेष्वपि।
अधौतोऽप्रस्रुतोऽस्विन्नःशीतश्चाप्योदनोगुरुः॥२५८॥
मांसशाकवसातैलघृतमज्जफलौदनाः।
बल्याःसन्तर्पणाहृद्यागुरवोबृंहयन्तिच॥२५९॥
तद्वन्माषतिलक्षीरमुद्गसंयोगसाधिताः।

कुल्माषागुरवोरूक्षावातलाभिन्नवर्चसः॥२६०॥
स्विन्नभक्ष्यास्तुयेकिचित्सौप्यगौधूमयाविकाः।
भिषक्तेषांयथाद्रव्यमादिशेद्गुरुलाघवम्॥२६१॥

अकृतंकृतयूषंचतनुंसांस्कारिकंरसम्।
सूपमम्लमनम्लंचगुरुंविद्याद्यथोत्तरम्॥२६२॥

सक्तवोवातलारूक्षाबहुवर्चोनुलोमिनः।
तर्पयन्तिनरंसद्यःपीताःसद्योबलाश्चते॥२६३॥
मधुरालघवःशीताःसक्तवःशालिसम्भवाः।
ग्राहिणोरक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः॥२६४॥

हन्याद्व्याधीन्यवापूपोयावकोवाट्यएवच।
उदावर्तप्रतिश्यायकासमेहगलग्रहान्॥२६५॥
धानासञ्ज्ञास्तुयेभक्ष्याःप्रायस्तेलेखनात्मकाः।
शुष्कत्वात्तर्पणाश्चैवविष्टम्भित्वाच्चदुर्जराः॥२६६॥
विरूढधानाशष्कुल्योमधुक्रोडाःसपिण्डकाः।
पूपाःपूपलिकाद्याश्चगुरवःपैष्टिकाःपरम्॥२६७॥

फलमांसवसाशाकपललक्षौद्रसंस्कृताः।
भक्ष्यावृष्याश्चबल्याश्चगुरवोबृंहणात्मकाः॥२६८॥
वेशवारोगुरुःस्निग्धोबलोपचयवर्धनः।
गुरवस्तर्पणावृष्याःक्षीरेक्षुरसपूपकाः ॥२६९॥
सगुडाःसतिलाश्चैवसक्षीरक्षौद्रशर्कराः।
भक्ष्यावृष्याश्चबल्याश्चपरंतुगुरवःस्मृताः॥२७०॥

सस्नेहाःस्नेहसिद्धाश्चभक्ष्याविविधलक्षणाः।
गुरवस्तर्पणावृष्याहृद्यागौधूमिकामताः॥२७१॥
संस्काराल्लघवःसन्तिभक्ष्यागौधूमपैष्टिकाः।
धानापर्पटपूपाद्यास्तान्बुद्ध्वानिर्दिशेत्तथा॥२७२॥

पृथुकागुरवोभृष्टान् भक्षयेदल्पशस्तुतान्।
यावाविष्टभ्यजीर्यन्तिसरसाभिन्नवर्चसः॥२७३॥

सूप्यान्नविकृताभक्ष्यावातलारूक्षशीतलाः।
सकटुस्नेहलवणानल्पशोभक्षयेत्तुतान्॥२७४॥

मृदुपाकाश्चयेभक्ष्याःस्थूलाश्चकठिनाश्चये।
गुरवस्तेव्यतिक्रान्तपाकाःपुष्टिबलप्रदाः॥२७५॥
द्रव्यसंयोगसंस्कारंद्रव्यमानंपृथक्तथा।
भक्ष्याणामादिशेद्बुद्ध्वायथास्वंगुरुलाघवम्॥२७६॥

(नानाद्रव्यैः समायुक्तःपक्वामक्लिन्नभर्जितैः।
विमर्दकोगुरुर्हृद्योवृष्योबलवतांहितः॥२७७॥)
रसालाबृंहणीवृष्यास्निग्धाबल्यारुचिप्रदा।
स्नेहनंतर्पणंहृद्यंवातघ्नंसगुडंदधि॥२७८॥

द्राक्षाखर्जूरकोलानांगुरुविष्टम्भिपानकम्।
परूषकाणांक्षौद्रस्ययच्चेक्षुविकृतिंप्रति॥२७९॥
तेषांकट्वम्लसंयोगान् पानकानांपृथक्पृथक्।
द्रव्यंमानंचविज्ञायगुणकर्माणिचादिशेत्॥२८०॥
कट्वम्लस्वादुलवणालघवोरागषाडवाः।
मुखप्रियाश्चहृद्याश्चदीपनाभक्तरोचनाः॥२८१॥
आम्रामलकलेहाश्चबृंहणाबलवर्धनाः।
रोचनास्तर्पणाश्चोक्ताःस्नेहमाधुर्यगौरवात्॥२८२॥
बुद्ध्वासंयोगसंस्कारंद्रव्यमानंचतच्छ्रितम्।
गुणकर्माणिलेहानांतेषांतेषांतथावदेत्॥२८३॥

