For joining Test series Click Here
Copy
and Paste Shaloka
Hi,
welcome all to our blog. We are working on this project to provide you all with
all the shalokas written in samhitas. You can visit here anytime and copy and
paste the shaloka in your presentationas or compilation work. Click anywhere
and then click on open link.
अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्|
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३||
रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्|
इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४||
केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा|
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||
शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनैः|
क्षीरसञ्जननैश्चैव पयः सिद्धं पृथक् पृथक्||६||
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्|
पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्||७||
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्|
श्वदंष्ट्रां क्षीरिकां माषान् गोधूमाञ्छालिषष्टिकान्||८||
पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते|
विवर्जयेत् पयःशेषं तत् पूतं क्षौद्रसर्पिषा||९||
युक्तं सशर्करं पीत्वा वृद्धः सप्ततिकोऽपि वा|
विपुलं लभतेऽपत्यं युवेव च स हृष्यति||१०||
मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्|
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्||११||
त्रिंशत् सुपिष्टाः पिप्पल्यः प्रकुञ्चे तैलसर्पिषोः|
भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः||१२||
पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा|
भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्||१३||
(इति वृष्यः पिप्पलीयोगः)
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे|
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः||१४||
(इति वृष्यपायसयोगः)
फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्|
कुडवश्चूर्णितानां स्यात् स्वयङ्गुप्ताफलस्य च||१५||
कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः|
गोधूमशालिचूर्णानां कुडवः कुडवो भवेत्||१६||
सर्पिषः कुडवश्चैकस्तत् सर्वं क्षीरमर्दितम् [१] |
पक्त्वा पूपलिकाः खादेद्बह्व्यः स्युर्यस्य योषितः||१७||
(इति वृष्यपूपलिकाः)
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्|
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम्||१८||
(इति वृष्यं शतावरीघृतम्)
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् [१] |
प्रयुङ्क्ते यः पयश्चानु [२] नित्यवेगः स ना भवेत्||१९||
(इति वृष्यमधुकयोगः)
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|
रतिभोगक्षमा रात्र्यः सङ्कोचागुरुवल्लभाः||२८||
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||
तत्र श्लोकः-
प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च|
माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः [२] ||३१||
0 Comments