For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
आसिक्तक्षीरमापूर्णमशुष्कं
शुद्धषष्टिकम्|
उदूखले समापोथ्य पीडयेत्
क्षीरमर्दितम्||३||
गृहीत्वा तं रसं पूतं गव्येन
पयसा सह|
बीजानामात्मगुप्ताया
धान्यमाषरसेन च||४||
बलायाः शूर्पपर्ण्योश्च
जीवन्त्या जीवकस्य च [२] |
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य
च||५||
शतावर्या विदार्याश्च
द्राक्षाखर्जूरयोरपि|
संयुक्तं मात्रया वैद्यः
साधयेत्तत्र चावपेत्||६||
तुगाक्षीर्याः समाषाणां
शालीनां षष्टिकस्य च|
गोधूमानां च चूर्णानि यैः
स सान्द्रीभवेद्रसः||७||
सान्द्रीभूतं च कुर्यात्
प्रभूतमधुशर्करम्|
गुलि(टि)का बदरैस्तुल्यास्ताश्च
सर्पिषि भर्जयेत्||८||
ता यथाग्नि प्रयुञ्जानः
क्षीरमांसरसाशनः|
पश्यत्यपत्यं विपुलं
वृद्धोऽप्यात्मजमक्षयम्||९||
(इत्यपत्यकरी
षष्टिकादिगुटिका)
चटकानां सहंसानां
दक्षाणां शिखिनां तथा|
शिशुमारस्य नक्रस्य भिषक्
शुक्राणि संहरेत्||१०||
गव्यं सर्पिर्वराहस्य
कुलिङ्गस्य वसामपि|
षष्टिकानां च चूर्णानि
चूर्णं गोधूमकस्य च||११||
एभिः पूपलिकाः कार्याः
शष्कुल्यो वर्तिकास्तथा|
पूपा धानाश्च विविधा
भक्ष्याश्चान्ये पृथग्विधाः||१२||
एषां प्रयोगाद्भक्ष्याणां
स्तब्धेनापूर्णरेतसा|
शेफसा वाजिवद्याति
यावदिच्छं स्त्रियो नरः||१३||
(इति वृष्यपूपलिकादियोगाः)
आत्मगुप्ताफलं माषान्
खर्जूराणि शतावरीम्|
शृङ्गाटकानि मृद्वीकां
साधयेत् प्रसृतोन्मितम्||१४||
क्षीरप्रस्थं
जलप्रस्थमेतत् प्रस्थावशेषितम्|
शुद्धेन वाससा पूतं
योजयेत् प्रसृतैस्त्रिभिः||१५||
शर्करायास्तुगाक्षीर्याः
सर्पिषोऽभिनवस्य च|
तत् पाययेत सक्षौद्रं
षष्टिकान्नं च भोजयेत्||१६||
जरापरीतोऽप्यबलो
योगेनानेन विन्दति|
नरोऽपत्यं सुविपुलं युवेव
च स हृष्यति||१७||
(इत्यपत्यकरः स्वरसः)
खर्जूरीमस्तकं माषान्
पयस्यां च शतावरीम्|
खर्जूराणि मधूकानि
मृद्वीकामजडाफलम्||१८||
पलोन्मितानि मतिमान् [४] साधयेत् सलिलाढके|
तेन पादावशेषेण
क्षीरप्रस्थं विपाचयेत्||१९||
क्षीरशेषेण तेनाद्याद्
घृताढ्यं षष्टिकौदनम्|
सशर्करेण संयोग एष वृष्यः
परं स्मृतः||२०||
(इति वृष्यक्षीरम्)
जीवकर्षभकौ मेदां
जीवन्तीं श्रावणीद्वयम्|
खर्जूरं मधुकं द्राक्षां
पिप्पलीं विश्वभेषजम्||२१||
शृङ्गाटकं विदारीं च नवं
सर्पिः पयो जलम्|
सिद्धं घृतावशेषं
तच्छर्कराक्षौद्रपादिकम्||२२||
षष्टिकान्नेन
संयुक्तमुपयोज्यं यथाबलम्|
वृष्यं बल्यं च वर्ण्यं च
कण्ठ्यं बृंहणमुत्तमम्||२३||
(इति वृष्यघृतम्)
दध्नः सरं
शरच्चन्द्रसन्निभं दोषवर्जितम्|
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या
च बुद्धिमान्||२४||
युक्त्या युक्तं
ससूक्ष्मैलं नवे कुम्भे [५] शुचौ पटे|
मार्जितं प्रक्षिपेच्छीते
घृताढ्ये षष्टिकौदने||२५||
पिबेन्मात्रां
रसालायास्तं भुक्त्वा षष्टिकौदनम् [६] |
वर्णस्वरबलोपेतः
पुमांस्तेन वृषायते||२६||
(वृष्यो दधिसरप्रयोगः)
चन्द्रांशुकल्पं पयसा
घृताढ्यं षष्टिकौदनम्|
शर्करामधुसंयुक्तं
प्रयुञ्जानो वृषायते||२७||
(इति वृष्यः षष्टिकौदनप्रयोगः)
तप्ते सर्पिषि नक्राण्डं
ताम्रचूडाण्डमिश्रितम्|
युक्तं षष्टिकचूर्णेन
सर्पिषाऽभिनवेन च||२८||
पक्त्वा पूपलिकाः
खादेद्वारुणीमण्डपो नरः|
य इच्छेदश्ववद्गन्तुं
प्रसेक्तुं गजवच्च यः||२९||
(इति वृष्यपूपलिकाः)
भवतश्चात्र-
एतैः
प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो [७] बलवर्णयुक्तः|
हर्षान्वितो
वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||
यद्यच्च किञ्चिन्मनसः
प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|
इष्टाः स्त्रियो
भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् [८] ||३१||
तत्र श्लोकः-
आसिक्तक्षीरिके पादे ये
योगाः परिकीर्तिताः|
अष्टावपत्यकामैस्ते
प्रयोज्याः पौरुषार्थिभिः||३२||
इत्यग्निवेशकृते तन्त्रे
चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो
द्वितीयः||२||
0 Comments