रक्तपित्तकफोत्क्लेदिशुक्तंवातानुलोमनम्।
कन्दमूलफलाद्यंचतद्वद्विद्यात्तदासुतम्॥२८४॥
शिण्डाकीचासुतंचान्यत्कालाम्लंरोचनंलघु।
विद्याद्वर्गंकृतान्नानामेकादशतमंभिषक्॥२८५॥

इतिकृतान्नवर्गएकादशः॥११॥

कषायानुरसं स्वादुसूक्ष्ममुष्णंव्यवायिच।
पित्तलंबद्धविण्मूत्रंनचश्लेष्माभिवर्धनम्॥२८६॥
वातघ्नेषूत्तमंबल्यंत्वच्यंमेधाग्निवर्धनम्।
तैलंसंयोगसंस्कारात्सर्वरोगापहंमतम्॥२८७॥
तैलप्रयोगादजरानिर्विकाराजितश्रमाः।
आसन्नतिबलाःसङ्ख्येदैत्याधिपतयःपुरा॥२८८॥
ऐरण्डतैलंमधुरंगुरुश्लेष्माभिवर्धनम्।
वातासृग्गुल्महृद्रोगजीर्णज्वरहरंपरम्॥२८९॥
कटूष्णंसार्षपंतैलंरक्तपित्तप्रदूषणम्।
कफशुक्रानिलहरंकण्डूकोठविनाशनम् ॥२९०॥
प्रियालतैलंमधुरंगुरुश्लेष्माभिवर्धनम्।
हितमिच्छन्तिनात्यौष्ण्यात्संयोगेवातपित्तयोः॥२९१॥
आतस्यंमधुराम्लंतुविपाकेकटुकंतथा।
उष्णवीर्यंहितंवातेरक्तपित्तप्रकोपणम्॥२९२॥
कुसुम्भतैलमुष्णंचविपाकेकटुकंगुरु।
विदाहिचविशेषेणसर्वदोषप्रकोपणम्॥२९३॥
फलानांयानिचान्यानितैलान्याहारसंविधौ
युज्यन्तेगुणकर्मभ्यांतानिब्रूयाद्यथाफलम्॥२९४॥

मधुरोबृंहणोवृष्योबल्योमज्जातथावसा।
यथासत्त्वंतुशैत्योष्णेवसामज्ज्ञोर्विनिर्दिशेत्॥२९५॥

सस्नेहंदीपनंवृष्यमुष्णंवातकफापहम्।
विपाकेमधुरंहृद्यंरोचनंविश्वभेषजम्॥२९६॥
श्लेष्मलामधुराचार्द्रागुर्वीस्निग्धाचपिप्पली।
साशुष्काकफवातघ्नीकटूष्णावृष्यसम्मता ॥२९७॥
नात्यर्थमुष्णंमरिचमवृष्यंलघुरोचनम्।
छेदित्वाच्छोषणत्वाच्चदीपनंकफवातजित् ॥२९८॥
वातश्लेष्मविबन्धघ्नंकटूष्णंदीपनंलघु।
हिङ्गुशूलप्रशमनंविद्यात्पाचनरोचनम्॥२९९॥
रोचनंदीपनंवृष्यंचक्षुष्यमविदाहिच।
त्रिदोषघ्नंसमधुरं सैन्धवंलवणोत्तमम्॥३००॥
सौक्ष्म्यादौष्ण्याल्लघुत्वाच्चसौगन्ध्याच्चरुचिप्रदम्।
सौवर्चलंविबन्धघ्नंहृद्यमुद्गारशोधिच॥३०१॥
तैक्ष्ण्यादौष्ण्याद्व्यवायित्वाद्दीपनंशूलनाशनम्।
ऊर्ध्वंचाधश्चवातानामानुलोम्यकरंबिडम्॥३०२॥
सतिक्तकटुसक्षारंतीक्ष्णमुत्क्लेदिचौद्भिदम्।
नकाललवणेगन्धःसौवर्चलगुणाश्चते॥३०३॥
सामुद्रकंसमधुरं, सतिक्तंकटुपांशुजम्।
रोचनंलवणंसर्वंपाकिस्रंस्यनिलापहम्॥३०४॥

हृत्पाण्डुग्रहणीरोगप्लीहानाहगलग्रहान्।
कासंकफजमर्शांसियावशूकोव्यपोहति॥३०५॥
तीक्ष्णोष्णोलघुरूक्षश्चक्लेदीपक्ता विदारणः।
दाहनोदीपनश्छेत्तासर्वःक्षारोऽग्निसन्निभः ॥३०६॥

कारवीकुञ्चिकाऽजाजीयवानीधान्यतुम्बुरु।
रोचनंदीपनंवातकफदौर्गन्ध्यनाशनम्॥३०७॥

आहारयोगिनांभक्तिनिश्चयोनतुविद्यते।
समाप्तो द्वादशश्चायंवर्गआहारयोगिनाम्॥३०८॥

इत्याहारयोगिवर्गोद्वादशः॥१२॥

शूकधान्यंशमीधान्यंसमातीतंप्रशस्यते।
पुराणंप्रायशोरूक्षंप्रायेणाभिनवंगुरु ॥३०९॥

यद्यदागच्छति क्षिप्रंतत्तल्लघुतरंस्मृतम्।
निस्तुषंयुक्तिभृष्टंचसूप्यंलघुविपच्यते॥३१०॥

मृतंकृशंचातिमेद्यंवृद्धंबालंविषैर्हतम्।
अगोचरभृतंव्यालसूदितंमांसमुत्सृजेत्॥३११॥

अतोऽन्यथाहितंमांसंबृंहणंबलवर्धनम्।

प्रीणनःसर्वभूतानांहृद्योमांसरसःपरम्॥३१२॥

शुष्यतांव्याधिमुक्तानांकृशानांक्षीणरेतसाम्।
बलवर्णार्थिनांचैवरसंविद्याद्यथामृतम्॥३१३॥

सर्वरोगप्रशमनंयथास्वंविहितंरसम्।
विद्यात्स्वर्यंबलकरंवयोबुद्धीन्द्रियायुषाम्॥३१४॥

व्यायामनित्याःस्त्रीनित्यामद्यनित्याश्चयेनराः।
नित्यंमांसरसाहारानातुराःस्युर्नदुर्बलाः॥३१५॥

क्रिमिवातातपहतंशुष्कंजीर्णमनार्तवम्।
शाकंनिःस्नेहसिद्धंचवर्ज्यंयच्चापरिस्रुतम्॥३१६॥

पुराणमामंसङ्क्लिष्टंक्रिमिव्यालहिमातपैः।
अदेशकालजंक्लिन्नंयत्स्यात्फलमसाधुतत्॥३१७॥

हरितानां यथाशाकंनिर्देशःसाधनादृते।
मद्याम्बुगोरसादीनांस्वेस्वेवर्गेविनिश्चयः॥३१८॥

यदाहारगुणैः पानंविपरीतंतदिष्यते।
अन्नानुपानंधातूनांदृष्टंयन्नविरोधिच॥३१९॥

आसवानांसमुद्दिष्टामशीतिंचतुरुत्तराम्।
जलंपेयमपेयंचपरीक्ष्यानुपिबेद्धितम्॥३२०॥

स्निग्धोष्णं मारुतेशस्तंपित्तेमधुरशीतलम्।
कफेऽनुपानंरूक्षोष्णंक्षयेमांसरसःपरम्॥३२१॥

उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः।
क्लान्तानामनुपानार्थंपयःपथ्यंयथाऽमृतम्॥३२२॥

सुराकृशानांपुष्ट्यर्थमनुपानंविधीयते।
कार्श्यार्थंस्थूलदेहानामनुशस्तंमधूदकम्॥३२३॥

अल्पाग्नीनामनिद्राणांतन्द्राशोकभयक्लमैः।
मद्यमांसोचितानांचमद्यमेवानुशस्यते॥३२४॥

अथानुपानकर्मगुणान्प्रवक्ष्यामः- अनुपानंतर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातंभिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितांचाहारस्योपजनयतीति॥३२५॥

भवतिचात्र-
अनुपानंहितंयुक्तंतर्पयत्याशुमानवम्।
सुखंपचतिचाहारमायुषेचबलायच॥३२६॥

नोर्ध्वाङ्गमारुताविष्टानहिक्काश्वासकासिनः।
नगीतभाष्याध्ययनप्रसक्तानोरसिक्षताः॥३२७॥

पिबेयुरुदकंभुक्त्वातद्धिकण्ठोरसिस्थितम्।
स्नेहमाहारजंहत्वा भूयोदोषायकल्पते॥३२८॥

अन्नपानैकदेशोऽयमुक्तःप्रायोपयोगिकः।
द्रव्याणिनहिनिर्देष्टुंशक्यंकार्त्स्न्येननामभिः॥३२९॥

यथानानौषधंकिञ्चिद्देशजानांवचोयथा।
द्रव्यंतत्तत्तथावाच्यमनुक्तमिहयद्भवेत्॥३३०॥

चरःशरीरावयवाःस्वभावोधातवःक्रिया।
लिङ्गंप्रमाणंसंस्कारोमात्राचास्मिन्परीक्ष्यते॥३३१॥

चरोऽनूपजलाकाशधन्वाद्योभक्ष्यसंविधिः।
जलजानूपजाश्चैवजलानूपचराश्चये॥३३२॥

गुरुभक्ष्याश्चयेसत्त्वाःसर्वेतेगुरवःस्मृताः।
लघुभक्ष्यास्तुलघवोधन्वजाधन्वचारिणः॥३३३॥

शरीरावयवाःसक्थिशिरःस्कन्धादयस्तथा।
सक्थिमांसाद्गुरुः स्कन्धस्ततःक्रोडस्ततःशिरः॥३३४॥

वृषणौचर्ममेढ्रंचश्रोणीवृक्कौयकृद्गुदम्।
मांसाद्गुरुतरंविद्याद्यथास्वंमध्यमस्थिच॥३३५॥

स्वभावाल्लघवोमुद्गास्तथालावकपिञ्जलाः।
स्वभावाद्गुरवोमाषावराहमहिषास्तथा॥३३६॥

धातूनांशोणितादीनांगुरुंविद्याद्यथोत्तरम्।
अलसेभ्योविशिष्यन्तेप्राणिनोयेबहुक्रियाः॥३३७॥

गौरवंलिङ्गसामान्येपुंसांस्त्रीणांतुलाघवम्।
महाप्रमाणागुरवःस्वजातौलघवोऽन्यथा॥३३८॥

गुरूणांलाघवंविद्यात्संस्कारात्सविपर्ययम्।
व्रीहेर्लाजायथाचस्युःसक्तूनांसिद्धपिण्डिकाः॥३३९॥

अल्पादानेगुरूणांचलघूनांचातिसेवने।
मात्राकारणमुद्दिष्टंद्रव्याणांगुरुलाघवे॥३४०॥

गुरूणामल्पमादेयंलघूनांतृप्तिरिष्यते।
मात्रांद्रव्याण्यपेक्षन्ते मात्राचाग्निमपेक्षते॥३४१॥

बलमारोग्यमायुश्चप्राणाश्चाग्नौप्रतिष्ठिताः।
अन्नपानेन्धनैश्चाग्निर्ज्वलतिव्येतिचान्यथा ॥३४२॥

गुरुलाघवचिन्तेयंप्रायेणाल्पबलान्प्रति।
मन्दक्रियाननारोग्यान्सुकुमारान्सुखोचितान्॥३४३॥

दीप्ताग्नयःखराहाराःकर्मनित्यामहोदराः।
येनराःप्रतितांश्चिन्त्यंनावश्यंगुरुलाघवम्॥३४४॥

हिताभिर्जुहुयान्नित्यमन्तरग्निंसमाहितः।
अन्नपानसमिद्भिर्नामात्राकालौविचारयन्॥३४५॥

आहिताग्निःसदापथ्यान्यन्तरग्नौजुहोतियः।j
दिवसेदिवसेब्रह्मजपत्यथददातिच॥३४६॥

नरंनिःश्रेयसेयुक्तंसात्म्यज्ञंपानभोजने।
भजन्तेनामयाःकेचिद्भाविनोऽप्यन्तरादृते॥३४७

षड्त्रिंशतंसहस्राणिरात्रीणांहितभोजनः।
जीवत्यनातुरोजन्तुर्जितात्मासम्मतःसताम्॥३४८॥

प्राणाःप्राणभृतामन्नमन्नंलोकोऽभिधावति।
वर्णःप्रसादःसौस्वर्यंजीवितंप्रतिभासुखम्॥३४९॥

तुष्टिःपुष्टिर्बलंमेधासर्वमन्नेप्रतिष्ठितम्।
लौकिकंकर्मयद्वृत्तौस्वर्गतौयच्चवैदिकम्॥३५०॥
कर्मापवर्गेयच्चोक्तंतच्चाप्यन्नेप्रतिष्ठितम्।

तत्रश्लोकः-
अन्नपानगुणाःसाग्र्यावर्गाद्वादशनिश्चिताः॥३५१॥

सगुणान्यनुपानानिगुरुलाघवसङ्ग्रहः
अन्नपानविधावुक्तंतत्परीक्ष्यं विशेषतः॥३५२॥

इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेश्लोकस्थानेऽन्नपानविधिर्नामसप्तविंशोऽध्यायः॥२७॥

 

Post a Comment

0 Comments